This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम-
पाण्डुरधारासहस्राणि भारागृहाणि मुक्तानि, आहोस्विदनिलविकीर्यमाणसी करधवलित्तभुवना
म्बरसिन्धुः कुतूहलाद्धरातलमवतीर्णा इति ।
 
४१४
 
आलोकानुसार प्रहितचक्षुरद्राक्षीदनल्पकन्यका कदम्बपरिवृतां श्रियमाणधवलातपत्रामुडू-
यमानचामरद्वयां कादम्बरी प्रतीहार्या वामपाणिनां वेत्रलतागर्भेणार्द्रवस्त्रशकलावच्छन्नमुखं
चन्दनानुलेपनसनाथं नॉलिकेरसमुद्गकमुद्रहन्त्या दक्षिणकरेण दत्तहस्तावलम्बाम्, केयूरकेण
च निःश्वासहार्ये निर्मोकशुचिनी धौते कल्पलतादुकूले दधता निवेद्यमानमार्गाम्, मालतीकु-
-
सुमदामाधिष्ठितकरतलया च तमालिकयानुगम्यमानामागच्छन्तीं मदलेखाम्, तस्याश्च समीपे
तरलिकाम्, तया च सितांशुकोपच्छदे पटलके गृहीतं धवलताकारणमिव क्षीरोदस्य, सह-
भुवसिव चन्द्रमसः, मृणालदण्डमिव नारायणनाभिपुण्डरीकस्य, मन्दरक्षोभ विक्षिप्तमिवामृत-
विशरारुतां प्राप्यमाणानि पाण्डेरधाराणां सहस्राणि येष्वेवंविधानि धारागृहाणि मुक्ता नि । आहोखिदिति वितर्के ।
अनिलेन वायुना विकीर्यमाणा विक्षिप्यमाणा ये सीकरा वातास्तवारीणि तैर्धवलितं शुभ्रीकृतं भुवनं यया
सैवंविधाम्वर सिन्धुर्गङ्गा कुतूहलाद्धरातलं पृथ्वीतलमवतीर्णांगता ।
 
आलोकस्यानुसारेण प्रहितं प्रेषितं चक्षुर्येनैवंभूतश्चन्द्रापीड: कादम्बैरीम्, अथ चागच्छतीं मदलेखाम्,
अथ च तस्याः समीपे तरलिकाम् तथा च सितांशुकं श्वेतवस्त्रमुपच्छदं यस्मिन्नेतादृशे पटलके पात्रविशेषे
गृहीतं हारं चाद्राक्षीत् । अप कादम्बरी विशिनष्टि - अनपेति । अनल्पा बहुधो याः कन्यकाः कुमार्य
स्तासां कदम्ब: समूहस्तेन परिवृतां सहिताम् । त्रियमाणेति । ध्रियमाणं धवलं शुभ्रमातपत्रं छत्रं
यस्याः सा ताम् । उहूदगानं वीज्यमानं चामरद्वयं यस्याः सा ताम् । प्रतीहार्या द्वारागतजननिवेदनका-
रिण्या । वामेति । वेत्रला गर्ने मध्ये यस्यैवंविधेन वामपाणिनापसव्यहस्तेन कृत्वा यद्वस्त्रं तस्य शकलं
खण्डं तेनावच्छन्नमाच्छादितं मुखं यस्यैवंभूतं चन्दनस्यानुलेपनेन सनाथं सहितं नालिकेरसमुंद्रकं श्रीफलमध्य-
वर्तिगोलकमुद्वद्दन्त्या दक्षिणेन करेणापसव्यपाणिना दत्तो हस्तावलम्बो यस्याः सा ताम् । केयूरकेणेति ।
निःश्वासेन श्वासवातेन हार्ये हर्तुं योग्ये निर्मोकः कञ्चुस्तद्वच्छुचिनी निर्मले धौते क्षालिते कल्पलतादुकूले
दधता धारयतैवंविधेन केयूरकेण च निवेद्यमानो मार्गो यस्याः सा ताम् । अथ मदलेखां विशेषयन्नाह -
मालतीति । मालती जाती तस्याः कुसुमानि पुष्पाणि तेषां दाम सक् तेन अधिष्ठितं अधिश्रितं करतलं यस्या
एतादृश्या तमालिकया भुजिष्ययानुगम्यमानाम् । अथ हारस्य श्वेतत्वप्रकर्षमाश्रित्योत्प्रेक्षते - धवलतेति ।
क्षीरोदस्य क्षीरसमुद्रस्य या धवलता शुभ्रता तस्याः कारणमिव निमित्तमिव । एतेन क्षीरोदस्य स्वाभाविकी
धवलता न, किं तु तद्धवलताया हेतुरेवायम् । क्षीरोदस्य हारगर्भत्वस्य वक्ष्यमाणत्वादन्तर्गतस्य हारस्येत्यर्थः ।
चन्द्रमसः शशिनः सहभुवमिव सहसमुत्पन्नमिव । नारायणेति । नारायणो विष्णुस्तस्य नाभिपुण्डरीकस्य तुन्द-
कूपिका सिताम्भोजस्य मृणालदण्डमिव । मन्दरो मेरुस्तस्य क्षोभेण विक्षिप्तं दूरीकृतममृतस्य पीयूषस्य फेनपिण्डो
 
टिप्प० - 1 पाण्डुरवर्णानां जलधाराणाम् । 2 जलयन्त्र ( 'कुँहारा' इति भाषा ) गृहाणि । 3 हन्त
कोहग्दौर्भाग्य बाणस्य यत्सर्वथा बोधलेशरहितोपि टीकयितुं धायैमाचरति । हारोपहरणाय न स्वयं
फादम्बर्यागच्छत्, न 'वेदमनुरूपमपि । हारपरिचये प्रोच्यते – 'गन्धर्वराजेनापि कादम्बर्यै' ( दत्तः ) ।
अपि कादम्बरी स्वयमेवं वदेत् ? अस्तु. वाचयतां स्पष्टम भवेद्यत् सतरलिका मदलेखैवानुप्रेषिताऽत्र ।
तस्मात् - 'कादम्बरीप्रतीहार्या' इत्येव पाठः । वेत्रलतागर्भेण वामपाणिना नारिकेलसमुद्रकमुद्वहन्त्या
कादम्बरीप्रतिहार्या दत्तहस्तावलम्बामित्यर्थः । 4 अज्ञानमेवेदम् । मदलेखां विशिनष्टीति बोध्यम् ।
 
पाठा०-१ पारदरसधारा, जलधाराः. २ सिन्धुर्धरातलमवतीर्णा कुतूहलाच्चालोक. ३ कादम्बरीप्रतीहार्या.
४ नारिकेल,