कादम्बरी /445
This page has not been fully proofread.
४१२
कादम्बरी ।
[ कथायाम्-
कादम्बरी तु तं दृष्ट्वा चिरयतीति महाश्वेतायाः किल वर्मावलोकयितुं विमुच्यतां गवा-
क्षमित्युक्त्वानङ्गक्षिप्तचित्ता साँधस्योपरितनं शिखरमा रुरोइ । तत्र च विरलपरिजना, सैकल-
शशिमण्डलपाण्डुरेणातपत्रेण हेर्मंदण्डेन निवार्यमाणातपा, चतुर्भिर्वालव्यजनैश्च फेनशुचि-
भिरुद्धूयमानैरुपवीज्यमाना, शिरसि कुसुमगन्धलुब्धेन भ्रमता भ्रमरकुलेन दिवापि नीलाव-
गुण्ठनेनेव चन्द्रापीडाभिसरणवेषमँभ्यस्यन्ती, मुहुश्चामरशिखां समासज्य, मुहुश्छन्नदण्डम-
वलम्ब्य, मुद्दुस्तमालिकास्कन्धे करौ विन्यस्य, मुहुर्मदैलेखां परिष्वज्य, मुहुः परिजनान्तरि-
तसकलदेहा नेत्रत्रिभागेणावलोक्य, मुहुरावलितत्रिवलीवलया परिवृत्य, मुहुः प्रतीहारीवेत्र-
लताशिखरे कपोलं निधाय, मुहुर्निश्चलकर
विवृतामघरपल्लवे वीटिकां निवेश्य, मुहुरुद्गीर्णोत्प-
लप्रहारपलायमानपरिजनानुसरणदत्तकतिपयपदा विहस्य तं विलोकयन्ती, तेन च विलोक्य-
माना, महान्तमपि कालमतिक्रान्तं नाज्ञासीत् । आरुह्य न प्रतीहार्या निवेदितमहाश्वेताप्र-
व्यागमना तस्मादवततार। स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापारमकरोत् ।
,
टिप्प० - 1 भन्नापि निपतति टीकाकारः । महाश्वेतामार्गदर्शनार्थ गवाक्षोद्धाटने भाज्ञापिते पुनः
सौधष्पृष्ठारोहणस्याप्रसक्तत्वात् । तस्मात् - तं (क्रीडापर्वतकस्थं चन्द्रापीडम्) दृष्ट्वा 'महाश्वेता चिरयति'
इति तस्या आगमनमार्गमवलोकयितुम् ( सोयं व्याजः, वास्तवे, तु चन्द्रापीड दर्शनार्थम्) 'विमुच्य तं
गवाक्षम्' अधिष्ठितं गवाक्षं त्यक्वा प्रासादस्य शिखरमारुरोह । इति पाठः, तदर्थश्च ।
-
।
।
कादम्बरी तु तं चन्द्रापीडं दृष्ट्वा विलोक्य चिरयति विलम्बते इति महाश्वेतायाः किल वर्त्म मार्गमवलोक-
यितुं वीक्षितुं गवाक्षं वातायनं विमुच्यतामुद्धाट्यतामित्युक्त्वानङ्गक्षिप्तचित्ता सौधस्योपरितनं शिखरमारुरोहारूढ-
वती । तत्र चेति । तस्मिन्स्थले । इतः कादम्बरी विशेषयन्नाह - विरलेति । विरलः स्वल्पः परिजनो यस्याः
सा । सकलेति । सकलं समग्रं यच्छशिमण्डलं चन्द्रबिम्बं तद्वत्पाण्डुरेण श्वेतेन हेमदण्डेन सुवर्णदण्डेनातपत्रेण
छत्रेण निवार्यमाणो दूरीक्रियमाण आतपो यस्याः सा । उद्धूयमानैः कम्पमानैः फेनः कफस्तद्वच्छुचिभि-
र्निर्मलैश्चतुर्भिर्वालव्यजनैश्चामरैश्चोपवीज्यमाना । शिरसीति । शिरसि मस्तके कुसुमानां पुष्पाणां गन्धस्तत्र
लुब्धेन गर्धेन भ्रमरकुलेन मधुकरवृन्देन भ्रमता पर्यटता । दिवापि भ्रमरकुलस्य नीलत्वात्तत्साम्येनाह -
नीलेति । नीलं यदवगुण्ठनं शिरोवेष्टनं तेनेव । अभिसारिका वेषमधिकृत्याह – चन्द्रेति । चन्द्रापीडस्याभि-
सरणं तत्र यो वेषस्तमभ्यस्यन्त्यभ्यासं कुर्वन्ती उत्कण्ठिताचेष्टितान्याह- मुहुरिति । मुहुः क्षणमात्रं चामर-
शिखां वालव्यजनप्रान्तं समासज्यालम्ब्य । मुहुश्छत्रदण्डमवलम्ब्यालम्ब नी कृत्य । मुहुस्तमालिकास्कन्धे करौ
हस्तौ विन्यस्य संस्थाप्य । मुहुर्मंदलेखां परिष्वज्याक्षिप्य । मुहुः परिजनेनान्तरितो व्यवहितः सकलदेहो यस्या
एवंविधा सती नेत्रत्रिभागेणावलोक्य निरीक्ष्य । मुहुरावलितं त्रिवल्या वलयं मण्डलं यस्याः सा परिवृत्य पराव-
र्तनं कृत्वा । मुहुः प्रतीहारी द्वाररक्षानियुक्ता स्त्री तस्या वेत्रलता यष्टिविशेषस्तस्याः शिखरे प्रान्ते कपोलं गल्ला-
त्परप्रदेशं निधाय । मुहुर्निश्चलो निष्कम्पो यः करो हस्तस्तेन विधृतां वीटिकामधरपल्लव ओष्ठकिसलये निवेश्य
स्थापयित्वा । मुहुरुद्गीर्ण क्षिप्तं यदुत्पलं तस्य प्रहारस्तेन पलायमानो यः परिजनस्तस्मिन्ननुसरणं तत्र दत्तानि
कतिपयपदानि यया सा विहस्य हास्यं कृत्वा तं विलोकयन्ती तेन च चन्द्रापीडेन विलोक्यमानातिक्रान्तं व्यती-
तं महान्तमपि कालं समयं नाज्ञासीन्न ज्ञातवती । इतवारुह्य चारोहणं कृत्वैव प्रतीहार्या द्वारपालिकया निवे-
दितं ज्ञापितं महाश्वेताप्रत्यागमनं यथा सैवंविधा तस्मात्सौधादवततारोत्तीर्णा । स्नानादिषु मन्दादरापि शिथि-
लोद्यमापि महाश्वेतानुरोधेन दिवसव्यापार दिनकृत्यम करोयदधात् । चन्द्रापीडोsपि तस्मात्क्रीडापर्वतशिखरा-
पाठा० -१ तातम्. २ अवलोकयितुमुद्यता. ३ विमुच्य तं गवाक्षमनङ्ग ४ तलं कैलासशिखर मिव गौर्यारुरोह.
५ शशि. ६ विरत्वितहेमदण्डेन. ७ वेषाभ्यासं कुर्वती मुहुः, वेषाभ्यासमिव कुर्वती कैलासशिखर इव गौरी मुद्दुः०
८ मंदलेखां सखीम्. ९ त्रिभागेण मुहुः १० विनिवेशय. ११ उद्गीर्णकर्णोत्पल; उद्धूर्णकर्णोत्पल.