This page has not been fully proofread.

कादम्बरीप्रहितोपहारसमर्पणम् ]
 
पूर्वभागः ।
 
४१७
 
त्सेकमिव सूचयति । उपचारोऽपि चपलतामिव प्रकाशयति । प्रीतिरप्यनात्मज्ञतामिव ज्ञाप-
यति । विज्ञापनापि प्रागल्भ्यमिव जीयते । सेवापि चापलमिव दृश्यते । दानमपि परिभव
इब भवति । अपि च स्वयं गृहीतहृदयाय किं दीयते । जीवितेश्वराय किं प्रतिपाद्यते ।
प्रथमकृतागमनमद्दोपकारस्य का ते प्रत्युपक्रिया । दर्शनदत्त जीवितफलस्य सफलम गमनं केन
से क्रियते । प्रणयितां चानेन व्यपदेशेन दर्शयति कादम्बरी, न विभवम् । अप्रतिपाद्या हि
परस्वता सज्जनविभवानाम् । आस्तां तावद्विभवः, भवादशस्य दास्यमध्यङ्गीकुर्वाणा नाकार्य-
कारिणीति नियुज्यते । दस्वात्मानमपि वञ्चिता न भवति । जीवितमध्यर्पयित्वा न पश्चात्त-
प्यते । प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् । न च तादृशी
भवति याचमानानां यादृशी ददतां लज्जा यत्तु सत्यममुना व्यतिकरेण कृतापराधमिव
 
1
 
उत्कर्षस्तमिव सूचयति । उपचारोऽप्यभ्युत्थानादिरूपोऽपि चपलतामिव प्रकाशयति प्रकटीकरोति । प्रीतिरपि
स्नेहोऽप्यनात्मज्ञतां स्वस्वरूपानभिज्ञतां ज्ञापयति । विज्ञापनापि विज्ञप्तिरपि प्रागल्भ्यमिव पाण्डित्यमिव
जायते । सेवापि सपर्यापि चापलमिव दृश्यते । दानमपि परिभव इव पराभव इव भवति । प्रथितमहिमव-
त्त्वादितिभावः । अपि चेति युक्त्यन्तरे, स्वयं गृहीतं हृदयं येनैवंविधाय किं दीयते । अथ च जीवितेश्वराय
किं प्रतिपाद्यते किं कथ्यते । अयं भावः – हृदयाधीनं जीवितं, हृदयं चेद्गृहीतं तदा जीवितेश्वर एव जातः ।
एवं सति तस्मै जीविताभिधानं किं वस्तु नेयम् । सर्वेषां वस्तूनां जीवितार्थत्वात् । एतदपरं किं प्रतिपाद्यम् ।
प्रतिपाद्यानां जीवितावधित्वात् । प्रथमं कृतं यदागमनं तदेव महोपकारो यस्यैवंविधस्य ते भवतः का प्रत्युपक्रिया ।
न कापीत्यर्थः । दर्शनेन दत्त जीवितफलं येनैवंविधस्य ते तव सफलमागमनं केन क्रियते । अयं भावः-
सर्वापेक्षयोत्कृष्टं जीवितफलं त्वयैव दत्तम् । इतः परं त्वत्सदृशमस्माकं किमपि नास्ति, येन त्वदागमनसाफल्यं
क्रियते कादम्बर्यनेन व्यपदेशेन हारानयनमिषेण प्रणयितां स्नेहवत्तां त्वयि दर्शयति । न विभवमैश्वर्यम् । तवै·
तादृशं वस्तु नास्ति यादृशं मम वर्तत इत्येवम् । नन्वत्युत्तममुक्ताकलापस्य स्वविभवत्वप्रदर्शने कोऽयमस्वरस्
इत्यत आह - अप्रतीति । हीति निश्चितम् । सज्जनविभवानां परस्वता स्वीयपरकीय भावोऽप्रतिपाद्या वर्तते
सतां प्रवृत्तेः परोपकारनिमित्तकत्वेन तद्विभवस्यापि तथात्वादिति भावः । अथ यद्यपरितोषस्तदा विभवो हारा
दिरूपः खोत्कर्षहेतुस्तावदास्तां तिष्ठतु । किं तु भवादृशस्य दास्यमङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते
नात्यविधायिनीति व्यपदिश्यते । दत्त्वेति । आत्मानमपि दत्त्वा त्वदधीनं कृत्वा वञ्चिता न भवति
विप्रतारिता न स्यात् । जीवितमप्यर्पयित्वा न पश्चात्तप्यते न पश्चात्तापं करोति । ( यत् ) सतां सत्पुरुषाण
महत्ता गुरुता प्रणयो विद्यते यस्मिन्नेवंभूतो यो जनस्तस्य प्रत्याख्यानं निराकरणं तत्र पराखी प्रणयिजना-
भीष्टप्रदान निराकरणशीला न भवतीत्यर्थः । तत्र हेतुमाह - दाक्षिण्येति । दाक्षिण्य मनुकूलता तस्या
परवती । तदधीनेत्यर्थः । दाक्षिण्यं लज्जाधीनं स्यादित्यत आह - न चेति । ददतां वितरणं कुर्वतां यादृर्श
लज्जा त्रपा स्यात्तादृशी यांचमानानां नीचानां च न स्यात् । यत्त्विति । तु पुनरर्थे । यत्पूर्वोक्तं तत्सत्यम्
ततः किमित्यत आह — अमुनेति । अमुना व्यतिकरेग त्वदागमनसंवन्धेन त्वयि कृतापराधं विहितागसमि
 
टिप्प० -1 सतां महत्त्वं तद्वर्तते यद्धि प्रणयिजनानां (द्रव्योपहारदानस्य ) प्रत्याख्याने प्रतिषेध
परामुखम्, अर्थात् न कदाचित् प्रत्याख्यानं कुर्वन्ति; यतो हि दाक्षिण्यस्वाधीना सा महत्ता । 2 पुन
स्वारस्यं चूर्णीचकार चपलः । सज्जनानां हि ददतां लज्जा, न जाने स्वरूपयोग्यं दत्तं न वेति । याचकान
तु पूर्वमेन लाघवस्वीकारान्न सा । अत एव -धमुना हारसमर्पणव्यतिकरेण कृतापराधमिवात्मानं जानाति
यत्व स्वरूपयोग्यदानाऽभावेपि दातृत्वं स्वीकृत मिति ।
 
पाठा०-
१ ज्ञायते. २ गृह्यते ३ परवशा.
 
५३ का०