कादम्बरी /444
This page has not been fully proofread.
चन्द्रापीडस्य मनसि विचाराः ]
पूर्वभागः ।
४११
पल्लवेनेव वीजयति । पुनश्चचिन्तयत्
- 'प्रायेण मानुष्यकसुलभा लघुता मिथ्यासंकल्पसहै-
खैरेवं मां विप्रलभते, लुप्तविवेको यौवनमदो मदयति, मदनो वा । यतस्तिमिरोपह्तेव यूनां
दृष्टिरल्पमपि कालुष्यं महत्पश्यति । स्नेहलवोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते ।
स्वयमुत्पादिताने क चिन्ताशताकुला कविमतिरिव तरलता न किंचिन्नोत्प्रेक्षते । निपुणमदनगृ-
हीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्न किंचिन्ना लिखति । संजातरूपाभिमाना कुलटेवात्म-
संभावना न कचिन्नात्मानमर्पयति । स्वप्न ईवानुभूतमपि मनोरथो दर्शयति । इन्द्रजालपि-
च्छिकेवासंभाव्यमपि प्रत्याशा पुरः स्थापयति । भूयश्च चिन्तितवान् – 'किमनेन वृथैव
मनसा खेदितेन, यदि सत्यमेवेयं धवलेक्षणा मय्येवंजातचित्तवृत्तिस्तदा नचिरात्स एवैनाम-
प्रार्थितानुकूलो मन्मथः प्रकटीकरिष्यति । स एवास्य संशयस्य छेत्ता भविष्यति' इत्यवधा -
यथायोपविश्य च ताभिः कन्यकाभिः सहा क्षैयैश्च, विपञ्चीवाद्यैश्च, पाणविकैश्च स्वरसंदेह-
विवादैश्व, सुभाषितगोष्ठीभिश्चान्यैश्च तैस्तैरालापैः सुकुमारैः कलाविलासैः क्रीडन्नासांचक्रे ।
मुहूर्त च स्थित्वा निर्गम्योपवनालोकन कुतूहलाक्षिप्तचित्तः क्रीडापर्वतशिखरमारुरोह ।
१
•
पुनरिति 1 पुनरचिन्तयचिन्तितवान् । किं तदित्याह - प्रायेणेति । प्रायेण बाहुल्येन मानुष्यके भवे
सुलभा सुप्रापा लघुता मिथ्या मुधा संकल्पसह
सहस्रैर्मनोरथसहस्रैरेवं पूर्वोक्तप्रकारेण । मामित्यात्म निर्देशः । विप्रलभते
वञ्चयतीत्यर्थः । तथा लुप्तो विवेको येनैतादृशो यौवनमदस्तारुण्यगर्वो मदयति मदं जनयति । एवं मदनोऽपि । यत-
स्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । अल्पापि योषितां चित्तविकृति र्बहुत्वेन जानातीत्यर्थः ।
स्नेहलवोऽपि प्रीतिलेशोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते दूरं नीयते । स्वयमिति । स्वयमात्मनोत्पादिता
अनेकेषामभिलषणीय वस्तूनां चिन्तास्तत्तद्विषयक मनोवृत्तयस्तासां शतं तेनाकुला व्याकुला तरलता तृष्णाविशेष:
किंचिन्न नोत्प्रेक्षतेऽभिलषते अपि तु सर्वमेवोत्प्रेक्षत इति भावः । केव कविमतिरिव । सापि स्वयमुत्पादितानेकेषां
वर्णनीयानां या चिन्ता स्मृतिस्तस्याः शतं तेनाकुला व्याप्ता सती किंचिन्न नोत्प्रेक्षते । अपि तु सर्वमेवोत्प्रेक्षा-
लंकारविषयीकरोतीत्यर्थः । निपुणेति । निपुणोऽभिज्ञो यो मदनः कंदर्पस्तेन गृहीता स्वीकृता तरुणचित्तत्र-
त्तिश्चित्रवर्तिकेव किंचिन्न नालिखति । अपि तु सर्वमेवालिखतीत्यर्थः । संजातेति । संजातं रूपस्य सौन्दर्यस्या-
भिमानोऽहंकारो यस्या एवंविधात्मसंभावना कुलटेव क्वचिन्न नात्मानमर्पयति । अपि तु सर्वत्रात्मानं दत्त इत्यर्थः ।
स्वप्न इवानुभूतमपि मनोरथो दर्शयति । प्रत्याशा दुराशेन्द्रजालपिच्छिकेवासंभाव्यमपि पुरोऽग्रे स्थापयति प्रति-
ष्ठितं करोति । भूयश्चेति । पुनरप्यन्यचिन्तितवान् । धृतिमाह - किमनेनेति । अनेन पूर्वोदन्तेन वृथैव मु-
धैव मनसा खेदितेन किम्, यदि सत्यमेव धवलेक्षणा कादम्बरी मय्येवं जातचित्तवृत्तिस्तदा नचिरात्स्तोक-
कालेनाप्रार्थित एवानुकूलो दाक्षिण्यवान्मन्मथः स एवैनां चित्तवृत्तिं प्रकटीकरिष्यति । स एवेति । स एव कं-
दर्प एव । अस्येति । अस्याश्चित्तवृत्तिर्मयि वर्तते न वेत्येवरूपस्यास्य संशयस्य छेत्ता दूरीकर्ता भविष्यति । इत्य
वधार्य निश्चयं कृत्वोत्थायोपविश्य च ताभिः पूर्वोक्ताभिः कन्यकाभिः सहाक्षैः पाशकैयैर्गनिश्च । विपञ्ची वाद्यं
येषां तैश्च । पणवो वादिनविशेषो विद्यते येषां ते पाणविकास्तैश्च । स्वराणां षड्जादीनां ये संदेहास्तषां विवादैश्च ।
सुभाषितानि सूक्तानि तेषां गोष्ठीभिश्च । अन्यैश्च पूर्वोक्तव्यतिरिक्तस्तैस्तैराला पैश्च सुकुमारैः कलाविलासैः
क्रीडन्क्रीडां कुर्वन्नासांचक्रेऽधितस्थौ । मुहूर्त च स्थित्वा तत्रावस्थानं विधाय तदनन्तरं निर्गम्य बहिरागत्योपवन-
स्यालोकनं तस्य कुतूहलं कौतुकं तेनाक्षिप्तं चित्तं यस्य सः क्रीडापर्वतशिखरमा रुरोहारूढवान् ।
टिप्प० - 1 अल्पामपि विकृतिं बहुतरां जानातीत्यर्थः । 2 आत्मश्लाघा । 3 अननुभूतमपीत्येव पाठः ।
स्वम इव यूनां मनोरथः अननुभूतमपि द्रव्यादिकं नायिकानुरागादिकं च दर्शयतीत्यर्थः ।
पाठा० -१ एवमायास्य मामू. २ विसार्यते. ३ मन्मथ ४ अननुभूतम्. ५ पर्वतक.