This page has not been fully proofread.

शूद्रकवर्णनम् ]
 
पूर्वभागः ।
 
ङ्गिताकार
वेदिभिः काव्यनाट का ख्यानका ख्यौयिकालेख्यव्याख्यानादिक्रिया निपुणैरतिकठिनपी-
वरस्कन्धोरुबाहुभिरसकृदवदलित समदरिपुगजघटापीठबन्धैः केसरिकिशोरकैरिव विक्रमैकर-
सैरपि विनयव्यवहारिभिरात्मनः प्रतिबिम्बैरिव राजपुत्रैः सह रममाणः प्रथमे वयसि सुख-
मतिचिरमुवास । तस्य चातिविजिगीषुतया महासत्त्वतया च तृणमिव लघुवृत्ति लैणमाकलयतः
प्रथमे वयसि वर्तमानस्यापि रूपवतोऽपि संतानार्थिभिरमा त्यैरपेक्षितस्यापि सुरत सुखस्योपरि द्वेष
इवासी सत्यपि रूपविलासोपहसितरतिविभ्रमे लावण्यवति विनयवैत्यन्वयवति हृदयहारिणि
चावरोधजने । स कदाचिदनवरतदोलायमानरत्नवलयो घर्घरिकारफालनप्रकम्पझणझणा-

 
समयज्ञैः । अवसरज्ञैरिति यावत् । प्रभावेति । प्रभावो माहात्म्यं तेनानुरक्तान्यासक्तानि हृदयानि
चेतांसि येषां ते तथा । अग्राम्येति । अग्राम्यो नागरिको य उपहासो नर्मवचोविलासस्तत्र कुशलै-
चतुरैः । 'कुशलश्चतुरोऽभिज्ञः - ' इति कोशः । इङ्गितेति । इङ्गित चेष्टाविशेषः आकार आकृतिः तौ
विदन्तीत्येवंशीलास्ते तथा तैः । काव्येति । काव्यं निपुणकविकर्म, अवस्थानुकृतिर्नाटकम्, आख्यान-
कानि चूर्णकानि, आख्यायिका वासवदत्तादिः, आलेख्यानि चित्रकर्माणि, व्याख्यानान्यर्थनिर्वचनानि,
इत्यादिका याः क्रियाः कार्याणि तेषु निपुणैर्दक्षैः । 'निष्णातो निपुणो दक्षः' इति कोशः । अतीति ।
अतिकठिना अतिकठोराः पीवराः पुष्टाः स्कन्धा बाहुशिरांस्युरवो विस्तीर्णा बाहवश्व येषां ते तथा तैः ।
असक्कदिति । असकृन्निरन्तरमवदलिता मर्दिताः समदा मदयुक्ता या रिपुगजघटाः शत्रुद्विपपङ्ख्यस्ता
एव पीठबन्धाः स्थलविशेषा यैस्ते तथा तैः । केसरीति । केसरिणां सिंहानां किशोरकैरिव बालैरिव
अत्र किशोर शब्दोऽल्पवयसि सामान्येन प्रयुक्तः । 'किशोरोऽल्पवया हयः' इति तु विशेषो ग्रन्थकृता नाश्रितः ।
विमैरिति । विक्रम एव पराक्रम एवैकोऽद्वितीयो रसो येषां ते तथैवंविधैरपि । विनयेन प्रश्रयेण व्यव-
हारो व्यवहरणं विद्यते येषां ते तथा तैः । एतेन शक्तौ सत्यामपि विनयाधिक्यं सूचितम् । अन्वयस्तु प्रागे-
वोक्तः । तस्य चेति । तस्य राज्ञः प्रथमे वयसि वर्तमानस्यापि ! अत्र वृद्धत्वापेक्षया वयसः प्राथम्यं ज्ञेयम् ।
अन्यथाग्रेतनेनान्वयानुपपत्तिः । एवंविधेऽवरोधजने सत्यपि सुरतसुखस्योपरि निधुवनसातस्योपरि द्वेष इव
मत्सर इवासीद्वभूव । किं कुर्वतो राज्ञः । आकलयतः संभावयतः । किम् । स्त्रैर्ण स्त्रीसमूहम् । तदेव विशि-
मष्टि - लध्विति । लघु तुच्छा वृत्तिर्वर्तनं यस्य तत् । किमिव । तृणमिव यवसमिव । एतेन तासांमकिं-
चित्करत्वं सूचितम् । कया हेतुभूतया । अतीति । अतिशयेन विजेतुमिच्छुर्विजिगीषुस्तस्य भावस्तत्ता
तया । तद्रसाक्षिप्तचेतस्कत्वेन कामोत्पत्तेरसंभवात् । पुनर्हेत्वन्तरं प्रतिपादयन्नाह - महेति । महासत्त्वम-
तिशायि धैर्यं तस्य भावस्तत्ता तया । प्रायशो महासत्त्वस्य सिंहवत्स्वरूप एव कामः स्यात् । किंविशिष्टस्य
राज्ञः । रूपवतोऽपि सौन्दर्यवतोऽपि । एतेन युवतिमनो ( न उ ) न्मादकत्वेऽपि तदभिलाषाभाव इति विभाव-
नोक्तिः । अत्रापिशब्दो विरोधालंकारद्योतनार्थः । एतादृशोऽपि विषयसुखोपरत इति विरोधः । पुनरेव
राजानं विशेषयन्नाह - संतानार्थिभिरिति । संतानमपत्यं तदेवार्थः प्रयोजनं विद्यते येषां ते तथा
तैरमात्यैः सचिवैरपेक्षितस्यापि वाञ्छितस्यापि । एतेन सचिवानुकूल्यं दर्शितम् । अथावरोधजनं विशेषय-
नाह - रूपेति । रूपं सौन्दर्यम्, विलासा विलसनानि तैरुपहसिता हास्यास्पदीकृता रतः कामस्त्रियो विभ्रमा
भ्रूसमुद्भवा येन स तथा तस्मिन् । लावण्येति । लावण्यं लवणिमा तद्वति । विनयेति । विनयोऽभ्यु -
त्थानादिरूपस्तद्युक्ते । एतेन तदानुकूल्यं सूचितम् । अन्वयेति । अन्वयो वंशः स विद्यते यस्य स तथा
तस्मिन् । अत्रास्त्यर्थे वतुः । सुवंशज इत्यर्थः । अत्र प्रौढकुलोत्पन्नत्वेन रूपलावण्यातिशयत्वं व्यङ्ग्यम् ।
हृदयेति । हृदयस्य चित्तस्य हारिण्याक्षेपके । अनेन सर्वजनस्पृहणीयत्वं व्यङ्ग्यं सूचितम् । स कदाचि..
दिति । स राजा दिवसमनैषीन्निनायेति सर्वत्र संबध्यते । केन । कदेति । कदाचित्कस्मिंश्चित्प्रस्तावे ।
पाठा० -१ आख्यानकालेख्य २ अतिरूपवतोऽपि ३ अन्वयवत्यभिजनवति.