This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
गमनगौरवेणाईसीमां गुणवदभिमानिनीं कर्तुम् । उदारजनादरो हि बहुमानमारोपयत्यवश्यम् ।
सोढव्या चेयमस्मद्विधजनपरिचयकदर्थना कुमारेण भवरसुजनतेव जनयत्यनुचितसंदेशप्रा-
गल्भ्यम् । एष देवस्य शयनीये विस्मृतः शेषो हीरः' इत्युत्तरीय पटान्तसंयतं सूक्ष्मसूत्रवि-
वरनिःसृतैरंशुसंतानैः संसूच्यमानं विमुच्य चामरग्राहिण्याः करे समर्पितवान् ।
 

 
अथ चन्द्रापीड: 'महाश्वेताचरणाराधनतपः फलमिदं यदेवं परिजनेऽप्यनुस्मरणादिकं
प्रसादभारमतिमहान्तमारोपयति देवी कादम्बरी' इत्युक्त्वा तत्सर्व शिरसि कृत्वा स्वयमेव
जग्राह । तेन च कादम्बर्याः कपोललावण्येनेव गलितेन, स्मितालोकेनेव रसतामुपनीतेन,
हृदयेनेव द्रुतेन, गुणगणेनेव विस्यैन्दितेन, स्पर्शयता हादिना सुरक्षिणा च विलेपनेन विलिय
तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलध मुहूर्तादिवोत्थाय वामबाहुना स्कन्ध देशेऽर्वेल-
म्थ्य केयूरकमूर्ध्वस्थित एव कृतयथाक्रियमाणसंमानमुदितं प्रधानराजलोकं विसृज्य शनैः
 
४३२
 
स्मरकल्पं कंदर्पतुल्यं त्वां स्मरति गोचरीकरोति अतो हेतोः पुनर्द्वितीयवारं यदागमनगौरवं तेन कृत्वेमा
कादम्बरी गुणवत्स्वभिमानो विद्यते यस्या एवंविधां कर्तुमर्हसि योग्यो भवसि । हि निश्चितम् । उदारजने-
घ्वादरोऽवश्यं बहुमानं सत्कारमारोपयति । इयमस्मद्विधजनपरिचयजनिता या कदर्थना संकोचलक्षणा सा च
कुमारेण सोढव्या सहनीया । संदेशानौचित्यदोषं परिहरन्नाह - भवदिति । भवतस्तव सुजनतैव सज्जन-
तैवानुचितोऽयोग्यो यः संदेशस्तत्र प्रागल्भ्यं पाण्डित्यं जनयति निष्पादयति । एष देवस्य शयनीये शय्यायां
विस्मृतो· विस्मरणं प्राप्तः शेषाभिधानो हार इत्युत्तरीयपटः संव्यानपटस्तस्यान्तेन प्रान्ताञ्चलेन संयत बद्धं सूक्ष्म
यत्सूत्रं तेषां विवराणि रोकाणि तेभ्यो निःसृतैर्विनिर्गतैरंशुसंतानैः किरणसमूहैः संसूच्यमानमभिव्यज्यमानं
चामरग्राहिण्याः करे विमुच्य समर्पितवान्प्रदत्तवान् ।
 
-
 
अथेति । हारप्रदानानन्तरं चन्द्रापीडस्तत्पूर्व प्रतिपादितं सर्वं शिरसि कृत्वा मस्तक आरोग्य स्वयमेवात्म-
नैव जग्राह गृहीतवान् । इतिशब्दार्थमाह - महाश्वेतेति । इदं महाश्वेतायाश्चरणयोराराधनं सेवनं तल्लक्षणं
यतपस्तस्य फलं तस्माद्धेतोरेवममुना प्रकारेण परिजनेऽपि सत्यप्यनुस्मरण: दिकमतिमहान्तं प्रसादभारमारोप-
यति देवी कादम्बरी । इत्युक्त्वेत्यभिधाय तत्पूर्वोक्त शिरसि कृत्वा मस्तक आरोग्य जग्राह गृहीतवान् । तेनेति ।
तेनानिर्वचनीयस्वरूपेण स्पर्शवता ह्रादिना प्रमोदकारिणा सुरभिणा सुगन्धेन विलंपनेन विलिप्य कण्ठे तमेव
हारमकरोदघटयत् । अथ श्वेतत्वसाम्याद्विलेपनमुत्प्रेक्षय नाह- कादम्बर्या इति । कादम्बर्या गलितेनच युतेन
कपोललावण्येन ( इव) च, तथा रसतामुपनीतेन द्रवतां प्रापितेन स्मितालो के नेवादृष्टरदहास्यप्रकाशेनेव, द्रुतेन
विलीनेन हृदयेनेव चित्तेनेव, विस्यन्दितेन प्रस्रवितेन गुणगणेनेव । अन्वयस्तु प्रागेवोक्तः । आगृहीतेति ।
आगृहीतं ताम्बूलं येन स तथा मुहूर्तादिवोत्थाय वामबाहुना केयूरकं स्कन्धदेशेऽवलम्ब्यालम्बनं विधायो-
र्ध्वस्थित एव कृतं विहितं यथाक्रियमाणं पूर्वपरम्परया विधीयमानं संमानं तेन मुदितं हर्षितमेवंविधं प्रधानं
प्रकृष्टं राजलोकं सामन्तादिसेषकवर्ग विसृज्य गृहे गम्यतामित्युक्त्वा शनैः शनैर्मन्दमन्दं गन्धमादननामानं
 
टिप्प० -1 आत्मानं गुणवन्तमभिमन्यते सा, चन्द्रापीडसहशोपि ममान्तिकमागच्छतीति गुणवत्यह
मित्यात्मन्यभिमान इत्याशयः । 2 लेशमपि स्वारस्यस्य न स्पृशति वराकः ! अस्मद्विधानां गुणशून्यजनानां
परिचयेन या कदर्थमा ( आश्मनोऽवमानः ) सा सौजन्यवशाकुमारेण सोढन्येत्यर्थ: । 3 अनुपनिष्ट एव,
'दण्डायमान एव' ।
 
पाठा०
 
• १ हारः प्रहितः २ अवलोकेन. ३ निःस्पन्दितेन. ४ समवलम्ब्य.