2023-09-12 02:07:27 by Lakshmainarayana achar

This page has been fully proofread twice.

सिन्दूरसंध्यायमानसलिलयोन्मदकलहंसकुलकोलाहल [^१]मुखरीकृतकूलया [^२]वेत्रवत्या परिगता [^३]विदिशाभिधाना नगरी राजधान्यासीत् ।
स तस्या [^४]मवजिताशेषभुवनमण्डलतया विगतराज्य- चिन्ताभारनिर्वृतः, द्वीपान्तरागतानेकभूमिपालमौलिमाला- लालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुद्वहन्, अमरगुरुमपि प्रज्ञयोपहसद्भिरनेककुलक्रमागतैरसकृदालोचित नीतिशास्त्रनिर्मलमनोभिरलुब्धैः स्निग्धैः प्रबुद्धैश्चमात्यैः परिवृतः, समानवयोविद्यालंकारैरनेकमूर्धाभिषिक्तपार्थिव [^५]कुलोद्गतैर- खिलकलाकलापालोचनकठोरमतिभिरतिप्रगल्भैः कालविद्भिः [^६]प्रभावानुरक्तहृदयैरग्राम्यो [^]पहासकुशलैरि-
 
तेषामास्फालनेनाघातेन जर्जरिताः क्षीणा ऊर्मिमालाः कल्लोलपङ्क्तयो यस्याः सा तथा तथा । अत्र कुचानामतिकाठिन्यं व्यङ्ग्यम् । जलेति । जलं पानीयं तस्यावगाहनमवलोडनं तदर्थमागताः समायाता जयकुञ्जराःपरदलदलनसमर्था हस्तिनस्तेषां कुम्भाः शिरः पिण्डाः तेषु शोभाकृद्यत्सिन्दूरं नागजं तेन संध्यायमानं संध्यावदारक्तं सलिलं जलं यस्याः सा तथा तया । उन्मदेति । उन्मदानां प्रबलमदानां कलहंसानां कादम्बानां
यानि कुलानि तेषां यः कोलाहलोऽनभिव्यक्तध्वनिस्तेन मुखरीकृतं प्रतिध्वनियुक्तं कूलं सैकतं यस्याः सा तथा तया । अत्र विस्तृतकमलस्वच्छपानीयादि व्यङ्ग्यम् । किमभिधाना राजधानीत्याशयेनाह- विदिशेति। विदिशेत्यभिधानं यस्याः सा तथा।
स तस्यामिति । तस्यां नगर्यां स राजातिचिरं बहुकालं प्रथम आद्ये वयस्यवस्थायां सुखं सातं यथा स्यात्तथोवास वासं चक्र इत्यन्वयः । अथ राजानं विशेषयन्नाह — विगतेति । विगतो दूरीभूतो यो
राज्यचिन्ताभारस्तेन निर्वृतो निष्पन्नप्रयोजनः । तत्र हेतुमाह - अवजितेति । अवजितानि स्वायत्तीकृतान्यशेषाणि समग्राणि भुवनमण्डलानि येन तस्य भावस्तत्ता तया । द्वीपेति । एकस्माद्वीपादन्ये द्वीपा द्वीपान्तराणि तेभ्य आगताः समायाता येऽनेके बहवो भूमिपाला राजानस्तेषां मौलयः किरीटानि शिरांसि वा तेषां मालाः स्रजः पङ्क्तयो वा ताभिर्लालितं क्रीडितं चरणयुगलं पादयुग्मं यस्य स तथा । किं कुर्वन् । उद्वहन्नु-
पाटयन् (?) । किम् । भुवनभारं जगद्वीवधम् । केन । भुजेन बाहुना । किमिव । वलयमिव बाहुभूषणमिव । कया । लीलया क्रीडया । स्वल्पप्रयासेनेत्यर्थः । किंविशिष्टः सः । परीति । परिवृतः परिवेष्टितः । कैः । अमात्यैर्मन्त्रिभिः । 'अमात्यः सचिवो मन्त्री धीसखः' इति कोशः । किं कुर्वद्भिस्तैर्मन्त्रिभिः । उपहसद्भिरुपहासं कुर्वद्भिः । कम् । अमरगुरुमपि बृहस्पतिमपि । कया । प्रज्ञया बुद्ध्या । अथ मन्त्रिणो विशिनष्टि — अनेकेति । अनेके च ते कुलक्रमागता- श्चानेककुलक्रमागताः । कुलपारम्पर्यागतैर्न त्वाधुनिकैरित्यर्थः । असकृदिति । असकृन्निरन्तरमालोचितं निदिध्यासितं यन्नीतिशास्त्रं नृपोचिताचारबोधको ग्रन्थस्तेन निर्मलानि स्वच्छानि मनांसि येषां ते तथा तैः । अलुब्धैरिति । अलुब्धैः अलोलुपैः स्निग्धैर्वत्सलैः । 'स्निग्धस्तु वत्सलः' इति कोशः । प्रबुद्धैः पण्डितैः । पुनः किं कुर्वाणो नृपतिः । राजपुत्रैर्नृपतनयैः सह रममाण : क्रीडां कुर्वाणः । इतो राजपुत्रान्विशेषयन्नाह - आत्मन इति । आत्मनः स्वकीयस्य प्रतिबिम्बैरिव । प्रतिच्छायैरिव । सर्वदा तदनुयायित्वात् । समानैरिति । समानाः सदृशाः वयोवस्थाविशेषाः विद्याश्चतुर्दश प्रतीताः, अलंकारा विभूषणानि येषां ते तथा तैः । अनेकेति । अनेके सहस्रशो ये मूर्धाभिषिक्ताः कृताभिषेकाः पार्थिवा राजानस्तेषां कुलानि वंशास्तेभ्य उद्गतैः प्रभवैः । अखिलेति । अखिलाः समग्रा याः कला विज्ञानानि तासां कलापाः समुदायास्तेषां
यदालोचनं विमर्शनं तेन कठोरा शास्त्रे दृढा मतिर्बुद्धिर्येषां ते तथा तैः । एतेन मन्त्रदार्ढ्यं सूचितम् । अतीति । अतिप्रगल्भैः प्रतिभान्वितैः । 'प्रगल्भः प्रतिभान्विते' इति कोशः । कालेति । कालविद्भिः
 
[^१]G. मुखरित
[^२]G. वेत्रवत्या सत्या; वेत्रवत्या सरिता.
[^३]G. महिला.
[^४]G. च, विजिता.
[^५]G. कुलोद्भूतैः.
[^६]G. प्रेमा, प्रेमभावा
[^७ ]G.परिहास.