This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम् -
 
धवलेक्षणामाबद्धरणरणकेन चेतसा चिन्तयतो जायत एवास्य जगाम रात्रिः । अपरेच समु
त्थिते भगवति रवावास्थानमण्डपगतस्तद्गतेनैव मनमा सहसैव प्रतीहारेण सह संप्रे विशन्तं केयू-
रकं ददर्श । दूरादेव च क्षितितलस्पर्शिना मौलिना कृतपादपतनम् 'एह्येहि' इत्युक्त्वा प्रथ-
ममपाङ्गविसर्पिणा चक्षुषा, ततो हृदयेन, ततो रोमोद्गमेन, पश्चाद्भुजाभ्यां प्रधावितः पैथि तमा
लिलिङ्ग गाढम् । उपावेशयच्चैनमात्मनः समीप एवं । पप्रच्छ च स्मितंसुधाधवलीकृताक्षरं क्षर-
त्प्रीतिद्रवमयमिव वचनमादृतः - 'केयूरक, कथय कुशलिनी देवी ससखीजना सपरिजना काद-
म्बरी भगवती महाश्वेता च ?? इति । असौ तु तेन राजसूनो: प्रीतिप्रकर्षजन्मना स्मितेनैव
स्त्रपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणम्यादृततरम वोचत्- 'अद्य कुशलिनी, यामे-
वं देवः पृच्छति।' इत्यभिधायापनीयाई वस्त्रावगुण्ठितं विससूत्रसंयतमुखमाई चन्दनपङ्कन्यस्त-
बालमृणालवलयमुद्रं नलिनीपत्रपुटमदर्शयत् । उद्घाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्य-
दर्शयत् । तद्यथा-मरकतह रिन्ति व्यपनीतत्वचि चारुमञ्जरीभाजि क्षीरीणि पूगीफलानि,
शुककामिनीकपोलपाण्डूनि ताम्बूलीदलानि, हरचन्द्रखण्डस्थूलशकलं च कर्पूरम्, अतिबद्दल-
-
 
४३०
 
,
 
शरीरे । 'घनो बन्धः पुरं पिण्ड : ' इति कोशः । प्रीतिमकरोत् । तामेव धवलेक्षणां कादम्बरीमाबद्धरणरणकेन
निबद्धौत्कण्ठ्येन चेतसा चिन्तयतो ध्यायतो जाग्रत एव अस्य चन्द्रापीडस्य रात्रिर्जगाम । अपरेधुश्चेति । अपर
स्मिन्दिने भगवति रवौ समुत्थिते सति तद्गतेनैव कादम्बरीगतेनैव मनसास्थानमण्डपगतः सहसैवातर्कित एव
प्रतीहारेण सह संप्रविशन्तं केयूरकं ददर्शाद्राक्षीत् । दूरादेवेति । दूरादेव दर्शनमात्रादेव क्षितितलं स्पृशती -
त्येवंशीलेन मौलिना मस्तकेन कृतं पादपतनं येन तम्, एह्येहीत्युक्त्वेत्यभिधाय । इदं प्रीत्यतिशयनिवेदकम् ।
प्रथममादावपाङ्गविसर्पिणा नेत्रप्रान्तचारिणा चक्षुषा नेत्रेण, ततस्तदनन्तरं हृदयेन वान्तेन, ततस्तदनन्तरं रोमो-
गमेन रोमाञ्चोद्भवेन, ततः पश्चाद्भुजाभ्यां बाहुभ्यां प्रधावित उच्चलितः प्रथितं विख्यातं गाढमत्यर्थमालिलिङ्गोप-
गूहितवान् । एनं केयूरकं आत्मनः समीप एव आत्मीयासनाभ्यर्ण एवोपावेशयदस्थापयच्च । पुनः स्मित-
सुधाधवलीकृतान्यक्षराणि यस्मिंस्तत्क्षरत्सवद्यः प्रीतिद्रवस्तन्मयमिव तन्निर्मितमिवैतादृशं वचनमादृत आदर-
वान्पप्रच्छ । प्रश्नं चकारेत्यर्थः । किं तदियाह -- केयूरकेति । हे केयूरक, कथय ब्रूहि । शालिनी
क्षेमवती देवी ससखीजना सपरिजना कादम्बरी वर्तते । तथा महाश्वेता भगवती च । असौ त्विति ।
असौ केयूरकस्तु तेनानिर्वचनीयेन राजसूनोश्चन्द्रापीडस्य ग्रीव्याः प्रकर्षस्तस्माजन्मोत्पत्तिर्यस्यैवंभूतेन स्मितेनैव
स्त्रपित इव स्नानं कारित इव, अनुलिप्त इव विलित इव सद्य एव तत्कालमेवापगतोऽध्वखेदः पथ (थि )श्रमो यस्य
स प्रणम्य नमस्कृत्यादृततरमत्यादरपूर्वकमवोचदब्रवीत् । अद्य कुशलिनी सा वर्तते, यामेवं देवः पृच्छतीय-
भिधायेत्युक्त्वापनीय दूरीकृत्यार्द्रवस्त्रेण स्तिमिताशुकेनावगुण्ठितमाच्छादितं बिससूत्रेण मृणालतन्तुना संयतं
बद्धं मुखं यस्य तत् । आर्द्रचन्दनपको न्यस्तो यस्मिन्नेतादृशं वालमृणालवलयं नवीनतन्तुलकटकं तस्य मुद्रा
यस्मिन्नेतादृशं नलिनीपत्रपुट दर्शय दीक्षण विषयमकारयत् । उद्धाट्योन्मुद्र्य तत्र तस्मिन्कादम्बरीप्रहितानि
राजपुत्रीप्रेषितान्यभिज्ञानानि चिह्नान्यदर्श दवलोकनमकारयत् । तदेव दोयति – तद्यथेति । मरकतमश्म-
गर्भ तद्वद्धरिन्ति नीलानि व्यपनीतत्वञ्च दूरीकृतत्वग्भागानि चावी या मञ्जरी तद्भाजि क्षीरीणि क्षीरयुक्तान्ये -
तादृशानि पूगीफलानि क्रमुकफलानि । तथा शुककामिनी कीरपत्नी तस्याः कपोलो तद्वत्पाण्डूनि श्वेतानि ताम्बू-
टिप्प० - 1 आई चन्दनपङ्के न्यस्ता बाणमृणालवलयस्य मुद्रा ( चिह्नम्, भन्यो नोद्घाटयितुं शक्नु-
यादिति ) यस्मिन् तदित्यर्थः ।
 
पाठा० •१ सा. २ प्रविशन्तम् ३ निभृतम् ; प्रसृतम् ४ तमालिलिङ्ग ५ समुपावेशयत् ६ वस्त्रकर्पट.
 
:
 
22
 
201
 
CHAN
 
N