2023-09-12 02:03:37 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
सिन्दूरसंध्यायमानस लिलयोन्मदकलहंसकुलकोलाहल [^१]मुखरीकृतकूलया
[^२]वेत्रवत्या परिगता [^३]विदिशाभिधाना नगरी राजधान्यासीत् ।
 
१२
 

स तस्या
[ कथामुखे-
नेत्रेवत्या परिगता
 
स तस्या
^४]मवजिताशेषभुवनमण्डलतया विगतराज्य चिन्ताभारनिर्वृतः, द्वीपान्तरागतानेकभू-
मिपालमौलिमाला- लालितचरणयुगलो वलयमिव लीलया भुजेन भुवनभारमुद्वहन्, अमरगुरु-
मपि प्रज्ञयोपहसद्भिरनेक कुल क्रमागतैर सकृदालोचित नीतिशा त्रनिर्मलम स्त्रनिर्मलमनोभिरलुब्धैः सिस्निग्धैः
प्रबुद्धैश्चमात्यैः परिवृतः, समानवयोविद्यालंकारैरनेक मूर्धाभिषिक्त पार्थिव [^५]कुलोद्गतैर खिलकला-
कलापालोचन कठोरमतिभिरतिप्रगल्भैः कालविद्भिः [^६]प्रभावानुरक्तहृदयैरप्ग्राम्योपै [^६]पहासकुशलैरि-

 
तेषामास्फालनेनाघातेन जर्जरिताः क्षीणा ऊर्मिमालाः कल्लोलपङ्क्तयो यस्याः सा तथा तथा । अत्र कुचाना-
मतिकाठिन्यं व्यङ्ग्यम् । जलेति । जलं पानीयं तस्यावगाहनमवलोडनं तदर्थमागताः समायाता जयकुञ्जराः
परदलदलनसमर्था हस्तिनस्तेषां कुम्भाः शिरः पिण्डाः तेषु शोभाकृद्यत्सिन्दूरं नागजं तेन संध्यायमानं संध्याव-
दारक्तं सलिलं जलं यस्याः सा तथा तया । उन्मदेति । उन्मदानां प्रबलमदानां कलहंसानां कादम्बानां

यानि कुलानि तेषां यः कोलाहलोऽनभिव्यक्तध्वनिस्तेन मुखरीकृतं प्रतिध्वनियुक्तं कूलं सैकतं यस्याः
सा तथा तया । अत्र विस्तृतकमलस्वच्छपानीयादि व्यङ्ग्यम् । किमभिधाना राजधानीत्याशयेनाह-
विदिशेति । विदिशेत्यभिधानं यस्याः सा तथा
 

स तस्यामिति । तस्यां नगर्यायां स राजातिचिरं बहुकालं प्रथम आद्ये वयस्यवस्थायां सुखं सातं यथा
स्यात्तथोवास वासं चक्र इत्यन्वयः । अथ राजानं विशेषयन्नाह — विगतेति । विगतो दूरीभूतो यो

राज्यचिन्ताभारस्तेन निर्वृतो निष्पन्न प्रयोजनः । तत्र हेतुमाह - अवजितेति । अवजितानि स्वायत्तीकृता-
न्यशेषाणि समग्राणि भुवनमण्डलानि येन तस्य भावस्तत्ता तया । द्वीपेति । एकस्माद्वीपादन्ये द्वीपा द्वीपा-
न्तराणि तेभ्य आगताः समायाता येऽनेके बहवो भूमिपाला राजानस्तेषां मौलयः किरीटानि शिरांसि वा
तेषां मालाः स्रजः पङ्क्तयो वा ताभिर्लालितं क्रीडितं चरणयुगलं पादयुग्मं यस्य स तथा । किं कुर्वन् । उद्वहन्नु-

पाटयन् (?) । किम् । भुवनभारं जगद्वीवधम् । केन । भुजेन बाहुना । किमिव । वलयमिव बाहुभूषण-
मिव । कया । लीलया क्रीडया । स्वल्पप्रयासेनेत्यर्थः । किंविशिष्टः सः । परीति । परिवृतः परिवेष्टितः ।
कैः । अमात्यैर्मन्त्रिभिः । 'अमात्यः सचिवो मन्त्री धीसखः' इति कोशः । किं कुर्वद्भिस्तैर्मन्त्रिभिः ।
उपहसद्भिरुपहासं कुर्वद्भिः । कम् । अमरगुरुमपि बृहस्पतिमपि । कया । प्रज्ञया बुद्ध्या । अथ मन्त्रिणो
विशिनष्टि — अनेकेति । अनेके च ते कुलक्रमागता- श्चानेककुलक्रमागताः । कुलपारम्पर्यागतैर्न त्वाधु-
निकैरित्यर्थः । असकृदिति । असकृन्निरन्तरमालोचितं निदिध्यासितं यन्नीतिशास्त्रं नृपोचिताचारबोधको
ग्रन्थस्तेन निर्मलानि स्वच्छानि मनांसि येषां ते तथा तैः । अलुब्धैरिति । अलुब्धैः अलोलुपैः
स्निग्धैर्वत्सलैः । 'स्निग्धस्तु वत्सलः' इति कोशः । प्रबुद्धैः पण्डितैः । पुनः किं कुर्वाणो नृपतिः ।
राजपुत्रैर्नृपतनयैः सह रममाण : क्रीडां कुर्वाणः । इतो राजपुत्रान्विशेषयन्नाह - आत्मन इति ।
आत्मनः स्वकीयस्य प्रतिबिम्बैरिव । प्रतिच्छायैरिव । सर्वदा तदनुयायित्वात् । समानैरिति ।
समानाः सदृशाः वयोवस्थाविशेषाः विद्याश्चतुर्दश प्रतीताः, अलंकारा विभूषणानि येषां ते तथा तैः ।
अनेकेति । अनेके सहस्रशो ये मूर्धाभिषिक्ताः कृताभिषेकाः पार्थिवा राजानस्तेषां कुलानि वंशास्तेभ्य
उद्गतैः प्रभवैः । अखिलेति । अखिलाः समग्रा याः कला विज्ञानानि तासां कलापाः समुदायास्तेषां

यदालोचनं विमर्शनं तेन कठोरा शास्त्रे दृढा मतिर्बुद्धियैर्येषां ते तथा तैः । एतेन मन्त्रदार्ढ्यं सूचितम् ।
अतीति । अतिप्रगल्भैः प्रतिभान्वितैः । 'प्रगल्भः प्रतिभान्विते' इति कोशः । कालेति । कालविद्भिः
पाठा० -

 
[^
]G. मुखरित
[^
]G. वेत्रवत्या सत्या; वेत्रवत्या सरिता.
[^
]G. महिला.
[^
]G. च, विजिता.
[^
]G. कुलोद्भूतैः.

[^
]G. प्रेमा, प्रेमभावा
[^
]G.परिहास.