This page has not been fully proofread.

कादम्बरीप्रहितमदलेखाऽऽगमनम् ] पूर्वभागः ।
 
४१३
 
- चन्द्रापीडोऽपि तस्मादवतीर्य प्रथमविसर्जितेनेव कादम्बरीपरिजनेन निर्वर्तितस्त्रान विधिर्नि-
रुपहत शिलार्चिताभिमतदैवतः क्रीडापर्वतक एव सर्वमाहारादिकमहः कर्म चक्रे ।
 
क्रमेण च कृताहारः क्रीडापर्वतकप्राग्भागभाजि, मनोहारिणि, हारीतहरिते, हरिणरोम-
न्थफेनशीकरासारे सीरायुध हलभयनिश्चलकालिन्दी जलत्विषि, तरुणीचरणालक्तकरसशोण-
शोचिषि, कुसुमरजःसिकतिलतले, लतामण्डपोपगूढे, शिखण्डिताण्डवसंगीतगृहे, मरकतशि-
लातल उपविष्टो दृष्टवान्सहसैवातिबहलधाम्ना धवलेनालोकेन जलेनेव निर्वाप्यमाणं दिव-
सम्, मृणालॅवलयेनेव पीयमानमातपम्, क्षीरोदेनेव प्लाव्यमानां महीम्, चन्दनरसवर्षेणेव
सिध्यमानान्दिगन्तान्, सुधयेव विलिप्यमानमम्बरतलम् । आसीच्चास्य मनसि — 'किंमु
खलु भँगवानोषधिपतिरकाण्ड एव शीतांशुरुदितो भवेत् उत यन्त्रविक्षेपविशीर्यमाण-
,
 
दवतीयत्तीर्य प्रथम विसर्जितेने वाद्यप्र हितेनेव कादेम्बरीजनेन निर्वर्तितो विहितः स्नानविधिर्यस्य सः । निरुपह-
ताखण्डा या शिला तस्यामर्चिता पूजिताभिगतदेवता येन सः क्रीडापर्वतक एव सर्वमाहारादिकमहःकर्म चक्रे ।
 
क्रमेणेति । क्रमेणानुक्रमेण कृत आहारो भोजनं येन सः मरकतशिलातल उपविष्ट आसीनोऽतिबहलं धाम
तेजो यस्मिन्नविन धवलेन शुभ्रेणालोकेन जलेनेव निर्वाप्यमाणं विलुप्यमानं दिवसं दृष्टवानित्यन्वयः । मर-
कतशिलातलं विशेषयन्नाह - क्रीडेति । क्रीडापर्वतकस्य प्राग्भागभाजि पूर्वप्रदेशवर्तिनि मनोहारिणि चित्त-
क्षोभजनके । मरकतानां नीलवादाह - हारीतेति । हारीतः पक्षिविशेषो मृदङ्कुरस्तद्वद्धरिते नीले । हरि-
णेति । हरिणानां मृगाणां यो रोमन्थश्चर्वितस्य चर्वणं तस्य फेनः कफस्तस्य शीकराणां वातास्तविप्रुषामासारो
वेगवान्वर्षो यस्मिन् । सीरेति । सीरायुधो रामो हलं सीरं तस्माद्यद्भयं तेन निश्चला कालिन्दी यमुना तस्या
जलं पानीयं तद्वत्त्विद् कान्तिर्यस्मिन् । तरुणीति । तरुणीनां मानिनीनां यश्चरणालक्तकः पादरञ्जनार्थं याव-
करसस्तेन शोणा रक्ता शोचिः कान्तिर्यस्मिन् । कुसुमानां पुष्पाणां रजो धूलिस्तेन सिकतिलं सिकतायुक्तं तलं
यस्मिन् । लतामण्डपैरुपगूढे व्याप्ते । शिखण्डितेति । शिखण्डिनां मयूराणां यत्ताण्डवं नृत्यं तस्य संगीतगृहं
तस्मिन् । अथ चातपं सूर्यालोकं दृष्टवान् । कीदृशम् । मृणालवलयेनेव पीर्य॑मानमाखाद्यमानम् । नायं सूर्यस्या-
तपः किंतु मृणालवलयस्येत्यर्थः । पुनर्महीं वसुधां दृष्टवान् । कीदृशीम् । क्षीरोदेनेव क्षीरसमुद्रेणेव प्लाव्यमानां
वाह्यमानाम् । पुनर्दिगन्तरान्दृष्टवान् । कीदृशान् । चन्दनरसवर्षेणेव सिच्यमानानभिषेकविषयी क्रियमाणान् ।
तदनन्तरमम्बरतलं व्योमतलं दृष्टवान् । कीदृशम् । सुधया गृहधवलीकरणद्रव्येण विलिप्यमानं विलेपन विषयी -
क्रियमाणम् । आसीञ्चेति । अस्य चन्द्रापीडस्य मनस्येवमासीत् । खलु निश्चयेन । किमु भगवानोषधिपतिः
शीतांशुश्चन्द्रोऽकाण्ड एवाप्रस्ताव एवोदितो भवेदुद्गतः स्यात् । उत यन्त्रस्य विक्षेपः प्रपातस्तेन विशीर्यमाणानि
 
टिप्प० – 1 'प्रथम विसर्जितेनैव कादम्बरीपरिजनेन' इत्येत्र पाठः । पूर्वतः प्रेरितेन कादम्बरीपरिजनेन
निर्वर्तितः स्नानव्यापारो यस्य सः, इत्यर्थः । 2 अन्तर्गतीक्रियमाणम् । 3 मरकतशिलातलोपविष्टश्चन्द्रा-
पीड : अकस्मात् गगनधरण्यादिषु परितो व्याप्तमद्भुतं धवलिमानमपश्यत् येन हि अकाण्डे चन्द्रोदया-
देराशङ्काऽस्य समभवदिति प्रघट्टकस्यास्य सारः । [ कादम्बर्या प्रेषितस्य हारस्याचं प्रकाश इति कविना
कृती भूमिकातिशयः । ]
 
पाठा० - १ निवर्तित. २ हरिणी ३ समुपविष्ट: ४ वनेनेव; धवलेन. ५ दिगन्तरान्, ६ भगवानौषधिपतिः;
केतकीगर्भपत्रपाण्डुरो भगवानोषधिपतिः