This page has not been fully proofread.

४०७
 
कादम्बर्याः स्वविकारैर्मनश्चिन्ता ] पूर्वभागः ।
 
समचिन्तयञ्चैवम्
– 'अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्याद्य मया किं कृतमिदं मोहा-
न्धया। तथा हि, अदृष्टपूर्वोऽयमिति साहसिकतया मया न शङ्कितम् । लघुहृदयां मामयं
कलयिष्यतीति निकया नाकलितम् । कास्य चित्तवृत्तिरिति मैया न परीक्षितम् । दर्शना-
नुकूलाहमस्य नेति वा तैरलया न कृतो विचारक्रमः । प्रत्याख्यान
वैलक्ष्यान्न भीतम् । गुरु-
जनान्न त्रस्तम् । लोकापवादान्नोद्विग्नम् । तथा च महाश्वेतातिदुःखितेति दाक्षिण्यया नापे -
क्षितम् । आसन्नवर्तिसखीजनोऽप्युपलक्षयतीति मन्दया न लक्षितम् । पार्श्वस्थितः परिजनः
पश्यतीति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं विभावयेयुः, किमु-
तानुभूतमदनवृत्तान्ता महाश्वेता सकलकलाकुशलाः सख्यो वा राजकुलसंचारचतुरो वा
नित्यमिङ्गितज्ञः परिजनः । ईदृशेष्वतिनिपुणतरदृष्टयोऽन्तःपुरदास्यः । सर्वथा हतास्मि
मन्दपुण्या । मरणं मेऽद्य श्रेयो न लजाकरं जीवितम् । श्रुत्वैतद्वृत्तान्तं किं वक्ष्यत्यम्बा,
तातो वा गन्धर्वलोको वा । किं करोमि । कोऽत्र प्रतीकारः । केनोपायेन स्खलितमिदं
प्रच्छायामि । कस्य वा चापलमिदमेतेषां दुर्बिनीताना मिन्द्रियाणां कथयामि । क वानेन
 
कृतेति निन्दितेव कुलस्थित्यातिगुवमतिमहतीं लज्जां त्रपामुवाह धारयामास । समिति । एवम वक्ष्यमाणं
समचिन्तयदध्यायत् । एवंशब्दवाच्यमाह — अगणितेति । अगणिताः सर्वाः समग्राः शङ्का यया सा तया ।
किं कुर्वन्त्या । तरलहृदयतां चञ्चलचित्ततां दर्शयन्त्या प्रकाशयन्त्या अद्य मोहान्धया मयेदं किं कृतं किं विहि-
तम् । तदेव दर्शयति — तथा हीति । अदृष्टपूर्वोऽनवलोकितपूर्वोऽयं चन्द्रापीड इति साहसिकतया साहस
क्तया मया न शङ्कितम् । तथा मां लघुहृदयां तुच्छचित्तागयं कलयिष्यतीति निकया निर्लज्जया नाकलितम् ।
तथा कास्य चित्तवृत्तिरिति मया ने परीक्षितं परीक्षा न कृता । तथा दर्शनानुकूला दर्शनयोग्याहमस्य नेत वा
मया तरलया चपलया विचारक्रमो न कृतो न विहितः । तथा प्रत्याख्यानं प्रतिषेधस्तज्जनितं यद्वैलेक्ष्यं तस्मान्न
भीतं न त्रस्तम् । तथा गुरुजनात्पूज्यजनान्न त्रस्तं चकितम् । तथा लोकापवादाजनप्रवादान्नोद्विमं नोद्वेगं प्राप्तम् ।
तथा च महाश्वेतातिदुःखितेति दाक्षिण्यैया गतानुकूलतया नापेक्षितमपेक्षा न कृता । तथासन्नवर्ती समीपवर्ती
सखीजनोऽप्यालीजनोप्युपलक्षयति ज्ञास्यति । भविष्यति वर्तमानः । इति मन्दया मूर्खया न लक्षित न ज्ञा-
तम् । तथा पार्श्वस्थितः समीपस्थः परिजनः परिच्छदः पश्यत्यवलोकयतीति नष्टचेतनया मया न दृष्टम् ।
तथा स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं संभावयेयुः विभावनां कुर्युः । अनुभूतोऽनुभवं नीतो मदनवृत्तान्तो
यया सैवंविधा महाश्वेता सकलकलाकुशलास्तस्याः सख्यो वयस्या वा राजकुले संचारः संचरणं तत्र चतुरो -
sभिज्ञो नित्यमिङ्गितज्ञ इङ्गित शरीरचेष्टा तदभिज्ञः परिजनो वा । ईदृशेषु कार्येष्वतिनिपुणतरा दृष्टयो यासां ता
अन्तःपुरदास्यः । एतासां किमुत भण्यते । एताः पराभिप्रायं विदन्त्येवेति भावः । अतः सर्वथा मन्दपुण्याहं
हतास्मि । मे मम मरणमद्य श्रेयः । लजाकरं त्रपाजनकं जीवितं न श्रेयः । एतद्वृत्तान्तमुदन्तं श्रुत्वाकर्ण्याम्बा
माता, तातः पिता वा गन्धर्वलोकः स्वजनवर्गो वा किं वक्ष्यति कथयिष्यति । अहं किं करोमि किमनु-
तिष्ठामि । कोऽत्रास्मिन्विषये प्रतीकारः प्रतिक्रिया । केनोपायेन प्रपञ्चेनेदं स्खलितं दुश्चेष्टितं प्रच्छादयाम्यावृ-
णोमि । एतेषां दुर्विनीतानामिन्द्रियाणां करणानां चापलं चाञ्चल्यं कस्य वा कथयामि निवेदयामि । व वानेन
 
टिप्प० - 1 लज्जा, वैयाकुली वा । 2 पुंस्त्वमुचितम् । 3 पुनः पपात मन्दभाग्यः । 'निर्दाक्षिण्यया'
दाक्षिण्य (औदार्य ) रहितया मया, इत्यर्थः ।
 
पाठा० -१ अगणितसर्वशङ्काम् २ मोहान्धया हताशया. ३ मां लोकः• ४ मूढया. तरलतया. ६ दुःखिता.
७ निर्दाशिष्यायाः ८ निपुणदृष्टय. ९ एतम्.