कादम्बरी /443
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
मणिगृहं शिलातलास्तीर्णायामुभयत उपर्युपरि निवेशितबहूपधानायां कुथायां निपत्य केयूरके-
णोत्संङ्गेन गृहीतचरणयुगलस्ताभिर्यथादिष्टेषु भूमिभागेषूपविष्टाभिः कन्यकाभिः परिवृतो दो-
लायमानेन चेतसा चिन्तां विवेश । किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुव एते.
विलासा एवेदृशाः सकललोकहृदयहारिणः, आहोखिदनाराधितप्रसन्नेन भगवता मकरकेतुना
मयि नियुक्ता, येन मां सात्रेण सरागेणांकूणित त्रिभागेण हृदयान्तः पतत्स्मरशरकुसुमरजोरू-
षितेनेव चक्षुषा तिर्यग्विलोकयति । मद्विलोकिता च धवलेन स्मितालोकेन दुकूलेनेव लज्ज-
यात्मानमावृणोति । मल्लज्जाविवर्तमानवदना च प्रतिबिम्ब प्रवेशलोमेनेव कपोलदर्पणमर्पयति ।
मदवकाशदायिनो हृदयस्य प्रथमाविनयलेखामिव कररुहेण शयनाङ्के लिखति । मत्ताम्बूलं-
षीटिकोपनयनखेदविधूतेन रक्तोत्पलग्रॅम मरवृन्देन करतलेन स्विन्नं मुखमिव गृहीततमाल-
उपर्युपरि निवेशितानि स्थापितानि बहून्युपधानान्युच्छीर्षकाणि यस्यामेवंविधायां कुथायां प्रवेण्यां निपत्य केंयू-
रकेणोत्सङ्गेन गृहीतमात्तं चरणयुगलमङ्गियुग्मं यस्य सः, ताभिर्यथादिष्टेषु यथायोग्यं कथितेषु भूमिभागेषूपविष्टाभिः
कन्यकाभिः परिवृतः सहितो दोलायमानेन कम्पमानेन चेतसा कृत्वा चिन्तां विवेश । चिन्तामनो बभूवेत्यर्थः । किं
तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुवः स्वाभाविकाः सकललोकहृदयहारिण ईदृशा एते विलासा एव ।
आहोस्विद्वितर्के । अनाराधितश्चासौ प्रसन्नश्चैवंविधेन भगवता मकरकेतुनेति सावधारणं तेन मकरकेतुनैव
मयि कादम्बरी नियुक्ता नियोजिता, येन मन्मथनियोगेन सास्रेणास्रं रुधिरं तेन, सरागेण स्नेहयुक्तना-
कूणितो वक्रीकृतस्त्रिभागो यस्मिन् । हृदयेति । हृदयान्तः पतन्तो ये स्मरशराः कंदर्पबाणास्त एव कुसुमानि.
तेषां रजः परागस्तेन रूषितेनेव चक्षुषा नेत्रेण तिर्यग्विलोकयति । इदं चिन्ताधिरूढामधिकृत्योक्तम् ।
अन्यथा प्रासादाधिरूढायास्तस्या विलोकनासंभवात् । एवमन्यानपि तव्यापारान्खानुकूलानेव चिन्तयन्नाह -
मदिति । मद्विलोकिता सती लज्जया धवलेन स्मितालोकेन शुभ्रवसाम्यादाह – दुकूलेति । दुकूलेनेवात्मा-
नमावृणोत्याच्छादयति । प्रतिबिम्ब मधिकृत्याह – मदिति । मज्जया विवर्तमानं वदनं यस्या एवंविधापि प्रति-
बिम्बस्य यः प्रवेशस्तस्य लोभेनेव कपोलदर्पणमर्पयति । मुखविवर्तनेऽपि कपोलस्य तदभिमुखत्वादिति भावः ।
नखकर्षणचेष्टामधिकृत्याह- मदिति । ममावकाशदायिनो हृदयस्य प्रथमामायामविनयलेखामिव कररुहेण
पुनर्भवेण शयनस्यै पल्यङ्कस्याङ्क उत्सङ्गे लिखति । ताम्बूलप्रदानसमये तस्याः करकम्पक्रियामधिकृत्याह-
ममेति । मम ताम्बूलवीटिकाया यदुपनयनं प्रापणं तस्माद्यः खेदः प्रयासस्तेन विधूतेन कम्पितेन,
रक्तोत्पलं कोकनदं तस्य यो भ्रमस्तेन भ्रममरवृन्दं मधुकरपटलं यस्मिन्नेतादृशेन करतलेन गृहीततमाल-
पल्लवेन(नेव) भ्रमराणां तत्सादृश्यादिति भावः । मदिति । मद्विलोकनात्प्रेम्णा स्विन्नं मुखमिव वीजयति ।
d
टिप्प० - 1 अन्वयोऽशुद्धः पाठश्चापि । कादम्बर्या एते विलासाः सहजाः सकललोकहृदयहारिणः,
उत मकरकेतुना नियुक्ताः, इत्यन्वयः । टीकाकारहतकस्तु 'कादम्बर्या: विलासाः स्वाभाविकाः, उत इयं
कादम्बरी कामेन नियुक्ता,' इति विलासानां स्वाभाविकाऽस्वाभाविकत्वकोटिद्वये कादम्बरीमवतारयति ।
विलासानां कोटिद्वयप्रसङ्गे कादम्बर्याः संकथा सर्वथा मन्दमतित्वमेवेति स्थूलप्रज्ञोपि जानीयादित्यलम् ।
2 मन्दहास्यप्रभया दुकूलेनेव आत्मानमाच्छादयति । 3 कपोल एव दर्पण: । परावर्तितवदनापि मम
प्रतिबिम्बपतनलोभन निजकपोलमभिमुखीकरोतीत्यर्थः । 4 शयनीयस्य मध्यभागे कामाकूतवशाद्यो
नखैरुल्लेखस्तन्त्र कल्पयति यत् मह्यमवकाशदायिनों हृदयस्य अविनयरेखामिव कर्षति । 5 पुनरधोमुखः
पपात - रक्तोत्पलभ्रमेण पतन्तो भ्रमरा यस्मिन्नीदृशेन अत एव गृहीततमालपल्लवेनेव करेण, दानपरि-
श्रमेण स्विन्नं मुखं वीजयतीव । श्रमवशाद्विधुते हस्ते मुखवीजनस्य, भ्रमरपाते तमालपल्लवस्य चेत्युत्प्रेक्षा-
द्वयम् । करे रक्तोत्पलभ्रम इति भ्रान्तिरिति त्रयाणां संकरः ।
पाठा०—१ उत्सङ्गे. २ कूणित ३ लोभभ्रान्तभ्रमर, ४ खिन्नं,
•
49