कादम्बरी /451
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
स्वय्यात्मानमवमच्छति कादम्बरी। तद्यममृतमथन समुद्भूतानां सर्वरत्नानामेकॅशेष इति शेष-
नामा हारोऽमुनैव हेतुना बहुमतो भगवताम्भसांपत्या गृहमुपागताय प्रचेतसे दत्तः । पाश-
भृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बर्यै, तथापि त्वद्वपुर स्यानुरूपमाभरणस्येति
विभावयन्त्या नभःस्थलमेवोचितं सुधनतो धान्नोन धरेत्यवधार्यानुप्रेषितः । यद्यपि गुणगणा-
भरणभूषिताङ्गयष्टयो भवादृशाः केशहेतुमितरजन बहुमतमाभरणभारमङ्गेषु नारोपयन्ति,
तथापि कादम्बरीप्रीतिरत्र कारणम् । किं न कृतमुरसि शिलाशकलं कौस्तुभाभि धानं लक्ष्म्याः
सहजमिति बहुमानमाविष्कुर्वता भगवता शार्ङ्गपाणिना । नँ च नारायणोऽत्रभवन्तमतिरि-
च्यते । नापि कौस्तुभमणिरणुनापि गुणलवेन शेषमतिशेते । न चापि कादम्बरीमाकारानुकृति-
कलयाण्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोऽर्हतीयमिमं बहुमानं त्वत्तः । न चाभूमिरेषा
प्रीतिप्रसरस्य । नियतं च भवता लग्नप्रणया महाश्वतोपालम्भसहस्रैः खेदयित्वा स्वात्मानमुत्स-
।
।
४१८
वात्मानं कादम्बर्यवगच्छति जानाति । तदयममृतमथनात्समुद्भूतानां प्रकटितानां सर्वरत्नानामे कशेषोऽवशि
ष्टोऽतः शेषनामायं हारोऽमुनैव हेतुनैकशेषत्वेनाम्भसांपत्या भगवता समुद्रेण बहुमतो गृहमुपागताय प्राप्ताय
प्रचेतसे वरुणाय दत्तोऽर्पितः । पाशमृतापि वरुणेनापि गन्धर्वराजाय दत्तः । गन्धर्वराजेनापि कादम्बर्यै दत्तः ।
तयाप्यस्याभरणस्य त्वद्वपुस्त्वदीयं शरीरमनुरूपं योग्यमिति विभावयन्त्या मनसि विभावनां कुर्वन्त्या । एतस्मि-
नर्थे दृष्टान्तं प्रदर्शयन्नाह – नभ इति । सुधालुतेश्चन्द्रस्य धाम्नस्तेजसो नभस्थल मेवोचितं योग्यं न धरा पृथ्वी-
त्यवधार्य निश्चित्यानुप्रेषितोऽनुप्रहितः । यद्यपीति । यद्यपि भवादृशा भवत्सदृशाः पुरुषा गुणाः शौर्यादयस्तेषां
गणाः समुदायास्त एवाभरणानि तैर्भूषिता शोभिताङ्गयष्टिर्येषां ते तथा क्लेशहेतुः परिश्रमकारणमितरजनाः
प्राकृतजनास्तैर्बहुमतमादरपूर्वकं स्वीकृतमाभरणभारं विभूषणवीवधमङ्गेषु हस्तपादादिषु नारोपयन्ति न स्थाप-
यन्ति । तथापीति । यद्यप्येवमस्ति तथापि कादम्बरीप्रीतिरत्र हारधारणे कारणं नियामकम् । प्रीत्यान्यै-
रपि तथा कृतमियाह - किं न कृतमिति । लक्ष्म्याः श्रियः सहजं सार्धं समुत्पन्न मिति कृत्वा बहुमानं सत्का-
रमाविष्कुर्वता प्रकटीकुर्वता भगवता शार्ङ्गपाणिना कौस्तुभाभिधानं शिलाशकलमुरसि किं न कृतं किं न
' विहितम् । न च नारायणस्तथा करोतु नाम । अहं तु तादृशो न भवामीत्यत आह - न चेति । नारायणः
कृष्णोऽत्रभवन्तं त्वां न चातिरिच्यते नाधिको भवति । तथा च खानुरक्तप्रीतिसंरक्षणस्वभावसाम्येन त्वमपि
स एवेत्यर्थः । न च हारोऽपि कौस्तुभापेक्षया न्यून इत्याह - नापीति । कौस्तुभमणिरणुनापि गुणलवेन शेषं
शेषनामानं हारं नाप्यतिशेतेऽतिशयितो न भवति एवं लक्ष्मीसादृश्यं कादम्बर्यामानयति - न चेति ।
लक्ष्मीः पद्माकारस्यानुकृतिरनुकरणं तस्य कलांशस्तयाप्यल्पीयस्यापि कादम्बरीमनुगन्तुं सादृश्यं कर्तुं नालं न
समर्था । अतो हेतोरियं त्वत्तो भवत इयं बहुमानमर्हति योग्या भवति । न चेयं प्रीतिर्न भवतीत्याह – न च
प्रीतिप्रसरस्य प्रीत्युत्कर्षस्यैषाऽभूमिरस्थानम् अपि तु स्थानमेव । वैपरी बाधकमाह - नियतेति । नियतं
निश्चितं भवता त्वया लग्नैः प्रणयः स्नेहो यस्यां एवंविधा महाश्वेता उपालम्भसहस्रैः खेदयित्वा खेदमुत्पाद्य खात्मानं
-
,
>
टिप्प० - 1 ग्राम्यप्रियोयं पाठः । 'नभःस्थल मेवोचितं सुधासूतेः (चन्द्रस्य ) धाम' इति पाठः, प्रमाण
च सहृदयाः । 2 एषा (कादम्बरी) प्रीतिप्रसरस्य अपात्रं न अपि तु पात्र मेवेत्यर्थः । 3 हन्त धिगविचा-
रम् । 'त्वया भग्नप्रणया ( भग्नः प्रणयो यस्याः ईदृशी कादम्बरी ) महाश्वेतामुपालम्भसहस्रैः ( ईदृशेन अद-
क्षिणेन त्वया सद्भावो विहितः, अत्र चानीतः इति ) खेदयित्वा आत्मानं नियतमुत्स्रक्ष्यति' इत्येव पाठः ।
पाठा०- -१ उद्धृतानाम् २ एक: शेष: ३ लब्धनामा ४ सुधासूतेम ५ निजगुण ६ शाङ्गिणा. ७ नापि.
८ महाश्वेताम्. ९ आत्मानम्.