This page has not been fully proofread.

चन्द्रापीडस्य मनसि विचाराः ]
 
पूर्वभागः ।
 
४०९
 
चंन्द्रापीडेन तत्परित्यागसंकल्पसमकालप्रस्थितेन कण्ठलमेन पृष्टेव जीवितेन, 'अविशेषज्ञे,
पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः, प्रत्याख्यानयोग्यो न वा' इति तत्कालागते-
नाभिहितेव बाष्पेण, 'अपनयामि ते सहासुभिधैर्यावलेपमिति निर्भसितेष मनोभुवा पुनरपि
तथैव चन्द्रापीडाभिमुखहृदया बभूव ।
 
तदेवमस्तमितप्रतिसमाधानबेला त्प्रेमावेशेनास्वतन्त्रीकृता परवशेवोत्थाय जालवातायनेन
तमेव क्रीडा पर्वतकमवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विमेव स्मृत्या
ददर्श, न चक्षुषा । अङ्गुलीगलित खेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया। रोमा-
त्रतिरोधानशङ्कितेव हृदयेनालिलिङ्ग, न वक्षसा । तत्संगमकालातिपातासहेव मनो गमाय
नियुक्तवती, न परिजनम् । चन्द्र पीडोऽपि प्रविश्य स्वैच्छन्दं कादम्बरीहृदयमिव द्वितीयं
 
कल्पस्तदध्यवसाय स्तत्समकालं प्रस्थितेन चलितेन कण्ठलमैन जीवितेन पृष्टेव प्रश्नविषयीकृतेव । अन्योऽपि यः
प्रस्थानं करोति सोऽपि कण्ठे लगिला गच्छामीति प्रश्नपूर्वकं व्रजति । तत्कालागतेन तत्समयावच्छेदेन प्रा.
दुर्भूतेन बाष्पेन नेत्राम्बुनेत्यभिहितेवेति कथितेव । इतिवाच्यमाह - अविशेषेति । हे अविशेषज्ञे, पुनरपि
प्रक्षालितलोचनया त्वयासौ जनो दृश्यतामालोक्यताम् । न चाप्रत्याख्यानयोग्यो निराकरणयोग्यः । इतीति ।
इति मनोभुवा कंदर्पेण निर्भसितेवाधिक्षिप्तेव । इतियोलमाह - अपेति । ते तवासुभिः प्राणैः सह धैर्या-
वलेपं धीरिमाहंकारमपनयामि दूरीकरोमि । पुनरपीति । तथैव पूर्वोकप्रकारेणैव चन्द्रापीङस्याभिमुखं हृदयं
यस्या एवंभूता पुनरपि बभूव जज्ञे ।
 
उत्कण्ठाविशयेन रतिभावं पुनः मो ( पो ) षयन्नाह
- तदेवमिति । तदेवं पूर्वोक्तप्रकारेणास्तमितमस्ततां प्राप्तं
सत्समाधानं किमनेन चपलेन कार्यमित्यादि निर्वेदरूपं तदेव बलं तस्मात्प्रेमा चन्द्रापीड विषयकः स्मृतिरूपस्तस्या-
वेशेन प्रवेशेना स्वतन्त्रीकृता परायत्तीकृता परवशेव पराधीनेवोत्थायोत्थानं कृत्वा जालवातायनेन जालगवाक्षेपण
तमेव क्रीडापर्वतकमवलोकयन्ती पश्यन्त्यविष्ठदासीत् । पुनर्भावानेवाह-तत्र स्थेति । तत्रस्था वातायनोप-
विष्टा सा तं चन्द्रापीडमानन्दजलेन हर्षाश्रुणा यद्यवधानं तेनोद्विग्नेषोद्वेगं प्राप्तेव स्मृत्यानुभवव्यतिरिक्तज्ञानेन दद-
शलोकयांचकार न चक्षुषा । अङ्गुलिभ्यो गलितो यः खेदस्तस्य परामर्शः संश्लेषस्तेन भीतेव त्रस्तेव चिन्तया
लिलेख, न चित्रतूलिकया । तदाकृतिं भावनया भावितवती, न कूर्चिकया लिखितवतीत्यर्थः । रोमाश्च इति ।
रोमाञ्चो रोमोद्गमस्तेन तिरोधानमाच्छादनं तेन शङ्कितेव हृदयेन चित्तेनालिलिङ्गा श्लेषं कृतवती । न वक्षसा
भुजान्तरेण । तस्येति । तस्य चन्द्रापीडस्य यः संगमः संश्लेषस्तन्त्र कालातिपातः कालविलम्बस्तं सोडमसंहे-
वाशक्तेव गमाय तदालिङ्गनाय मनो नियुक्तवती प्रेषितवती । न परिजनम् । अत्रायमभिप्रायः – आनन्दजलं
व्यवधायकमिति न चक्षुषा तथा दर्शनमित्युद्वेगः । अङ्गुलीगलितस्वेदेन चित्रतूलिका विलिखनस्य विलोपो भयहेतु-
वक्षसालिङ्गनेन च रोमाञ्च एव व्यवधायक इति सर्वथा नानन्तरितालिङ्गनमिति शङ्काहेतुः । मनसः सत्वरगतिं
मत्वा तस्य परिजनस्य तथात्वाभावात्कालातिपातः । अत्र चानन्दजलादीनां स्मृत्यादीनां चातिशया व्यङ्ग्याः ।
नायिकामालम्ब्य भावशबलवमुक्त्वा नायकमाश्रित्य भावशबलत्वमाह - चन्द्रापीडोऽपीति । खच्छन्दं
यत्कादम्बरीहृदयं तद्वदिव द्वितीयं मणिगृहं प्रविश्य शिलातल आस्तीर्णायां विस्तारितायामुभयतः पार्श्वद्वय
 
टिप्प० - 1 पुनरपि ग्रन्थाक्षराणां दुर्दशा क्रियते । 'तदेवम स्तमित प्रतिसमाधानबला बलात्प्रेमावे
इत्येव पाठः । अस्तमितं प्रतिसमाधानबलं धैर्यावलम्बनसामर्थ्य यस्याः, अत एव प्रेमावेशेन बलात् अस्त्र-
तत्रीकृता, अत एव परवशेव उत्थाय, इति तदर्थः । 2 'गमागमाय' इत्येन पाठः । चन्द्रापीडान्तिके
यातायाताय मनो नियुयोज, मनसो द्रुतगामित्वात् ।
 
पाठा० - १ चन्द्रापीडेन तत्परित्याग २ बलावलात् ३ पर्वतम् ४ गमागमाय; गमनागमने ५ स्वच्छम्,
 
५२ का०