कादम्बरी /460
This page has not been fully proofread.
चन्द्रापीडस्य कादम्बर्युपगमनम् । पूर्वभागः ।
.
ब्राजिकाभिः परिणतना लफलवल्कललोहितवस्त्राभित्र रक्तपव्रतवाहिनीभिः सितवसननि-
बिडनिबद्धस्तनपरिकराभिश्च श्वेतपटव्यजन। भर्जट जिनवैलालापाढधारिणीभिर्वर्णिचिह्नाभि
तापसीभिः, साक्षादिव देवताभिः पठन्तीभिर्भर्गवतरूयम्बकस्याम्बिकायाः कार्तिकेयस्य
विश्रवणस्य कृष्णस्यार्य विलोकितेश्वरस्याईतो विरिवस्य पुण्याः स्तुतीरुपास्यमानाम्, अन्तःपु
राभ्याताश्च सादर नमस्कारैरा भाषणैरभ्युत्थानै सन्नवेत्र । सनदानैश्च गन्धर्व राजबान्धववृद्धाः
संमानयन्तीं महाश्वेताम्, पृष्ठतञ्च समुपविष्टेन किंनर मिथुनेन मँधुकरमधुराभ्यां वंशाभ्यां
दत्ते ताने कलगिरा गायन्त्या नारददुहित्र्या पठ्याने सर्वमङ्गलमहीयसि महाभारते
दत्तावघानां पुँरो धृते च 'दर्पणे ताम्बूलरागबद्धकृष्णिकान्धकारिताभ्यन्तरं दशनज्योत्स्ना सि-
क्तमुत्सृष्टमधू
च्छिष्टपट्टपाण्डुरमधरं विलोकयन्तीं शैवलतृष्णया कर्णपूरशिरीषप्रेषितोत्तानवि-
१
४२७
}
ताभिः । रक्तेति । रक्तो यः पटस्तस्य यद्रतं तद्वाहिनी भिस्तन्निर्वाहकारिणीभिः । अथ तापसीं विशिष्टि-
।
सितेति । सितवसनेन श्वेतवस्त्रेण निबिडं यथा स्यात्तथा निबद्धः स्तनपरिकरः कुचाभोगो याभिः । श्वेतपस्य
व्यजनानि तालवृन्तानि यासां ताभिः । जटेति । जटा: सटाः, अजिनं मृगचर्म, वल्कलं चोचम्, आषाढ़:
पालाशः, एतान्धारयन्तीत्येवंशीलास्ताभिः । वर्णां ब्रह्मचारी तस्य चिह्नं यासां ताभिः । किं कुर्वन्तीभिरेताभिः ।
पठन्तीभिरुच्चारयन्तीभिः । काः । भगवतत्र्यम्बकस्येश्वरस्य, अम्बिकाया गौर्याः कार्तिकेयस्य स्कन्दस्य विश्रव-
णस्य विश्रवसः, कृष्ण॑स्य जिनस्य, आर्यविलोकितेश्वरस्य बौद्धस्य अर्हतस्तीर्थंकरस्य, विरिञ्चस्य ब्रह्मणः पुण्याः
पवित्राः स्तुतीर्नुतीः । पुनः किं कुर्वन्तीम् । अन्तःपुरेऽभ्यर्हिताः श्रेष्ठा गन्धर्वराजस्य बान्धवाः स्वजनास्तेषां
वृद्धाः स्थविराः सादरं सत्कारपूर्वकं नमस्कारैः प्रणामैराभाषणैर्जल्पनैरभ्युत्थानैरुत्तिष्ठनैराउन्ने समीपे नेत्रासनस्या-
सन्धा दानैश्च कृत्वा संमानयन्तीं सत्कारं कुर्वन्तीं महाश्वेताम् । पुनः कीदृशीं कादम्बरीम् । पृष्ठतः समुपविष्टेन
पश्चाद्भागस्थितेन किंनरमिथुनेन किंपुरुषयुग्मेन मधुकरवन्मधुराभ्यां वंशाभ्यामुपाङ्गाभ्यां ताने स्वरे दत्ते सति ।
नारदो देवब्रह्मा तस्य दुहित्र्या पुत्र्या मद्राभिधानया कलगिरा मनोज्ञवाण्या गायन्त्या गानं कुर्नन्त्या । पठ्यमाने
गानद्वारा कथ्यमाने च सर्वमङ्गलैः समग्रश्रेयोभिर्महीयसि महाभारते दत्तावधानां न्यस्तचित्ताम् । पुनः किं कुर्व-
न्तीम् । पुरो धृतेऽग्रे स्थापिते दर्पणेऽधरं दन्तच्छदं विलोकयन्तीं पश्यन्तीम् । अथाधरं विशेषयन्नाह -- ताम्बू-
लेति । ताम्बूलं नागवल्लीदलं तस्य रागस्तेन बद्धा या कृष्णिा श्यामता तयान्धकारितमन्धकारवदाचरितम-
भ्यन्तरं मध्यभागो यस्य तत् । दशनेति । दशनानां दन्तानां या ज्योत्स्ना चन्द्रिका तया सिक्तं सिञ्चितम् ।
उत्सृष्टेति । उत्सृष्टमुज्झितं मधु क्षौद्रं येनैवंविधो य उच्छिष्टपट्टो मदनैपिण्डस्तद्वत्पाण्डुरं श्वेतरक्तम् । बद्धेति ।
बद्धमण्डलं यथा स्यात्तथा भ्रमता भ्रमणं कुर्वता भवनकलहंसेन गृहकलहंसेन प्रभातकालीनो यः शशी चन्द्र-
स्तेनेव क्रियमाणा विधीयमाना गमनसमये प्रणामयुक्ता प्रदक्षिणा यस्याः सा ताम् । कलहंसान्विशेषयन्नाह ---
शैवलेति । शैवलं शैवालं तस्य तृष्णया गर्धेन कर्णपूरीकृतं यच्छिरीषपुष्पं तस्मिन्प्रेषित उत्तान ऊर्ध्वमुखे
mapa
टिप्प० - 1 बाणनिर्मिती कृष्णपदस्य ( वासुदेवार्थस्य ) जिनार्थकरणं बुद्धिमत्वमेव टीकाकर्तुः ।
2 धन्या बुद्धिः ! उत्थानैरियेव भवति, न उत्तिष्ठलैरिति बोध्यं छात्रैः । एवंविधो टीकां कर्तुं प्रगल्भत
इत्यहो साहसम् । 3 वेणुभ्याम्, 'बंसी' इति भाषा । 4 'मोम' इात ख्यातस्य पिण्डः । 5 अशुद्ध-
मिदम् । भवनकलहंसेन क्रियमाणाः गमनं प्रणामः प्रदक्षि गाश्च यस्यास्ताम् । हंसः समीपे गमनं प्रणामं
प्रदक्षिणां च कृत्वा कर्णपूरशिरीषं याचत इत्यर्थः । 6 कलहंसमित्येकवचनमेव योग्यम् ।
पाठा० -१ मौजीवल्कल. २ शौद्धोदने. ३ विष्टरश्रवसो जिनस्यार्य ४ अर्हतो वैश्वदेवस्य मार्तण्डस्य ५ दर्शना-
गतगन्धर्व. ६ मिथुनकेन. ७ मधुराभ्याम् ८ स्थानके; ताले ९ नारददुहित्रा च सावित्र्या. १० पुरोविधृते परिजनेन,
११ मणिदर्पणे. १२ उत्सृष्ट. १३ पाटलम्.