कादम्बरी /441
This page has not been fully proofread.
१०८
कादम्बरी ।
[ फकथायाम्-
,
दग्धहृदया पञ्चबाणेन गच्छामि तथा महाश्वताव्यतिकरेण प्रतिज्ञा कृता, तथा प्रिय-
सखीनां पुरो मन्त्रितम्, तथा च केयूरकस्य हस्ते संदिष्टम्, न खलु जानामि मन्दभागिनी
शठविधिना वा, उत्सन्नमन्मथेन वा, पूर्वकृतापुण्यसंचयेन वा, मृत्युहतकेन वा, अन्येन
वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीड: । कोऽपि वा न कदाचिद्दृष्टः, नानुभूतः,
न च श्रुतः, न चिन्तितः, नोत्प्रेक्षितः, मां विडम्बयितुमुपागतः । यस्य दर्शनमात्रेणैव
संयम्य दत्तेव, इन्द्रियैः शरपञ्जरे निक्षिप्य समर्पितेव, मन्मथेन दासीकृत्योपनीतेव,
अनुरागेण निर्यातितेव, गृहीतमूल्येन गुणगणेन विक्रीतेव, हृदयेनोपकरणीभूतास्मि । न
मे कार्य तेन चपलेन' इति क्षणमिव संकल्पमकरोत् । कृतसंकल्पा चान्तर्गतेन 'मिथ्या-
विनीते, यदि मया न कृत्यम्, एष गच्छामि इति हृदयो कम्पचलितेन परिहसितेव
पञ्चबाणेन कंदर्पण दग्धहृदया गच्छामि व्रजामि । तथा महाश्वेताया व्यतिकरेण वृत्तान्तेन मया प्रतिज्ञा
संगरः कृता पत्थुर्न सेवनीय इति तथापि प्रियसखीनामतिवल्लभवयस्यान पुरः पुरतो मन्त्रितमालोचितम् । तथा.
केयूरकस्य हस्ते महाश्वेतायै संदिष्टं संदेशः प्रेषितः तत्रोत्तरभाव्यनर्थापरिज्ञान निमित्तमित्याह - न खल्विति ।
न खलु निश्चयेनाहं मन्दभागिनी एतन्न जानामि नाकलयामि । किं तदित्याह – शठेति । शठो मूर्खो यो
विधिर्ब्रह्मा तेन वा, उत्सन्नो दृप्तो मन्मथः कंदर्पस्तेन वा, पूर्व कृतो योऽपुण्यसंचयः पापभरस्तेन वा, मृत्युलक्षणो
यो हतको हत्याकृत्तेन वा, अन्येनानिर्दिष्टनाम्ना केनापि वा मम विप्रलम्भको वियोगरूपोऽयं चन्द्रापीड आनीतः
प्रापितः । पूर्वपरिचिन्तितं निरस्यन्नाह — कोऽपीति । कोऽप्ययं न कदाचिदृष्टः, नानुभूतः न च श्रुत आकर्णितः,
न चिन्तितो ध्यातः नोत्प्रेक्षितः पुनःपुनर्विलोकितो यन्मां विडम्बयितुं कदर्थनां कर्तुमुपागतः प्राप्तः । य-
स्येति । यस्य चन्द्रापीडस्य दर्शनमात्रेण कारणभूतेन हृदयेन कर्तृभूतेन संयम्य बद्धा दत्तेव समर्पितेवेन्द्रियैः
करणैः करणभूतैः शरपञ्जरे काशघटितगृहे निक्षिप्य हृदयेन समर्पितेव । तथा मन्मथेन कंदर्पेण करणभूतेन
दासीकृत्य हृदयेनोपनीतेव प्रापितेव । तथानुरागेण चन्द्रापीडविषयकेण कृत्वा हृदयेन निर्यातितेव निःसारितेव ।
तथा गृहीतमूल्येनात्तवेतनेन गुणगणेन करणभूतेन हृदयेन विक्रीतेव विक्रयीकृतेव । अतोऽहमुपकरणीभूतों-
पस्करभूतास्मि । यथा गृहोपकरणं यत्र तत्रोपयोगि न तथाहमित्यर्थः । भावशबलत्वं पोषयन्नाह -- नेति ।
तेन चपलेन न मे कार्य प्रयोजनमिति क्षणमिव क्षणसदृशं संकल्पमकरोदप्रणयत् । इयं निर्वेदावस्था । तामुपमर्थ
· पुनरपि रतिभावावस्थामाह- कृतेति । कृतसंकल्पा च विहितसंकल्पा च । अन्तर्गतेनेति चन्द्रा पीडेत्यादि
त्रिष्वपि संबध्यते । त्रयाणामेव हृदये स्थितत्वात्परिहासप्रश्नाभिहितत्वान्नियुक्तानि । तान्येवाह - हृद्येति ।
हृदये य उत्कम्पो ग्लानिविशेषस्तेन चलितेन कम्पितेन चन्द्रापीडेन हे मिथ्याविनीते, यदि मया न कृत्यं त-
दैषोऽहं गच्छामि व्रजामीति कृत्वा परिहसितेव कृतहास्येव । तथा तस्य चन्द्रापीडस्य यः परित्यागस्तस्य सं-
टिप्प० - 1 प्रतारकः । पुनः सर्व ग्रन्थमाधुर्यं चूर्णीकृतवान् दैवहतकः । क्वात्र 'हृदयेन' इति
कर्तृपदम् ? न खलु एकस्य हृदयस्य संयमनकार्ये स्वारस्यम् । अविचारशीलोयमाह - 'इन्द्रियैः शरपञ्जरे
निक्षिप्य समर्पितेव' । इन्द्रियवराकाणां सविधे कीदृशाः शराः ? अत एव सर्वोयं मोहप्रपञ्चः । टीकानुरोधेन--
कविहृदयाभिमतः पाठो निरस्यते, मन्दमतिना कल्पितो दुष्पाठस्तु उपरि स्थाप्यत इति इन्त महान्मे-
ऽपराधः । अस्तु. सहृदयाः एवं किल मूलं पठेयु:- "मां विडम्बयितुमुपागतः, यस्य दर्शनमात्रेणैव
संयम्य दत्तेवेन्द्रियैः, वारपञ्जरे निक्षिप्य समर्पितेव मन्मथेन, दासीकृत्योपनीतेवानुरागेण, गृहीतगुणपणेन
विक्रीतेव हृदयेन, उपकरणीभूतास्मि । " गुणरूपं पणम् (मूल्यम्) गृहीत्वा हृदयेन विक्रीतेव । अत एव
उपकरणीभूतास्मि विक्रेय द्रव्यीभूतास्मि, इत्यर्थः । अन्यत्स्पष्टम् ।
पाठा० - १ दग्धहृदयेन गृहीता गच्छामि; दग्धहृदयेन पञ्चबाणेन न खलु जानामि गृहीता गच्छामि. २ केयूर -
कहस्ते. ३ उपन्यस्तः; उपनतः ४ दर्शनमात्रकेण ५ अनुरागेण गृहीतगुणगणेन विक्रीतेव. ६ अशरणीभूतासि.