This page has not been fully proofread.

४१६
 
कादम्बरी ।
 
[ कथायाम्-
चन्द्रातपशुतिमुखो धवलिनः कारणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना समुचि-
तोपचारक्रमेण मदलेखामापतन्ती जग्राह ।
 
mo
 
सा तु तस्मिन्नेव मरकतप्रावणि मुहूर्तमुपविश्य स्वयंमुत्थाय तेन चन्दनाङ्गरागेणानु-
लिप्य ते च द्वे दुकूले परिधाप्य तैश्च मालती कुसुमदामभिरारचितशेखरं कृत्वा तं हार-
मादाय चन्द्रापीडमुवाच - 'कुमार, तवेयैमपहस्तिताहंकारकान्ता पेशलता प्रीतिपरवशं
जनं कमिव न कारयति । प्रश्रय एव ते ददात्यवकाशमेषंविधानाम् । अनया चाकृत्या
कस्यासि न जीवितस्वामी । अनेन चाकारणाविष्कृतवात्सल्येन चरितेन कस्य
बन्धुत्वमध्यारोपयसि । एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वयस्यतामु-
त्पादयति । कस्य याद रोमाश्वासयन्समी स्वभावसुकुमारवृत्तयो भवद्गुणाः ।
त्वम्मूर्ति रेवात्रोपीलम्भ्रमर्हति, या प्रथमदर्शन एव विश्रम्भमुपजनयति । इतस्था हि
त्वद्विषे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमेवानुचितमिवाभाति । तथा हि-संभा-
घणमध्यधःकरणमिवापतति । आदरोऽपि प्रभुताभिमानमिवानुमापयति । सुतिरप्यात्मो-
.
 
वंविधं मुखं यस्य सः । धवलिनो विशेषणं वा । पूर्वोपवर्णितमयं हार इवास्य धवलिनः कारणमिति मनसा
निश्चित्य दूरादेव प्रत्युत्थानादिना समुश्वितेन योग्येनोपचारक्रमेणापतन्तीमागच्छन्तीं मदलेखां जप्राह प्रत्यु-
इमेन तामासादितवान् ।
 
साविति । सातु मदलेखा तस्मिन्नेव मरकतभावण्यश्मगर्भशिलायां मुहूर्त क्षणमात्रमुपविश्यावस्थानं
कृत्वा स्वयमात्मनोत्थाय तेन चन्दनाङ्गरागेण मलयत विलेषनेनानुलिप्य ते च पूर्वोक्ते द्वे दुकूले परिधाप्य तैश्च
मालतीकुसुमदाम भिर्जातीपुष्प सम्भिरारचितशेखरं विरचितावतंसं कृत्वा तं हारमादाय गृहीत्वा चन्द्रापीड-
मुवाचोक्तवती । किमुवाचेत्याह-
कुमारेति । हे कुमार हे चन्द्रापीड, तवेयमपहस्तितो दूरीकृतोऽहंकारो
ययैवंविधा कान्ता मनोहरा पेशलता सुन्दरता कमिव प्रीतिपरवशं जनं न कारयति । ते तव प्रश्रय एव
विनय एवावकाशमवगाहं ददात्येवंविधानां पुरुषाणाम् । अनया चाकृत्याकारविशेषेण त्वं कस्य जीवितस्वामी
• नासि । अपि तु सर्वेषामित्यर्थः । अनेन चाकारणेनानिमित्तेनाविष्कृतं प्रकटीकृतं यद्वात्सल्यं हितं यस्मिन्नेवं-
विधेन चरितेन समाचरणेन कस्य बन्धुत्वं नाध्यारोपयसि । एषा च ते तव प्रकृत्या स्वभावेन मधुरा मिष्टा
व्यवहृतिर्व्यापारः कस्य न वयस्यतां मित्रतामुत्पादयति । स्वभावेन सुकुमारा वृत्तिर्येषामेवंविधा अमी भवद्गुणाः
कस्य न समाश्वासयन्ति समाश्वासनां कुर्वन्ति । त्वदिति । अत्रार्थे त्वन्मूर्तिरेवोपलैम्भमनुभवमर्हति
साक्षात्कारयोग्या भवति । या प्रथमदर्शन एव प्रथमावलोकन एव विश्रम्भं विश्वासमुपजनयति । अतस्त्व-
द्विधे त्वत्सदृशे पुरुषे सकलभुवने प्रथितः प्रख्यातो महिमा माहात्म्यं यस्मिन्नव प्रयुज्यमानं कथ्यमानं सर्व-
मनुचितमिवायोग्यमिवाभाति । तदेव दर्शयति — तथा हीति । संभाषणमपि जल्पनमप्यधःकरणमिवा--
पतति । अनुचितेन सर्वोचितस्य संभाषणमनुचितमेव करोतीति न्यायादिति भावः । आदर इति । आद-
रोऽपि बहुमानोऽपि प्रभुताया ऐश्वर्यस्याभिमानमिवानुमापयति ज्ञापयति । स्तुतिरपि नुतिरप्यात्मन उत्सेक
 
टिप्प० ---1 हन्त हन्त किं प्रलपति वैधेयः । 'चन्द्रातपद्युतिमुषो धवलिनः' इति पाठः । अयं हारः
चन्द्रातपद्युतिं मुष्णाति तादृशस्य अस्य धवलिन्नः कारणमिति तदर्थः । 2 न बुद्धवान् वराकोर्थम् । प्रीति-
करणे भवन्मूर्तिः ( भवदाकृतिः) एव उपालम्भं प्रतिक्षेपवचनम् (ओलंभा, उलहना, इति भाषा)
नईतीत्यर्थः ।
 
पाठा०१ मुषो. २ समुचितेन. ३ आयान्तीम् ४ प्रतिजग्राह ५ अपहसित ६ परवश किमिव ७ स्यताम्.
८ क्रं. ९ समानासयन्ति १० उपलम्भम्.