This page has not been fully proofread.

कादम्बरीविषयक: प्रश्नः ]
 
पूर्वभागः ।
 
४३३
 
शनैर्गन्धमादनं करणं द्रष्टुमयासीत् । तत्र च स्थित्वा क्षणमिव तस्मै स्वयमेव निजनखांशु-
जालजटिलं समृणालमिव शष्पकवलमवकीर्य बहमतुरगमन्दुराभिमुखः प्रतस्थे । गच्छंधो-
भयतः किंचित्किंचिदिव तिर्यग्वलितबदनः परिजनं विलोकयांबभूव ।
 

 
अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानुगमने निखिळे समुत्स। रिते परिजने केयूरकद्वितीय एव
मन्दुरां प्रविवेश । उत्सारणभयसंभ्रान्तलोचनेषु प्रणम्या पसृतेषु मन्दुरापालेषु, ईन्द्रायुधष्पृष्ठाव-
गुण्ठनपटं किंचिदेकपाँचै गलितं समीकुर्वन्नुत्सारगंश्च कूणित नेत्रत्रिभागस्य दृष्टिनिरोधिनीं कुङ्कु
मकपिलां केसरसटां खुरधारणीविन्यस्तचरणो लीलामन्दं मन्दुरादारुदत्तदेहभरः सकुतूहलमु-
जाच- 'केयूरक, कथय मन्निर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले, केन वा व्यापारेणा-
वैसरमतिनीतवती गन्धर्वराजपुत्री, किं वाकरोन्महाश्वेता, किमभावत वा मदलेखा, के वाऽभव-
नालापाः, परिजनस्य भवतो वा को व्यापार आसीत् आसीद्वा काचिदस्मदाश्रयिणी कथा' ।
केयूरकन्तु सर्वमाचचक्षे --'देव, श्रूयताम् । निर्गते त्वयि हृदय सहस्र नयाणपटहकलकल
मित्र नूपुरनैवफणितेन कन्यकान्तः पुरे कुँर्वन्ती देवी कादम्बरी सपरिजना सौधशिखरमारुह्य
 
9
 
करिणं हस्तिनं द्रष्टुमीक्षितुमयासीदगमत् । तत्र चेति । गन्धमादनसमीपे क्षणमिव समयसदृशं स्थित्वा तस्मै
हस्तिने स्वयमेवात्मनैव निजमात्मीयं यन्त्रखानामंशुजालं किरणपटलं तेन जटिलं व्याप्तम् । पाटलत्व साम्या
दाह - समृणालमिव बिसैः सहवर्तमानमिव शष्पकवलं नवतृणगुडे रकमवकीर्य पुरोऽवक्षिप्य वल्लभः प्रियो
यस्तुरगोऽश्वस्तस्य मन्दुरा वाजिशाला तस्या अभिमुखः संमुखः प्रतस्थे चचाल । गच्छश्व ब्रजंश्चोभयतो द्वयोः
पार्श्वयोः किंचित्तिर्यक् साचि विवलितं वदनं यस्य सः । परिजनं परिच्छदलोकं विलोकयांबभूवेक्षांचक्रे ।
 
अथेति । तन्निकटगमनानन्तरं चित्तज्ञैः प्रभोरभिप्रायविद्भिः प्रतीहारैर्द्वारपालेः प्रतिषिद्धं निवारितमनु-
गमनमनुयानं यस्यैवंविधे निखिले समग्रे परिजने सेवकजने समुत्सारिते दूरीकृते सति केयूरक एत्र द्वितीयो
यस्यैवंभूतश्चन्द्रापीडो मन्दुरां वाजिशालां प्रविवेश प्रवेशं चकार । उत्सारणं दूरीकरणं तस्माद्यद्भयं तेन
संभ्रान्तानि त्रस्तानि लोचनानि येषां तेषु मन्दुरापालेषु प्रणम्यापसृतेषु दूरीभूतेषु सत्सु, इन्द्रायुधपृष्ठस्या-
वगुण्ठनपटमाच्छादनवस्त्रं किंचिदेकपार्श्वे गलितं त्रस्तं समीकुर्वन् स्वस्थाने नयन्कूणित नेत्र त्रिभागस्येन्द्रा
धस्य दृष्टिनिरोधिनीं दृष्टिबाधाकारिणी कुङ्कुमवत्कपिलां पिङ्गलां केसरसटां स्कन्ध केशश्रेणीमुत्सारयं चोच्चैः कु
बैन्खुरधारिण्यां खुरबन्धनशङ्कौ विन्यस्तो स्थापितौ चरणौ येन सः लीलामन्दं यथा स्यात्तथा मन्दुराद्वारौ
दत्तो देहभरो येन सः । सकुतूहलं सकौतुकं यथा स्यात्तथोवाचाब्रवीत् । हे केयूरक, कथय ब्रूहि मन्निर्गमा
न्मदीय चलनादारभ्य गन्धर्व राजकुले को वा वृत्तान्त उदन्तः । केन व्यापारेणावसरं समयं गन्धर्व राजपुत्री
कादम्बर्यतिनी तवत्यतिक्रान्तवती । किंवा महाश्वेताकरोदन्वतिष्ठत् । वेति विकल्पार्थः सर्वत्र । मदलेखा
किमभाषत किमवोचत् । के वालापा वचनव्यापारा अभवन् । परिजनस्य परिच्छदस्य भवतो वा को व्यापारो
व्याकृ (g) तिरासीदभवत् । काचिदस्मदाश्रयिणी कथा वार्तासीत् ।
 
केयूरकस्तु सर्व प्राणविषयी कृतमाचचक्षे कथयामास । देवेति । हे देव, श्रूयतामाकर्ण्यताम् । त्वयि निर्गते
चलिते सति नूपुराणां पादकटकानां नवक्कणितेनाभिनवशब्दितेन हृदयानां सहस्राणि तेषां प्रयाणं प्रस्थानं
तत्र यः परहस्य कलकल: कोलाहलस्तमिव कन्यकान्तः पुरे कुर्वन्ती सृजन्ती देवी कादम्बरी सपरिजना सपरि-
टिप्प० -- 1 हन्त पुनः सर्व ग्रन्थहृदयं चूर्णयति चन्दिलः ! 'कुर्वति' इति सप्तम्यन्त एव पाठः ।
कन्यकान्तःपुरे नूपुरनवक्कणितेन हृदयसहस्राणां यत्प्रयागम् ( गृहं प्रत्यागच्छता त्वया सह प्रस्थानम्)
तस्य पटहकलकलमिव कुर्वति सति । नूपुरशब्दा नासन्, मन्ये त्वया सह प्रस्थितानां कन्यका हृदय सह-
त्राणां प्रयाणे पटहध्वनय एवाभूवन्नित्याशयः । इदानीं टीकाकारमहाशयस्यार्थेन तुलयन्तु मार्मिका: ।
पाठा०-
-१ तुरङ्गम० २ इन्द्रायुधस्य, ३ पार्श्व, ४ खुरवारणी; खुरधोरणी ५ वासरम्. ६ चक्रक्कणितेन. ७ कुर्वती.
 
५५ का०