कादम्बरी /448
This page has not been fully proofread.
कादम्बरीप्रहितहारदर्शनम् ]
पूर्वभागः ।
फेनपिण्डनिकरम्, वासुकिनिर्मोकमिव मन्थनश्रमोज्झितम्, हासमिव कुलगृहवियोगगलि-
तम्, मन्दरमथनविखण्डिताशेषशशिकला खण्डसंचयमिव संहृतम्, प्रतिमागततारागणमिव
जलनिधिजलादुद्धृतम्, दिग्गजकरसीकरासारमिव पुँजीभूतम्, नक्षत्रमालाभरणमिव मदन-
द्विपस्य, शेरच्छकलैरिव कल्पितम्, कादम्बरीरूपवशीकृत मुनिजनहृदयैरिव निर्मितम्, गुरु-
मिव सर्वरखानाम्, यशोराशिमिवैकत्र घटितं सर्वसागराणाम्, प्रतिपक्षमिव चन्द्रमसः जीवि-
तमिव ज्योनिकायाः, लक्ष्मीहृदयमिव नलिनीदलगलज्जलबिन्दुविलासंतरलम्, उत्कण्ठितमिव
मृणालवलयधवलकरम्, शरच्छशिनमिव घनमुक्तांशुनिवहधवलितदिङ्मुखम्, मँन्दाकिनी-
मिव सुरयुवतिकुचपरिमलवाहिनम्, प्रभावर्षिणमतितारं हारम् । दृष्ट्वा चायमस्य चन्द्रापीड-
४१५
डिण्डीर पिण्डस्तस्य निकरमिव । मन्थनेति । मन्थनस्य श्रमः खेदस्तेनोज्झितं व्यक्तं वासुकिर्नागराजस्तस्य
निर्मोकमिव कञ्चुकमिव । कुलेति । कुलगृहं पितृगृहं तस्य यो वियोगो भर्तृगृह आगमनं तस्मिन्नवसरे गलितं
स्रस्तं हासमिवै । दृश्यते हि पितृगृहाद्भगृहे व्रजन्त्याः पितृवात्सल्यवशाद्धासो गलितो भवति किं पुनरुद्वेग
एव भवतीति । मन्दरमथनेन विखण्डिता या अशेषाः समग्राः शशिकलास्तासां संहृतं खण्डसंचयमिव ।
जलनिधिजलादुद्धृतं प्रतिमागतं प्रतिरूपागतं तारागणमिव नक्षत्रसमूहमिव पुञ्जीभूतम् । दिगिति । दिग्गजा
दिग्दन्तिनस्तेषां कराः शुण्डादण्डास्तषां सीकराणां सारमिव रहस्यमिव । मदनेति । मदनद्विपस्य कंदर्प -
हस्तिनो नक्षत्रमालासंज्ञितमाभरणमिव विभूषणमिव । शरदिति । शरद्धनात्ययस्तस्य शकलैरिव खण्डेरिव
निर्मितं हृदयनिर्मलत्वात् । तदभिप्रायेणाह- कादमिति । कादम्बरी राजसुता तरया रूपं
सौन्दर्य तेन वशीकृतानि यानि मुनिजनहृदयानि तर्निर्मितमिव । सर्बरत्नानां समग्रमणीनां गुरुमिव श्रेष्ठमिव ।
सर्वसागराणां समग्रसमुद्राणामेकत्र घटितं यशोराशिमिव । चन्द्रमसः शशिनः प्रतिपक्षमिव । ज्योनिकाया-
श्चन्द्रिकाया जीवितमिव । नलिनीति । नलिनी पद्मिनी तस्या दलानि पत्राणि तेभ्यो गलन्तः क्षरन्तो ये
जलबिन्दवस्तेषां विलासस्तद्वत्तरलं चञ्चलम् उत्कण्ठितं लक्ष्मीहृदैयमिव । मृणालेति । मृणालानि बिसानि
तेषां बलयं तद्वद्धवलाः करा यस्य स तम् । घनमुक्तो योंऽशुनिवहः किरणसमूहस्तेन धवलितं दिङ्मुखं येनैवं-
भूतं शरच्छशिनमिव । सुरयुवतिकुचानां यः परिमल आमोदस्तवाहिनं मन्दाकिनी मिवैतादृशं प्रभावर्षिणमति-
तारमतिमनोहरं हारम् । दृष्ट्वा चेति । दृष्ट्वा विलोक्य चन्द्रापीडः । चन्द्रेति । चन्द्रातपद्युतिवद्दयुतिर्यस्यै-
>
टिप्प० -1 'हासमिव श्रियः कुलगृह ० ' इत्येव पाठः । लक्ष्मीहासत्वेनैथोत्प्रेक्षणेऽतिशयात् । 2 यज्ञ-
विंशतिमौक्तिकैः है: कृता माला । 3 लक्ष्मीहृदयमिवेत्यादयश्चतस्रः श्लेषोत्थापिता उपमाः, अत एवार्थद्वयम् ।
टीकाकारघरॉकस्य तु नास्य परिचयोऽपि । अत एव उत्कण्ठितमिवेति पृथगुपमामपि लक्ष्मीहृदयस्य विशे-
षणीचकार । अतः सर्वासामप्युपमानाममुक्तोऽर्थो निम्न सूच्यते । लक्ष्मीहृद० - नलिनी दलगलज्जलबिन्दु-
बिलास इष विलासः ( दीप्तिः ) यस्य ईदृशः तरलः (मध्यमणिः ) यस्य तम् (हारम् ) । पक्षे टीकायां
स्पष्टम् । उत्कण्ठितमिव मृणाल० - उत्सुकम् ( विरहिणम्) इव मृणालवलयेन धवलौ करौ ( संता-
पशान्त्यर्थम्) यस्य तम् । पक्षे टीकायाम् । शशिनमिव० – घनो निबिडो यो मुक्तानां ( मौक्तिकानाम्)
अंशुनिवहस्तेन धवलितदिङ्मुखम् (हारम् ) । पक्षे टीकायाम् । मन्दाकिनी मिवेति टीकाकारहतकस्या-
ज्ञानम् । 'मन्दाकिनीप्रवाहमिव' इति पाठः । धारणात्परिमलवाहिनम् (हारम्) अवगाहनाच मन्दा-
किनीप्रवाहम् ।
पाठा० – १ हासमिव श्रियः २ प्रतिमातारा. ३ दिग्गजशीकरासरपुञ्जीभूतम् ४ पुञ्जीकृतम् ५ शरन्मेषशकलैः●
६ ज्योत्स्नायाः ७ मन्दाकिनीप्रवाहम्.
1