This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम् -
 
कुमुददलोपनीतनिशा पङ्कजेषु निपपात लक्ष्मी: । क्षणदापगमे च स्मृत्वा कामिनीकर्णोत्पलप्रे-
हारानुत्कण्ठितेष्विव क्षामतां व्रजत्सु पाण्डुतनुषु गृहप्रदीपेषु, अनवरतशरक्षेपखिन्नानङ्ग नि:-
श्वासविभ्रमेषु वॅहत्सु लेताकुसुमपरिमलेषु प्रभातमातरिश्वसु, सुमन्दरलतागृहगहनानि च
भियेव भजन्तीष्वरुणोदयोपविनीषु तारकासु, क्रमेण च समुद्रते चक्रवाक हृदयनिवासल-
आनुरागमिव लोहितं मण्डलमुद्रहति सवितरि, शिलातलादुत्थाय चन्द्रापीड: प्रक्षालितमुख•
कमलः कृतसंध्यानमस्कृतिर्गृहीतताम्बूल: 'केयूरक, विलोकय देवी कादम्बरी अबुद्धा न वा,
क वा तिष्ठति' इत्यवोचत् ।
 
गतप्रतिनिवृत्तेन च तेन 'देव, मन्दरप्रासादस्याधस्तादङ्गणसौधवेदिकायां महाश्वेतया सहा-
'वैतिष्ठते' इत्यावेदिते गन्धर्वराजतनयामालोकयितुमाजगाम । ददर्श च धवलभैस्मललाटिका-
भिरक्षमाल/परिवर्तनप्रचलकरतलाभिः पाशुपतव्रतधारिणीभिर्घातुरागारुणाम्बराभिश्च परि-
४२६
 
यस्या एवंभूते॒व । आरूढमदनतापायास्तु शीतलस्थानावस्थितिः प्रजागरश्च स्यादित्याशयेनाह - कुमुदेति ।
कुमुददलानां कैरवपत्राणां उदरे मध्ये नीता परिकलिता निशा रात्रिर्यया सा । तेषां विकसितत्वात् । तदनन्तर-
मेव पङ्कजेषु कमलेषु लक्ष्मीर्निपपात । क्षणदेति । क्षणदाया निशाया अपगमे कामिनीनां रते यान्कर्णोत्पल-
प्रहारान् अथ वान्यानपि क्रीडाविलासान्स्मृत्वा स्मरणं कृत्वा पुनद्रष्टुमुत्कण्ठितेष्विवात एवोत्कण्ठापरिपूर्त्या
क्षामतां कृशतां व्रजत्सु गच्छत्सु तत एव पाण्डतनुषु गृहदीपकेषु सत्सु अनवरतेति । अनवरतं निरन्तरं यः
शरक्षेपो बाणप्रक्षेपस्तेन खिन्नो रीणो योऽनङ्गः कंदर्पस्तस्य निःश्वासास्तेषां विभ्रंमेषु, लता वल्लयस्तासां कुसुमानां
पुष्पाणां परिमलो येष्वेवंविधेषु प्रभातमातरिश्वसु प्रत्यूषसमीरेषु वहत्सु । अरुणोदयेन उपलव, उपद्रवो विद्यते
यासामेवंविधासु तारकासु तारासु भियेव भीत्येव सुमन्दरो मेरुस्तस्य लता वीरुधरता इव ( एव ) गृहस्तेषां गह-
नान्यरण्यानि च भजन्तीष्वाश्रयन्तीषु । क्रमेण परिपाट्या चक्रवाको रथाङ्गाह्वयस्तस्य हृदयं तेन सह निवासस्तत्र
लग्नोऽनुरागो यस्यैवंविधमिव लोहितं मण्डलं बिम्बमुहति धारयति सवितरि सूर्ये च समुद्गत उदिते सति ।
शिलातलादुत्थाय प्रक्षालितं मुखकमलं येन सः, कृता संध्याया नमस्कृतिर्येन सः, गृहीतं भक्षितं ताम्बूलं येन
सः, हे केयूरक, विलोकय देवी कादम्बरी प्रबुद्धा न वा । क्व वा तिष्ठतीत्यवोचत् ।
 
गतप्रतिनिवृत्तेन च तेन केयूरकेण हे देव, मन्दरप्रासादस्याधस्तादङ्गणं तत्र वत्सौधं तस्य वेदिकायां महा-
श्वेतया सहावतिष्ठते इत्यावेदिते कथिते सति गन्धर्बराजतनयामालोकयितुं वीक्षितुमाजगाम । तदनन्तरं महा-
श्वेतां कादम्बरीं च ददर्शावलोकयामास । अथ महाश्वेतां विशिनष्टि - साक्षादिति । साक्षान्मन्त्र देवताभिरिव
परित्राजिकाभिस्तापसीभिरुपास्यमानाम् । ता विशिष्टि - धवलेति । धवलं शुभ्रं यद्भस्म भूतिस्तस्य ललाटिका
यासां ताभिः । अक्षेति । अक्षमाला जपमालास्तासां परिवर्तनं तेन प्रचलानि कम्प्राणि करतलानि यासां
ताभिः । पशुपतेरीश्वरस्येदं पाशुपतं यद्रतं नियम विशेषस्तद्धारयन्तीत्येवंशीलास्ताभिर्धातुरागेण गैरिकेणारुणान्य-
म्बराणि यासां ताभिः । परिणता ये तालफलास्तेषां वल्कलानि तान्येव लोहितानि रक्तानि वस्त्राणि यासां
 
C
 
टिप्प० -1 रतार्थमपनीयमाने वस्त्रे प्रदीपोपशमार्थ कामिन्यः कर्णोत्पलं तदुपरि क्षिपन्ति, तं स्मृत्वा
पुनस्तारशप्रहारमाध्यर्थमुस्कण्ठा प्रदीपानामित्याशयः । 2 धिङ् मन्दभाग्यम् । कंदर्पनिःश्वासानां विभ्रमा
इव विभ्रमाः ( विलासाः ) येषां तादृशेषु । कामनिःश्वासायितेष्विति यावत् । 3 परिणतं यत्तालफलं
तस्य यद्द्वल्कलं ( त्वक् ) तहत् लोहितानि ।
 
"
 
पाठा०-१
 
• स्मृतकामिनी कर्णोत्पलप्रहारेषु. २ प्रहाराणाम् ३ वासगृह. ४ भ्रमत्सु. ५ तरुलता. ६ आमोदिषु.
७ मन्दरगिरिलतां. ८ समुद्गतचक्रवाक. ९ आलोहितम्. १० अवतिष्ठति ११ भस्मकृत्. १२ मालिका. १३ चारिणीभिः०