कादम्बरी /464
This page has not been fully proofread.
कादम्बर्याः संवादप्रेषणम् ]
पूर्वभागः ।
४३१
मृगमदामोदमनोहरं च मलयविलेपनम । अब्रवीच्च – 'चूडामणिचुम्बिना कोमलाङ्गुलि -
विर्निर्गत लोहितांशुजालेनाञ्जलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठग्रहेण
कुशल वचसा, पर्यस्तशिखण्ड माणिक्यज्योत्स्त्रास्त्रपितललाटेन च नमस्कारेण मदलेखा, क्षिति-
तल घटित
सीमन्तम करिकाकोटिकोणेन सकलकन्यालोकञ्च, सचरणरजः स्पर्शेन च पादप्रणा-
मेन तमालिका । संदिष्टं च तव महाश्वेतया - 'धन्या खलु ते येषां न गतोऽसि चक्षुषोरंवि-
षयम् । तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव
वृत्ताः । स्पृहयन्ति खलु जनाः कथमपि दैवोपपादितायामृतोत्पत्तिवासरायेवातीत दिवसाय
त्वया वियुक्तं निवृत्तमहोत्सवालसमिव वर्तते गन्धर्वराजनगरम् । जानासि च मां कृतसकलप-
रित्यागाम्, तथाप्यकारणपक्षपातिनं भवन्तं द्रष्टुमिच्छत्यनिच्छन्त्या अपि मे बलादिव हृदयम् ।
अपि च बलवदस्वस्थशरीरा कादम्बरी । स्मरति च स्पेराननं स्मरकल्पं त्वाम् । अतः पुनरा-
लीदलानि नागवल्लीपत्राणि । तथा हरस्येश्वरस्य यश्चन्द्रखण्डस्तद्वत्स्थूलं शकलं खण्डं यस्यैतादृशं कर्पूर हिमवालुका ।
तथातिबहलोऽतिनिबिडो. यो मृगमदामोद: कस्तूरीपरिमलस्तेन मनोहरं रुचिरं यन्मलयजविलेपनं चन्दनाङ्ग-
रागः । एतद्दर्शनानन्तरमब्रवीदवोचत् । चकारः समुच्चयार्थः । कादम्बरी देव्यञ्जलिना बद्धपाणिपुटेन देवं
भगवन्तमर्चयति पूजयति । अथाञ्जलिं विशिष्टि - चूडेति । चूडामणिः शिरोमणिस्त चुम्बिना स्पर्शा
कोमलाङ्गुलिभ्यो मृदुकरशाखाभ्यो विनिर्गमो यस्यैवंभूतं लोहितं रक्तमंशुजालं किरणसमूहो यस्मिन्स तेन ।
महाश्वेता च सकण्ठग्रहेण निगरणसहितेन कुशलवचसा मङ्गलवाक्येन देवमर्चयतीत्यस्य सर्वत्र संबन्धः । तथा
मदलेखा नमस्कारेण प्रणामेन । कीदृशेन । पर्यस्तति । पर्यस्तं पतितं यच्छिखण्डमाणिक्यं शिखारलं तस्य
ज्योत्स्ना कान्तिस्तया स्त्रपितं क्षालितं ललाटमलिकं यस्मिन्स तेन । सकलकन्यालोकश्च क्षितितले घटितो लग्नः
सीमन्तः केशवेशवर्त्म तस्य मकरिकाभरणविशेषस्तस्याः कोटेरग्रभागस्य कोणोऽश्रिर्यस्मिन्नेवविधेन चरणरजः-
स्पर्शेन सहवर्तमानेन पादप्रणामेन तमालिका । तथा तव महाश्वेतया संदिष्टं कथितं वर्तते । तदेव दर्शयति -
धन्या इति । खलु निश्चयेन । ते धन्या जनाः यत्तदोर्नित्याभिसंबन्धादाह - येषामिति । येषां नृणां
चक्षुषोर्नेत्रयोरविषयमगोचरं न गतोऽसि । तथा नाम भवतः समक्षं तत्प्रत्यक्षं ते तव गुणा औदार्यादयस्तुहिनं
हिमं तद्वच्छीतलाः सुशीताश्चन्द्रमया इव विरहे त्वद्वियोगे दिवस्वन्मया इव दाहजनकत्वात्सूर्यमया इव
वृत्ताः संपन्नाः । एतेन विरहाधिक्यं सूचितम् । खलु निश्चयेन जनास्तन्नगरनिवासिनो लोकाः कथमपि महता
कष्टेन दैवेन भाग्येनोपपादिताय विहिताया मृतोत्पत्तिवासरायेव । यद्दिनेऽमृतं समुत्पन्न समुद्राद्वहिर्निर्गतं तस्मि-
न्दिने त्रिभुवन आनन्दः समभूत् । अतोऽमृतोत्पत्तिवासरोपमा । अतीतदिवसाय पूर्वं यद्दिने त्वया सह
संबन्धः समभूत्तद्वासराय स्पृहयन्ति वाञ्छन्ति । त्वया वियुक्तं विरहितं, निवृत्तो दूरीभूतो यो महोत्सवः क्षणस्ते-
नालसमिवालस्योपेतमिव गन्धर्वराजनगरं वर्तते समस्ति । कृत इति । कृतो विहितः सकलवस्तुनः परित्यागो
ययैवंविधां मां महाश्वेतां च त्वं जानासि, तथाप्यकारणेनानिमित्तेन पक्षपातिनं साहाय्यकारिणं भवन्तं त्वां
द्रष्टुं वीक्षितुमनिच्छन्त्या अप्यवाञ्छन्त्या अपि मे मम हृदयं बलादिव हठादिवेच्छति स्पृहयति । अपित
हेत्वन्तरे । बलवदतिशयेनास्वस्थं पीडायुक्तं शरीरं देहो यस्याः सैवंविधा कादम्बरी स्पेराननं विनिद्रमुखं
टिप्प० – 1 प्रमादोयं टीकाकर्तुः । येषां नेत्रयोर्गोचरं न गतोसि त एव धन्याः, येषां गतोसि ते तु
ता: वियोगेन तथ्यन्त इत्यर्थः ।
पाठा० -१ विवरविनिर्गत २ विषयम् ३ संवृत्ता:. ४ विनिवृत्त ० ५ महोत्सवानन्दम्.
p