This page has not been fully proofread.

शुद्रकवर्णनम् ]
 
पूर्वभागः ।
 
११
 
लम्भाः, छत्रेषु कनकदण्डाः, ध्वजेषु प्रकम्पाः, गीतेषु रागविलसितानि, करिषु मदविकाराः,
चापेषु गुणच्छेदाः, गवाक्षेषु जालमार्गः, शशिकृपाणकवचेषु कलङ्काः रतिकलहेषु दूत-
प्रेषणानि, सार्यक्षेषु शून्यगृहा ने प्रजानामासन् । यस्य च परलोकाद्भयम्, अन्तःपुरिका-
कुन्तलेषु भङ्गः, नूपुरेषु मुखरता, विवाहेषु कॅरग्रहणम्, अनवरतमखानिधूमेनाश्रुपातः,
तुरङ्गेषु कशाभिघातः, मकरध्वजे चापध्वनिरभूत् ।
 
U
 
तस्य च राज्ञः कलिकालभयपुञ्जीभूतकृतयुगानुकारिणी, त्रिभुवनप्रसव भूमिरिव विस्तीर्णा,
मज्जन्मालवविलासिनीकुचतटास्फालन जर्जरितोर्मिमालया जलावगाहनागतजयकुञ्जरकुम्भ-
नान्यत्र । अपराधाभावात् । शास्त्रेष्विति । शास्त्रेषु सिद्धान्तेषु चिन्ता चिन्तनम् । नान्यत्र । समग्रवस्तुनः
सद्भावात् । स्वप्नेविति । खप्रदशायां विप्रलम्भा वियोगाः । नान्यत्र । पुरुषायुषजीवित्वाज्जनस्येति भावः ।
छत्रेष्विति । छत्रेष्वातपत्रेषु कनकदण्डाः सुवर्णयष्टयः । नान्यत्र । कनकदण्डाः दण्डेन सुवर्णग्रहणम् ।
स्वस्वमार्गानतिक्रमेण तासां प्रवर्तनात् । ध्वजेष्विति । ध्वजेषु पताकासु प्रकम्पाः प्रकर्षेण वेल्लनम् ।
नान्यत्र । भीतेरभावात् । गीतेष्विति । गीतेषु गानेषु रामा वसन्तादयः । शास्त्रीयाः देशीया धनाश्रीप्रभृतय-
स्तेषां विलसितानि चेष्टितानि । नान्यत्र रागाः क्रोधादयस्तेषां विलसितानि हननादिरूपाणि । तादृग्राग-
द्वेषाभावात् । करिध्विति । करिषु हस्तिषु मदो दानं तस्य विकारा विकृतयः । नान्यत्र मदोऽहंकारस्तस्य
विकारास्तत्तद्विचेष्टितानि । मदो रागस्तस्य विकारा इति वाँ । सर्वदा गुरुवचनामृतास्वादमेदुरितमान•
सत्वात् । चापेष्विति । चापेषु धनुःषु गुणस्य ज्यारूपस्य छेदः । नान्यत्र गुणस्य शौर्यादे-
विच्छेदः । सर्वदा सदाचारित्वात् । गवाक्षेष्विति । गवाक्षेषु वातायनेषु जालमार्गा वातागमनहेतवो
जालिकाः । नान्यत्र कुवेणीस्थापनपन्थानः । सर्वदाऽभयदानप्रवृत्तत्वात् । शशीति । राशी चन्द्रः,
कृपाणं खङ्गम्, कवचः संनाहः, एतेषां द्वन्द्वः । एषु कलङ्काश्चिह्नानि । नान्यत्र कुलमालिन्यादिहेतवो
व्यभिचारादिदोषाः । रतिकलहेष्विति । रतिकलहेषु कामकेलिषु विग्रहेषु दूतप्रेषणानि संचारकगम-
नानि नान्यत्र । सर्वदा प्रबलविरोधिनोऽभावात् । सार्यक्षेष्विति । सारयः खेलिन्यः, अक्षाः पाशकाः, तेषु
शून्यगृहाः शून्यस्थानानि । नान्यत्रोद्वसवगृहाणि । राजदेयद्रव्यजनितपीडाभावात् । यस्य चेति । यस्य राज्ञः ।
अभूदिति क्रियान्वितम् । कर्मीभूतमाह - भयमिति । परलोकादेव जन्मान्तरादेव तत् । न तु शत्रु+
लोकात् । तथा यस्य राज्ञः । अन्तःपुरे भवा आन्तः पुरिकाः । भवार्थे ठक् तासां नायिकानां कुन्तलेषु
केशेषु भङ्गो वक्रता । नान्यत्र । तथा नूपुरेषु हंसकेषु मुखरतानुरणनरूपा । न तु प्रजासु मौखर्य
वाचालत्वम् । विवाहेष्विति । विवाहेषूपयामेषु करग्रहणं हस्तग्रहणम् । न तु प्रजासु करो राजदेयद्रव्यं
तद्ब्रहः । अनवरतेति । अनवरतं निरन्तरं मखाग्निधूमेन यज्ञाग्निधूमेनाश्रुपातो नेत्रजलच्युतिः । न तु
शोकादिना । तुरङ्गेति । तुरङ्गेष्वश्वेषु कशा चर्मदण्डस्तस्याभिघातः प्रहारः ! नान्यत्र । मकर इति ।
मकरध्वजे कंदर्पे चापस्य धनुषो ध्वनिः । अन्यत्र न भयाभावात्तदारोपणमिति भावः ।
 
तस्येति । तस्य च राज्ञो राजधान्यासीदित्यन्वयः । तां विशेषयन्नाह – कलीति । कलिकालाद्यद्भ्यं
त्रासस्तस्मात्पुञ्जीभूतं समुदायीभूतं यत्कृतयुगं सत्ययुगं तदनुकरोतीत्येवंशीला या सा । विस्तीर्णेति ।
विस्तीर्णा विपुला । केव । त्रिभुवनेति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य प्रसवभूमिरुत्पत्तिस्थलं
धरित्री तद्वदिव । परीति । परिगता संगता । कया । वेत्रवत्या नद्या । अथ नदीं विशिनष्टि - मज्ज•
निति । मजन्स्यः स्नान्त्यो या मालवविलासिन्योऽवन्तिकामिन्यस्तासां यानि कुचतटानि पयोधरस्थलानि
 
पाठा
 
३-१ संप्रेषणानि. २ प्रजानां. ३ यस्यान्तः पुरिका. ४ अलकेषु. ५ करपीडनम् ६ अनवरतप्रवृत्त.
७ तुरगेषु. ८ उदभूत्. ९ अनुसारिणी. १० आयात; अवतारित.