This page has not been fully proofread.

४२८
 
कादम्बरी ।
 
[ कथायाम्-
तु
 
लोचनेन बद्धमण्डलं भ्रमता भवनकलहंसेन प्रभातशशिनेव क्रियमाणगमनप्रणाम प्रदक्षिणां
कादम्बरी च समुपसृत्य कृतनमस्कारस्तस्यामेव वेदिकायां विन्यस्तमासनं भेजे । स्थित्वा
च कंचित्कालं महाश्वेताया बदनं विलोक्य स्कुरितक्रपोलोरं मन्दस्मितमकरोत् । असौ तु
ताव
तैव विदिताभिप्राया कादम्बरीमब्रवीत्
- 'सखि, भवत्या गुणैश्चन्द्रापीडश्चन्द्रकान्त इव
चन्द्रमयूखैराकृतो न शक्नोति वक्तुम् । जिगमिषति खलु कुमारः । पृष्ठतो दुःखम विदित-
वृत्तान्तं राजचक्रमास्ते । अपि च युवयोर्दूर स्थितयोरपि स्थितेयमिदानीं कमलिनीकमलया-
न्धवयोरिव कुमुदिनीकुमुदनाथयोरिव प्रीतिराप्रलयात् । अतोऽभ्यनुजानातु भवती' इति ।
 
,
 
अथ कादम्बरी 'सखि, महाश्वेते, स्वाधीनोऽयं सपरिजनो जनः कुमारस्य व इवान्तरा-
त्मा । क इवात्रानुरोधः' इत्यभिधाय गन्धर्वकुमारानाहूय 'प्रापयत कुमार स्वां भूमिम्' इत्या-
दिदेश । चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथमं महाश्वेतां ततः कादम्बरी तस्याश्च प्रेमस्निग्धेन
चक्षुषा मनसा च गृह्यमाण: 'देवि, किं ब्रवीमि । बहुभाषिणे न श्रद्दधाति लोकः । स्पर्तव्यो-
Sस्मि परिजनकथासु' इत्यभिधाय कन्यकान्तः पुरान्निर्जगाम । कादम्बरीवर्जोऽशेषः कन्यका-
त्रिलोचने नेत्रे यस्य स तेनैवंविधां कादम्बरीं च । समुपसृत्य निकटे गत्वा कृतो नमस्कारो येनैवंभूतो यस्यां
सा समुपविष्टारित तस्यामेव वेदिकायां विन्यस्तं स्थापितमासनं विष्टरं भेजेऽभजत् । तत्र कंचित्कालं स्थित्वा
स्थितिं विधाय महाश्वेताया वदनं विलोक्य निरीक्ष्य स्फुरितं चलितं कपोलयोम्दरं मध्यप्रदेशो यस्मिन्नेतादृशं
मन्दस्मितमीषद्धास्यमकरोत् । असौ महाश्वेता तु तावतैव स्मितमात्रेणैव विदितो ज्ञातोऽभिप्रायो यया सैव-
विधा सती कादम्बरीमित्यब्रवीत् । इतिशब्दद्योत्यमाह
- सखीति । हे सखि आलि, भवत्या गुणैः कारण -
भूतैश्चन्द्रापीडश्चन्द्रमयूखैः शशिकिरणैश्चन्द्रकान्त इव चन्द्रोपल इवाकृतो वक्तुं कथयितुं न शक्नोति न समर्थो
भवति । खलु निश्चयेन कुमारो जिगमिषति विचलिष्यति । पृष्ठतो मद्गमनानन्तरमविदितवृत्तान्तमज्ञातोदन्त
मत एव दुःखं दुःखिंतराजचक्रं नृपसमूह आस्ते वर्तते । अपि चेति युक्त्यन्तरे । युवयोः कादम्बरीचन्द्रा-
पीडयोर्दूरस्थितयोरपीदानीं सांगतं कमलिनीकमलबान्धवयोरिव पद्मिनीसूर्ययोरिव कुमुदिनी कुमुदनाथ-
यो कैरविणीचन्द्रमसोरिन प्रीतिः स्नेह आ प्रलयात्प्रलयं मर्यादीकृत्य आकल्पान्तादियं स्थिता । अतो
हेतोर्भवत्यभ्यनुजानातु । गमनाज्ञां ददात्वित्यर्थः ।
 
अथेति । एतच्छ्रवणानन्तरं कादम्बरी गन्धर्वकुमारानाहूयाह्वानं कृत्वेत्यादिदेशेत्यादिष्टवती । इतिशब्द-
वाच्यमाह - कुमारेति । कुमारं चन्द्रापीडं खां भूमिं प्रापयत आपयत यूयम् । किं कृत्वा । इत्यभिधायेत्यु -
क्त्वा । इतिशब्दार्थमाह - हे सखि महाश्वेते, अयं मल्लक्षणः सपरिवारो जनः कुमारस्य स्वान्तरात्मेव स्वाधी-
नः खवशः । अतः कोऽत्रानुरोधः संकोचः । चन्द्रापीडोऽप्युत्थायोत्थानं कृत्वा प्रथममादौ महाश्वेतां प्रणम्य
नमस्कृत्य ततस्तदनन्तरं कादम्बरी प्रणम्य नमस्कृत्य तस्याः कादम्बर्याः प्रेमस्निग्धेन स्नेहचिक्कणेन चक्षुषा
नेत्रेण मनसा च गृह्यमाण इत्यभिधायोक्त्वा कन्यकान्तः पुरान्निर्जगाम निर्गतो बभूव । इतिशब्दार्थमाह -
देवीति । हे देवि कादम्बर; किं ब्रवीमि किं कथयामि । 'ब्रुवते हि फलेन साधवो न तु शब्देन' इति #
न्यायात् । अत्र हेतुमाह -- यतो बहु भषिणे वाचालाय लोको जनो न श्रद्दधाति न विवसिति । अत उपसंहरति-
परीति । परिजनकथासु निजसेवकवार्तासु स्मर्तव्यः स्मरणीयोऽस्मि । अहमिति शेषः । तदन्तरं कादम्बरी-
टिप्प०-1 गन्तुमिच्छति । 2 राजचक्रं दुःखमास्ते दुःखाकुलं यथा स्यात्तथा वर्तते । 3 वशी-
क्रियमाण इत्यर्थः ।
 
पाठा० -१ सुधावेदिकायाम् २ अनुजानातु, ३ सखि स्वाधीन: ४ वर्जमशेषकन्यकाजनः; वर्जमशेषस्तु कन्याजनः .