कादम्बरी /456
This page has not been fully proofread.
काद० चन्द्रापी० प्रीतिवर्धक उपचार: ] पूर्वभागः ।
४२३
दन्तादिवोत्कीर्णे भुवने, चन्द्रापीडश्चन्द्रातपनिरन्तरतयैव कुमुदमय्या इव गृहकुमुदिन्या:
कल्लोलधौत सुधाधवलसोपाने तनुतरङ्गतालवृन्तवातवाहिनि सुप्तहंसमिथुने विरहवाचालचक्र-
बाकयुगले तीरे, कुमुददलावलीभिः पर्यन्तलिखितपत्रलतादन्तुरमवदात सिन्दुवारदामोपहारं
हरिचन्दनरसः प्रक्षालितं कादम्बरीपरिजनोपदिष्टं मुक्ताशिलापट्टं चन्द्रशीतलमधिशिइये ।
तत्रस्थस्य चास्याऽऽगत्याकथयत्केयूरक : 'देवी कादम्बरी देवं द्रष्टुमागता' इति ।
i
-
अथ चन्द्रापीड: ससंभ्रम मुत्थायागच्छन्तीम्, अल्पसखीजनपरिवृताम् अपनीताशेषरा-
जचिहाम्, इतरामिवकावलीमात्राभरणाम् अच्छाच्छेन चन्दनरसेन धवलीकृततनुलताम्,
एककर्णावसक्तदन्तपत्राम्, इन्दुकलाकलिकाकोमलं कर्णपूरीकृतं कुमुददलं दधानाम्, ज्योत्स्ना-
शुचिनी कल्पद्रुमदुकूले विभ्रतीम्, तत्काल रमणीयेन वेषेण साक्षादिव चन्द्रोदयदेवताम्,
मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च सा प्रीतिपेशलतां दर्शयन्ती
प्राकृते परिजनोचिते भूतले समुपाविशत् । चन्द्रापीडोsपि 'कुमार, अध्यास्यतां शिलातलमेव'
,
."
.9
भुवनस्य व्याप्तत्वादाह – दन्तेति । दन्तादिवोत्कीर्णे भुवने विष्टपे जाते सति । चन्द्रापीडश्चन्द्रातपस्य चन्द्रा-
लोकस्य निरन्तरता सर्वस्मिन्नभिव्याप्तिस्तया हेतुभूतया । एवं विरलकुमुदवत्या अपि । गृहकुमुदिन्याः कुमुद -
मय्याः कुमुदप्रकर्षवत्या इव ये कल्लोलाः श्वेतिमोत्कर्षास्तैधत निर्मलीकृतं सुधया धवलं सोपानं यस्मिन् ।
तनवः सूक्ष्मा ये तरङ्गाः कल्लोलास्त एव वातहेतुत्वात्तालवृन्तानि व्यजनानि तेषां वातं वहत्येवंशीलं तस्मिन् ।
सुप्तानि हंसानां मिथुनानि यस्मिन् । विरहेण वियोगेन वाचालानि मुखराणि चक्रवाकयुगलानि यस्मिन्नेवंविधे
तीरे । गृहदीर्घिकाया इति शेषः । कुमुदानां कैरवाणां दलावलीभिः पत्रश्रेणीभिः पर्यन्ते प्रान्ते लिखिताः
पत्रलताः पत्रभनयस्ताभिर्दन्तुरम् । तद्वदवदातानि सिन्दुवारदामानि निर्गुण्डीस्रजस्तेषामुपहारो यस्मिंस्तद्वंद्धरि
चन्दनं गोशीर्षचन्दनं तस्य रसैः प्रक्षालितं धौतम् । कादम्बर्याः परिजनः परिच्छदस्तेनोपदिष्टं कथितं मुक्ताव-
द्धवलं शुभ्रं शिलापट्टं चन्द्रेण शीतलमधिशिश्ये । शयनं चकारेत्यर्थः । तत्रस्थस्यास्य चन्द्रापीडस्य केयूरक आग-
येत्यकथयत् । इतिशब्दयोलमाह - कादम्बरीति । कादम्बरी देवी देवं भवन्तं द्रष्टुमागता ।
अथेति । तत्कथनानन्तरं ससंभ्रममुत्थाय स चन्द्रापीड: कादम्बरीमपश्यत् । अथ कादम्बरीं विशेषय-
नाह — आगच्छन्तीमिति । आगच्छन्तीमायान्तीम् । अल्पेति । अल्पः स्तोको यः सखीजनस्तेन परि-
वृताम् । अपनीतं दूरीकृतमशेषं समग्र राजचिह्नं यया सा ताम् । अत एवेतरामिव पूर्वव्यावर्णित स्वरूपाऽभिन्नामि-
वैकावलीमात्रमाभरणं विभूषणं यस्याः सा ताम् । अच्छं चाच्छं चाच्छाच्छं तेन । अतिनिर्मलेनेत्यर्थः ।
एतादृशेन चन्दनरसेन धवलीकृता तनुलता यया सा ताम् । एककर्णेऽवसक्तं क्षिप्तं दन्तपत्रं यया सा ताम् ।
तथाविधदेशाचारत्वादिति भावः । पुनः किं कुर्वाणाम् । कर्णपूरीकृतं कुमुददलं कैरवपत्रं दधानाम् ।
कीदृशम् । इन्दुकला चन्द्रकला सैव कलिका तद्वत्कोमलं सुकुमारम् । पुनः किं कुर्वन्तीम् । ज्योत्स्नावच्युचिनी
पवित्रे कल्पद्रुमस्य दुकूले बिभ्रतीं दधानाम् । तत्कालरमणीयेन तत्समयमनोहरेण वेषेण नेपथ्येन साक्षाचन्द्रो-
दयदेवतामिव । मदलेखया दत्तो हस्तावलम्बः करावलम्बो यस्याः सा ताम् । अन्वयस्तु प्रागुक्तः । आगत्य च
प्रीतिपेशलतां स्नेहसुन्दरतां दर्शयन्ती प्रकटयन्ती प्राकृते नीचे परिजनस्य सेवकजनस्योचिते योग्ये भूतले
टिप्प० - 1 विरलकुमुदापि गृहकुमुदिनी (सरसी) चन्द्रातपव्याप्ततया कुमुदमयी जाता, चन्द्रिकै
कुमुदस्थानीया जातेत्यर्थः । ईदृश्या गृहकुमुदिन्याः कल्लोलधौत• इत्यादि विशेषिते तीरे शिलापट्टे चन्द्रा-
पीडोsधिशिश्ये इति योजना । 2 पूर्ववर्णित
स्वरूपकादम्बरीतो भिन्नमिवेति वाच्यम् । 3 'प्राकृतेव' इत्येव
पाठः । साधारणस्त्रीव, इति तदर्थः । स्थानस्य प्राकृतमिति विशेषणं तु बाणसदृशस्य प्रतीपमेव ।
।
पाठा० -१ दन्तिदन्ताम् २ कुमुद इव ३ धूत ४ पत्रलतादन्तुरम् दन्तपत्रलतम् ५ प्राकृतेव.