This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेवाभजत । सर्वासु चासी वासु तासु मुहूर्तमिव
स्थित्वा वक्तुमुपचक्रमे चन्द्रापीड:- 'देवि, दृष्टिमात्रप्रीते दासजने संभाषणादिकस्यापि प्रसा-
दस्य नास्त्यवकाशः, किमुतैतावतोऽनुग्रहस्य । न खलु चिन्तयन्नपि निपुर्ण तमात्मनो गुण-
लवमवलोकयामि, यस्यायमनुरूपोऽनुप्रहातिरेकः । अतिसरला तवेयमपगताभिमानम-
धुरा च सुजनता यद॒द्भिनव सेवकज ने ऽध्ये व मनुरुध्यते । प्रायेण मामुपचारहार्यमदक्षिण देवी
मन्यते । धन्यः खलु परिजनः, ते यस्योपरि नियन्त्रणा स्यात् । आज्ञासंविभागकरणोचिंते
भृत्यजने क इवादरः । परोपकारोपकरणं शरीरम्, तृणलवलघु च जीवितम् । अपनपे त्वत्प्र
तिपत्तिभिरुपायनीकर्तुभागतायास्ते वयमेते शरीरमिदमेतज्जीवित
मेतानीन्द्रियाणि एतेषामैन्य-
तरदारोपय परिग्रहेण गरीयस्त्वम्' इति ।
 
४२४
 
,
 
अथैववादिनोऽस्य वचनमाक्षिप्य मदलेखा सस्मितमवादीत् – 'कुमार, भवतु । अति-
यन्त्रणया खिद्यते खलु सखी कादस्वरी । किमर्थं चैवमुच्यते । सर्वमिदमन्तरेणापि वचन-

 
पृथिव्यां समुपाविशत्समुपविष्टः । चन्द्रापीडोऽपि हे कुमार, शिलातलसेवाध्यास्यतामिति मदलेखयाऽसकृद्वारंवार-
मनुबध्यमानोऽपि कथ्यमानोऽपि भूमिमेव वसुधामेवाभजताश्रितवान् । सर्वासु तावासी नासू पविष्टासु सत्सु मुहूर्त -
मिच स्थित्वा चन्द्रापीडो वक्तुं कथयितुमुपचक्रम उपक्रमं कृतवान् । किं तदित्याह - देवीति । हे देवि, दृष्टिमात्रेण
प्रीते दासजने संभाषणादिकस्य जत्नप्रभृतिकस्य प्रसादस्यानुग्रहस्यावकाशोऽवगाहो नास्ति । दृष्टिमात्रसमुद्भूत-
प्रीत्या तावन्मम हृदयं मृतं यावदस्य प्रवेशो नास्तीत्यर्थः । एतावतोऽनुग्रहस्य किमुत भण्यते । सर्वथा प्रवेशो नास्ती-
त्यर्थः । न खल्विति । निपुणं यथा स्यात्तथा चिन्तयन्नपि विचारयन्नप्यात्मनो गुणलवमवलोकयामि पश्यामि ।
यस्य गुणलवस्यायमनुरूपो योग्योऽनुग्रहातिरेकः प्रसादोत्कर्षः । अतिसरलाऽतिऋज्वी तवेयमपगतो दूरीभूतो
योऽभिमानोऽहंकारस्तेन मधुरा मिष्टा सुजनता सौजन्यम् । अत्रार्थे हेतुं प्रदर्शयन्नाह
– यदिति । यदभिनवे
सेवकजनेऽपि नूतनभृत्येऽप्येवमनुरुध्यतेऽनुग्रहविषयीक्रियते । प्रायेणेति । प्रायेण बाहुल्येनोपचारेण बाह्यविन-
येन हार्यं वशीकर्तुं योग्यमत एवादक्षिणमनुदारं मां देवी मन्यते जानाति । खलु निश्चयेन । स एव परिजनो
धन्यः कृतपुण्यः, यस्योपरि ते तव नियन्त्रणाज्ञा स्यात् । आज्ञालक्षणो यः संविभागो विभज्य किंचिदर्पणं तस्य
करणं तत्रोचिते योग्ये मृत्यजने क इवादरो बहुमानाधिक्यम् । परेति । परस्य य उपकार उपकृतिस्तस्योपकरणं
साधकं शरीरम्, तृणस्यार्जुनस्य यो लवो लेशस्तद्वल्लघु च जीवितम् । अत आगतायास्ते तव त्वत्प्रतिपत्तिभिस्त्व-
-द्भक्तिभिरुपायनी कर्तुमुपढौकनीकर्तुमहमपत्रपे लज्जे । एते वयम् इदं शरीरम् एतज्जीवितम् एतानीन्द्रियाणि,
एतेषां मध्यादन्यतरत्परिग्रहेण स्वीकारेण कृत्वा गरीयस्त्वमारोपय स्थापयेति । अन्यस्योपायनस्याभावात् ।
इदमेव तत्रोपायनम् ।
 
9
 
>
 
.)
 
अथैवंवादिनोऽस्य चन्द्रापीडस्य वचनमाक्षिप्य निराकृत्य मदलेखा सस्मितमवादीदवोचत् । हे कुमार,
भवतु यत्त्वयोक्तं तत्तथैवास्तु । परमतियन्त्रणयातिकथनेन खलु निश्चयेन । कादम्बरी खिद्यते खेदं प्राप्नोति ।
अतः किमर्थं चैवमुच्यते कथ्यते । वचनमन्तरेणापि कथनं विनैव सर्वमिदं पूर्वोक्तमनया कादम्बर्या पैरिगृहीत-
टिप्प० -1 एवमनुरोधः (प्रीत्युपचारः ) क्रियते । 2 शरीरस्य स्वभावत एव अन्योपयोगित्वाज्जी-
वितस्य लघुत्वेन च भगतां त्वां प्रति भक्तिभिः एतयोरुपायने अहं लज्जे इत्याशयः । 3 पतित्वेन मनसि
स्वीकृतो भवानिति गूढं ध्वन्यते ।
 
पाठा० - १ अथ सर्वासु चासीनासु मुहूर्तमिव २ दृष्टिपातमात्र. ३ प्रायेण च ४ शरीरकम्. ५ अपि त्रपे तव
प्रतिपत्तावुपायनीकर्तुम्; अत्र ये त्वत्प्रतिपत्तिभिरुपायनीकर्तुम् ६ एवमागतायाः, ७ अन्यतरम्,