कादम्बरी /467
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम-
तुरगधूलिरेखाधूसरं देवस्यैव गमनमार्गमालोकितवती । तिरोहितदर्शने च देवे मदलेखास्क-
न्धनिक्षिप्तमुखी प्रीत्या तं दिगन्तं दुग्धोदविधवलैः लावयन्तीव दृष्टिपात: सितातपत्रापदे -
शेन शशिनेर्ष्यया निवार्यमाणरविकिरणस्पर्शा सुचिरं तत्रैव स्थितवती । तस्माच कथमपि
सखेदमवतीर्य क्षणमिवावस्थानमण्डपे स्थित्वोत्थाय स्खलनभियेव निवेद्यमानोपहारकुसुमश-
ब्दायमानैर्मधुकरैः, जलधाराघवलन खमयूखोन्मुखानामनुगलं गलद्भिवलयैः कण्ठबन्धानि-
वोपपादयन्ती केकारवोद्विमा भवनशिखण्डिनाम्, पढ़े पदे च कुसुमधवलान्करेण लेतापल्ल-
वान्मनसा च देवस्य गुणगणानवलम्बमाना तमेव क्रीडापर्वतकमागतवती यत्र स्थितवा-
न्देवः । तमुपेत्य च ' देवेनात्र मरकतशिलाम करिकाप्रणालप्रस्रवणसिध्यमानलैतामण्डपे सीक
रिणि शिलातले स्थितम् अत्र गन्धोदकपरिमलली नालिजालजटिलशिलाप्रदेशे स्नातम्, अत्र
."
च्छदा सौधशिखरं गृहाधित्यकामारुह्यारोहणं कृत्वा तुरगस्याश्वस्य धूलिरेखा रजःपङ्किस्तया धूसरं मलिनं देव-
स्यैव भवत एव गमनमार्गमालोकितवती । तिरोहितमदृश्यीभूतं दर्शनं वीक्षणं यस्यैवंभूते च देवे मदलेखायाः
स्कन्धोंऽसरतत्र निक्षिप्तं स्थापितं मुखमाननं यया सैवंविधा प्रीत्या स्नेहेन दुग्धोदधिः क्षीरोदधिस्तद्वद्धवलैः
शुम्रैर्दृष्टिपातैस्तं दिगन्तं प्लावयन्तीव क्षालयन्तीव सितं शुभ्रं यच्चातपत्रं छत्रं तस्यापदेशेन व्याजेन । शुक्लत्ववर्तु-
2
लत्वसाम्यादाह - शशीति । शशी चन्द्रस्तेनेर्यया स्पर्धया निवार्यमाणो दूरीक्रियमाणो रविकिरणानां सूर्य-
किरणानां स्पर्शो यस्याः सर्वभूता सती सुचिरं चिरकालं तत्रैव सौधशिखरे स्थितवत्यवस्थानं कृतवती । तस्माच
सौधशिखरात्सखेदं यथा स्यात्तथावतीर्यावतरणं कृत्वा क्षणमिवावस्थानमण्डपे स्थित्वोत्थाय स्खलनभियेव पतन-
भयेनेवोपहारस्य कुसुमानि तेष्वासमन्ताच्छब्दायमानैः शब्दं कुर्वाणैर्मधुकरैर्भ्रमरैर्निवेद्यमानेव विज्ञप्तिविषयी-
क्रियमाणेव । जलधारावद्धवलानां शुभ्राणां नखमयूखानां पुनर्भवकान्तीनामुन्मुखानां संमुखानामनुगलं निग-
रणमनुलक्षीकृत्य गलद्भिः पतलियैः कटकैः करणभूतैर्भवन शिखण्डिनां गृहमयूराणां केकार वेणोद्विग्नोद्वेगं
प्राप्ता सती कण्ठबन्धानुपपाईंयन्तीव रचयन्तीव । करेण हस्तेन पदे पदे च कुसुमधवलान्पुष्पवच्छुभ्रांल्लताप
ल्लवान्वल्ली किसलयानि मनसा च देवस्य भवतो गुणगणान्गुणसमूहानवलम्बैमानावलम्बनं कुर्वाणा तमेव पूर्वोत
मेव क्रीडापर्वतकमागतवती । यत्रेति । यस्मिन्स्थले देवो भवान्पूर्वं स्थितवान् । तं क्रीडाचलमुपेत्यागत्य च,
अत्र सीकरा विद्यन्ते यस्मिन्नेवंविधे शिलातले देवेन स्थितमासितम् । कीदृशे । मरकतस्य शिला तस्या मकरि-
काप्रणाली मकरमुखो जलमार्गस्तस्य प्रस्रवणेन सिच्यमानो लतामण्डपो यस्य ( यस्मिन् ) तत्तस्मिन् । अत्रेति ।
अस्मिन्गन्धोदकस्य सुगन्धजलस्य यः परिमलस्तेन लीना लग्ना येऽलयो भ्रमरास्तैर्जटिलो व्याप्तः शिलाप्रदेश-
स्तस्मिन्स्नातं कृताप्लम् । अत्रेति । अस्मिन्कुसुमनां धूल्य परागेण सिकतिले सितायुक्ते गिरिनदिकात टे
7
टिप्प० - 1 सूर्येण सह चन्द्रस्य स्पर्धा 'त्वं कादम्बरीं यदि तापयेस्तहं त्वत्तापं निवार्य शीतलये-
यम्' इति । अत एव सितातपत्रस्य तु व्याजमात्रं, शुक्लष-प्रकाशशा लित्वादिगुणैश्चन्द्र एव सः । अत
एव तेन निवार्यमाणातपेत्यर्थः । छत्रस्यापहृवात्कैतवापह्नुतिरलंकारः । 2 अशुद्धमिदम् । 'निवेद्यमानोप-
हारकुसुमा' इत्येव पाठः । विरहविचित्ता सेयमुपहार सुमेषु स्खलिष्यतीति भयात् उपाहारकुसुमोपरि-
शब्दायमानैर्मधुकरैः निवेद्यमानानि ( स्वशब्दैः सूच्यमानानि 'पुष्पाण्यत्र, न स्खलितव्यम् इति) उपहार•
कुसुमानि यस्यै सा; इति तदर्थः । 3 भवद्विरहिता सा गृहशिखिनां रवैर्दुःखिता भवतीति कण्ठेषु
वलययोजनेन तान्मूकीकर्तुमिच्छति परं वलयप्रदानसमये तस्या नखमयूखेषु जलधाराभ्रमेण तद्ग्रहणाय
ते उन्मुखा भवन्ति । अत एव समर्पणसमय एव ते वलयास्तेषां कण्डादधः पतन्ति इत्याशयः । नख-
मयूखेष्वित्यत्र अन्तिमान् व्यङ्ग्यः । कण्ठबन्धानुपपादयन्तीवेत्युत्प्रेक्षा तु स्फुटैव । 4 धारयन्तीत्यर्थः ।
5 आठवः कृत इत्यर्थः ।
पाठा० - १ करस्पर्शा. २ आस्थान. १ अनुपलम् ४ गृहलता ५ हरितलता.