कादम्बरी /462
This page has not been fully proofread.
चन्द्रापीडस् गृहप्रस्थानम् ]
पूर्वभागः ।
४२९
Coope
जनो गुणगौरवाष्टः परवश इष तं ब्रजन्तमा बहिस्तोरणादनुवब्राण । निवृत्ते च कन्यका-
जने केयूरकेणोपनीतं वाजिनमारुह्य गन्धर्वकुमार कैस्तैरनुगम्यमानो हेमकूटात्प्रवृत्तो गन्तुम् ।
गच्छतश्चास्य चित्ररथतनया न केवलमन्तः, बहिरपि सैव सर्वाशानिबन्धनमासीत् । तथा हि-
तन्मयेन मानसेनासह्यविरहदुःखानुशयलग्नामिव पृष्ठतः कृतमार्गगमननिरोधामिव पुरस्तात्,
वियोगाकुलहृदयोत्कलि का वेशात्क्षिप्तामिव नेभसि सम्यगालोकयितुं वदनम्, विरहातुरमान-
सामियाबस्थितामुरःस्थले, तामेव ददर्श क्रमेण च प्राप्य महाश्वेताश्रममच्छोदसरस्तीरे
संनिविष्टमिन्द्रायुखुरपुटानुसारेणैवागतमात्मस्कन्धावारमपश्यत् ।
9
।
निवर्तिताशेषगन्धर्वकुमार सानन्देन सकुतूहलेन सविस्मयेन व स्कन्धावारवर्तिमा जनेन
प्रणम्यमानः स्वभवनं चिवेश । संमानिताशेषराजलोकश्च वैशम्पायनेन पत्रलेखया च सह ' एवं
महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः' इत्यनयैव कथया प्रायो
दिवसमनैषीत् । कादम्बरीरूपदर्शनविद्विष्टेव नास्य पुरे प्रीतिमकरोद्राजलक्ष्मीः । तामेव च
वर्जोऽशेषः समग्रः कन्यकाजनो गुणगौरवेणाकृष्ट आकर्षितः परवश इव परायत्त इव तं चन्द्रापीडं व्रजन्तं
गच्छन्तमा बहिस्तोरणाद्वहिर्द्वारं मर्यादीकृत्यानुवव्राज पृष्ठतो जगाम । तदनन्तरं निवृत्ते च पश्चाद्वलिते च
कन्यकाजने केयूरकेणोपनीतमानीतं वाजिनमारुह्यारोहणं कृत्वा तैः पूर्वोक्तर्गन्धर्म कुमारकैरनु गम्यमानो हेम
कूटाद्गन्तुं प्रवृत्तः । गच्छतो व्रजतोऽस्य चन्द्रापीडस्य चित्ररथतनया कादम्बरी न केवलमन्तर्बहिरपि सैव
कादम्बरी सर्वाशा निबन्धनं समग्राभिलाषाणां कारणमासीद्वभूव । एतदेव दर्शयति- तथा हीति । तन्मयेन
कादम्बरीमयेन मानसेन चित्तेन कृत्वासह्यं न सोढुं शक्यं यद्विरहदुःखं तस्यानुशयः संतापस्तेन पृष्ठतो लनामिव,
पुरस्तादग्रे कृतो मार्गगमनस्य निरोधो यया सैवंविधामिव वियोगेन विरहेणाकुलं यद्धृदयं चित्तं तस्मिन्नुत्कलिका
हृल्लेखस्तस्या आवेशात्प्रवेशात्सम्यग्वदनमालोकयितुं वीक्षितुं नभसि व्योनि क्षिप्तामिव पर्यस्तामिव । विरहेण वियो-
गेनातुरं पीडयितुं (पीडितम् ) मानसं यस्या एवंविधामिवोरःस्थलेऽवस्थिताम् । तामेव कादम्बरीमेव ददर्श -
क्षांचक्रे । क्रमेण परिपाट्या च महाश्वेताश्रमं प्राप्यासाद्याच्छोदसरस्तीरे संनिविष्टं स्थापितमिन्द्रायुधखुरपुटानु-
सारेणैवागतं प्राप्तमात्मनः स्वस्य स्कन्धावारं सैन्यनिवेशमपश्यदैक्षत ।
निवर्तितेति । निवर्तिताः पश्चाद्वलिता अशेषाः समग्रा गन्धर्वकुमारा येनैवंभूतश्च । सानन्देन सप्रमोदेन । सैव
प्रभुदर्शनादिति भावः । सकुतूहलेन कौतुकसहितेन । अत्यद्भुतगन्धर्वजनदर्शनात् । सविस्मयेन साश्चर्येण । तादृश-
मुक्ताप्रालम्बदर्शनात् । एवं विधेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानो नमस्क्रियमाणः स्वभवनं स्वगृहं विवेश
प्रवेशं कृतवान् । संमानितः संस्तुतोऽशेषः समग्रो राजलोको येनैवंभूतश्च वैशम्पायनेन पत्रलेखया च सहैवं महाश्वेता,
एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः, इत्यनयैव कथया वार्तया प्रायो बाहुल्येन दिवसं
वासरमनैषीत् । परिपूर्णांचकारेत्यर्थः । कादम्बर्या रूपदर्शनं तेन विद्विष्टेव विद्वेषं प्राप्तेव राजलक्ष्मीर्नास्य पुरेऽस्य
टिप्प० - 1 टीकाकारः सर्व स्वारस्यं अंशयामास । गमनस्य पश्चात् यद्वियोगदुःखं तस्यानुशयास्पृष्ठतो
लग्नाम् [इति पृष्ठनिरोधः पृथक, तन्मयेन मानसेन कृताग्रगमन निशेधाम् [इति संमुखतो निरोधः पृथक्],
तन्मयमानसेन उत्कण्ठावेशात नभसि क्षिप्तामिव [इति उपरितोनिरोधः पृथक् ], आत्मनः (कादम्बर्या::)
मुखं सम्यग् दर्शयितुं आत्मनो वक्षसिसिताम् [पृथक् ] । 2 धन्यधन्यष्टीकाकारः, ब्राणशब्द शय्यायां
'पुर' शब्दस्य शरीरमर्थ: स्यात् ? अस्तु 'पुरेव' इत्येव पाठः । राजलक्ष्मी पुरेव पूर्वमिव नास्य प्रीतिमकरोत्,
कादम्बरीद्वेषात् । एतेन राजलक्ष्म्याः सपत्नी भावसूचनेन चन्द्रापीडस्य प्रभात्रातिशयो ध्वन्यते ।
पाठा०-
० – १ अधिरुह्य. २ आवेशोत्क्षिप्ताम् ; आवेशविक्षिप्ताम् ३ तामेव मृगलोचनाम् ४ संभावितप्रत्यक्षीकृत-
राजलोकः, संमानितराजलोक: ५ द्विष्टयेव.