This page has not been fully proofread.

४२२
 
कादम्बरी
 
[ कथायाम् -
 
नीलायमाने शर्वरीमुखे, शनैः शनैश्च पुनर्दिन श्रीसमागमाशाभिरिवानुरागिणीभिः सहैव
दीधितिभिरदर्शनतामुपगते भगवति गभस्तिमालिनि, तत्कालविजृम्भितेन च कादम्बरी-
हृदयरोगसागरेणेवापूरिते संध्यारागेण जीवलोके, कुसुमायुधानलदह्यमान
हृदयसहस्रधूम
इव जनितमानिनीनयनवारिणि विस्तीर्यमाणे तरुणतमालत्विधि तिमिरे, दिक्करिकरौवकीर्ण-
सीकरासार इव श्वेतायमानतारागणे गैंगने जातायां चादर्शनक्षमायां वेलायां सौधशिख-
रादवततार कादम्बरी क्रीडापर्वतकनितम्बाच चन्द्रापीडः । ततोऽचिरादिव गृहीतपादः
प्रसाद्यमान इव कुमुदिनीभिः, कलुषमुखी: कुपिता इव प्रसादयन्नाशाः, प्रबोधाशङ्कयेव
परिहरन्सुप्ता: कमलिनी:, लाञ्छनच्छलेन निशामिव हृदयेन समुद्रहन्, रोहिणीचरणताडन-
लग्नमलक्तकरस मिवोदयरागं दधानः, तिमिरनीलाम्बरां दिवमभिसारिका मिवोपसर्पन्, अति-
वल्लभतया विकिरन्निव सौभाग्यमुद्गाद्भगवानीक्षणोत्सवः सुधासूतिः । उच्छ्रितेच कुसु-
मायुधाधिराज्यै कातपत्रे कुमुदिनीवधूवरे विभावरीविलासदन्तपत्रे श्वेतभानौ धवलितदिशि,
 
शनैः शनैः पुनर्दिनश्रियां यः समागमस्तस्याशाभिरिवानुरागिणीभिदीधितिभिः सह भगवति गभस्तिमा लिनि
सूर्येऽदर्शनतामदृश्यतामुपगते प्राप्ते सति । पुनः संध्यारागेण जीवलोक आपूरिते सति । केनेव । तत्कालविजू-
म्भितेन तदात्वप्रसृतेन कादम्बर्या हृदयरागस्तल्लक्षणो यः सागरः समुद्रस्तेनेव । पुनः कस्मिन् । विस्त
 

 
विस्तारं प्राप्यमाणे । तरुणो नवीनो यस्तमालस्तापिच्छः तस्य विडिव त्विद्र यस्मिन्नेवं विधे तिमिरेऽन्धकारे
सति । तस्य नीलत्वेन साम्यादाह
— कुसुमेति । कुसुमायुध एवानलो वह्निस्तेन दह्यमानं ज्वलमानं यद्धृद-
यसहस्रं तस्य धूम इव । कीदृशे । जनितमुत्पादितं मानिनीनां नयनेषु वारि येन तस्मिन् । अद्यापि पतिगृहे
नागत इति दुःखेन मानिनीनयनेष्वश्रुसद्भाव इत्यर्थः । एतेन धूमसादृश्यं ध्वनितम् । दिगिति । दिक्करिणां
दिग्गजानां ये कराः शुण्डादण्डास्तैरव कीर्णोऽवध्वस्तो यः सीकरासारस्त स्मिन्निव श्वेतायमाने दीप्यमाने
तारागणे नक्षत्रसमूहे गगने व्योम्नि जाते सति । अन्वयस्तु प्रागुक्तः । ततस्तदनन्तरमचिरादिव स्तोकका लेनेव
सुधासूतिश्चन्द्र उदगादुदयं प्राप्तवान् । गृहीतेति । गृहीताः पादा यस्य सः प्रसाद्यमान इव । काभिः ।
कुमुदिनीभिः कैरविणीभिः । कलुषमुखीः कुपिता इव आशा दिशः प्रसादयन्प्रसन्नीकुर्वन् । सुप्तानां कमलिनीनां
प्रबोधो मा भूदित्याशङ्कया परिहरंस्त्यजन् । लाञ्छनच्छलेनाङ्कमिषेण निशामिव हृदयेन समुद्वहन्धारयन् ।
पुनः किं कुर्वाणः । उदयरागं दधानः । कमिव । रोहिण्याश्चरणेन रतिकलहेन यत्ताडनं तेन लग्नं अलक्तकरस-
मिव पार्नैकद्रवमिव । तिमिरमेव नीलमम्बरं वस्त्रमेतादृशीं दिवं नीलावगुण्ठनसाम्याद भिसारिका मिवोपसर्पन्ग-
च्छन् । अतिवल्लभस्य भावोऽतिवल्लभता तया सौभाग्यं विकिरन्निव विक्षिपन्निव । कीदृशः । भगवान्माहात्म्य-
वान् । पुनः किंविशिष्टः। ईक्षणानां नेत्राणामुत्सव इव । उच्छ्रिते च वृद्धिं प्राप्ते च कुसुमायुधः कंदर्पस्तस्या-
धिराज्यं साम्राज्यं तस्य एकमद्वितीयमातपत्रं तस्मिन् । कुमुदिनी कैरविणी सैव वधूस्तस्या वरः प्राण-
नाथस्तस्मिन् । पाण्डुरत्वसाम्येनाह — विभावरीति । विभावर्यास्त्रियामाया विलासार्थं दन्तपत्रं कर्णाभरणं
तस्मिञ्श्वेताः शुभ्रा भानवः किरणा यस्मिन् । धवलिताः शुश्रीकृता दिशो येन स तस्मिन् । चन्द्रालोकेन
 
टिप्प० -- 1 श्वेतायमानास्तारागणा यस्मिन्नित्यर्थः । 2 यावकद्रवमिवेत्युचितम् । 3 लोकानामति
प्रीतिपात्रतया तेषु सौभाग्यं प्रीतिं वर्षन्निव । 4 एवं विशिष्टे श्वेतभानौ उदिते सतीत्यन्वयः ।
 
पाठा० - १ तत्कालनि नर्तिषोपात्तभुज सहस्र विस्तारितसर्व पुरस्कृत
गजचर्मणेव नीलायमाने. २ रागरस. ३ चक्रवा
कहृदय. ४ नयनासारवारिणि ५ आकीर्ण ६ गगने जाते. ७ नचिरात् ८ नीलाम्बरवराम्. ९ उदिते.