This page has not been fully proofread.

काद० चन्द्रापी ● प्रीतिवर्धक उपचार: ] पूर्वभागः ।
 
४२५
 
,
 
मनया परिगृहीतम्, किं पुनरमुनोपचारफल्गुना वचसा संदेहदोलामारोप्यते' इति । स्थित्वा
च कंचित्कालं कृतप्रस्तावा 'कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुक-
नासः, कीदृशी चोजयिनी, कियत्यध्वनि सा च कीटम्भारतं वर्षम्, रमणीयो वा मर्त्य-
लोकः' इत्यशेषं पप्रच्छ । एवंविधाभिश्व कथाभि: सुचिरं स्थित्वोत्थाय कादम्बरी केयूरकं
चन्द्रापीड समीपशायिनं समादिश्य परिजनं च शयनसौधशिखरमारुरोह । तत्र च सित-
दुकूलवितानतलास्तीर्ण शयनीयमलंचकार चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमा-
नतामभिरूपतामति गम्भीरतां च कादम्बर्याः निष्कारणवत्सलतां च महाश्वेतायाः, सुजनतां
च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां
च किंपुरुषदेशस्य मनसा भावयन्केयूरकेण संवाह्यमानचरणः क्षणादिव क्षणदां क्षपितवान् ।
 
>
 
अथ क्रमेण कादम्बरीदर्शनजागरखिन्नः स्वप्नुमिव तालतमालतालीकदलीकन्दलिनीं प्रे-
विरलकल्लोलानिलशीतलां वेलावनराजिमवततार तारापतिः । अभ्यर्णविरह विधुरस्य च
कामिनीजनस्य निःश्वसितैरिवोष्णैम्लनिमनीयत चन्द्रिका । चन्द्रापीडविलोकनारूढमदनेव
 
*
 
मात्तम् । किं पुनरमुनोपचारेण फल्गुना निरर्थकेन वचसा कि वचनव्यापारेण संदेहदोलामारोप्यते । मन इति
शेषः । इत्युक्त प्रकारेण कंचित्कालं स्थित्वा विलम्ब्य च कृतो विहितः अर्थात् प्रश्नस्य प्रस्तावोऽवसरो यया
सैवंविधा सती शेषं समग्र पप्रच्छापृच्छत् । इतिशब्दद्योत्यमाह - कथमिति । कथं केन प्रकारेण राजा
तारापीडः । देवी विलासवती कथम् । कथं आर्य : शुकनासः । कीदृशी चोज्जयिनी विशाला । सा चौज-
यिनीतः कियत्यध्वनि मार्गे । कीदृग्भारतं वर्ष क्षेत्रम् । रमणीयो वा मनोहरो वा मर्त्यलोको मनुष्यलोकः ।
एवमिति । एवंविधाभिरेवंप्रकाराभिः कथाभिर्वार्ताभिः सुचिरं बहुकालं स्थित्वावस्थानं कृत्वोत्थाय काद-
म्बरी केयूरकं चन्द्रापीडसमीपशायिनं परिजनं च समादिश्यादेशं दत्त्वा शयनयोग्यं यत्सौधशिखरं तदारुरोहा-
रूढवती । तत्रेति । तत्र तस्मिन्सौधतले सितं शुभ्रं यद्दुकूलं दुगूलं तस्य वितानं चन्द्रोदयस्तस्य तलमधोभाग-
रतत्रास्तीर्ण स्थापितं शयनीयं शय्यामलंचकारालंकृतवती । चन्द्रापीडोsपि तस्मिन्नेव शिलातले निरभिमानतां
निर्गर्वतामभिरूपतां विचक्षणतामतिगम्भीरतां च कादम्बर्याः निष्कारणवत्सलतां च निर्हेतुकहितकारितां च
महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां
मनोहरतां च किंपुरुषदेशस्य मनसा भावयंश्चिन्तयन्केयूरकेण संवाह्यमानौ लाल्यमानौ चरण पादौ यस्यैवंभूतः
क्षणादिव क्षणमात्रेणेव क्षणदां त्रियामां क्षपितवान्क्षयं नीतवान् ।
 
इदानीं रात्रिशेषं चन्द्रास्तं सूर्योदयं च वर्णयंश्चन्द्रापीडकर्तव्यतामाह - अथेति । क्षणदाक्षयानन्तरं काद-
म्बर्या यत् दर्शनं अवलोकनं तेन जागरणं तेन खिन्नो रीणः स्वतुमिव शयनं कर्तुमिव तारापतिश्चन्द्रः ।
वेलेति । वेलाम्भसां वृद्धिस्तस्या वनराजिं कान्तारश्रेणिमवततारावतीर्णवान् । अथ वनराजिं वर्णयन्नाह -
तालेति । तालस्तालवृक्षः, तमालस्तापिच्छः, ताली वृक्षविशेषः, कदली रम्भा, आसां कन्दलो विद्यते यस्यां
सा ताम् । प्रविरलेति । प्रविरलाः स्तोका ये कल्लोलास्तरङ्गास्तेषामनिलो वायुस्तेन शीतलां सुशीताम् । अभ्य-
र्णेति । अभ्यर्णस्तत्कालीनो यो विरंहो वियोगस्तेन विधुरस्य दुःखितस्य कामिनीजनस्योष्णैर्निःश्वसितैर्निःश्वासैरिव
म्लानिं मलिनतां चन्द्रिका चन्द्रगोलिकांनीयत प्राप्यत । चन्द्रेति । चन्द्रापीडविलोक्नेन आरूढः प्राप्तो मनो
 
टिप्प० – 1 धन्या बुद्धिः ! इतः किथहूरे वर्तत इति तात्पर्यम् । 2 समूहः । 3 रात्रि माझ्या
कामिनोर्विच्छेदो जात इत्याशयः ।
 
पाठा० - १ प्रजागर १ अविरल.
५४ का०