This page has not been fully proofread.

४०६
 
कादम्बरी ।
 
[ कथायाम् -
 
निर्गत्य विनोदनार्थं वीणावादिनीभिश्च वेणुवाद्यनिपुणाभिश्च गीतकलाकुशलाभिश्च दुरोदर-
क्रीडारागिणीभिश्चाष्टापद परिचयचतुराभिश्च चित्रकर्मकृतश्रमाभिश्च सुभाषितपाठिकाभिश्च
कादम्बरीसमादिष्टप्रतीहारीप्रेषिताभिः कन्याभिरनुगम्यमानः पूर्वदृष्टेन केयूरकेणोपदिश्यमा-
नमार्ग: क्रीडापर्वतमणिमेन्दिरमगात् ।
 

 
गते च तस्मिन्गन्धर्वराजपुत्री विसर्ज्य सकलसखीजनं परिजनं च परिमितपरिचारिका-
भिरनुगम्यमाना प्रासादमारुरोह । तत्र च शयनीये निपत्य दूरस्थिताभिर्विनयनिभृताभिः
पँरिचारिकाभिर्विनोद्यमाना कुतोऽपि प्रत्यागतचेतना चैकाकिनी तस्मिन्काले 'चपले, किमिद्-
मारब्धम्' इति निगृहीतेव लज्जया, 'गन्धर्वराजपुत्रि, कथमेतद्युक्तम्' इत्युपालब्धेव विन-
येन, 'अयमसावव्युत्पन्नो बालभावः क गतः' इत्युपहसितेव मुग्धतया, 'स्वैरिणि, मा कुरु
यथेष्टमेकाकिन्यविनयम्' इत्यामन्त्रितेव कुमारभावेन, 'भीरु, नायं कुलकन्यकानां क्रमः' इति
गार्हतेव महत्त्वेन, 'दुर्बिनीते, रक्षाविनयम्' इति तर्जितेवाचारेण, 'मूढे, मंदनेन लघुतां
नीतासि' इत्यनुशासितेवाभिजात्येन, 'कुतस्तवेयं तैरलहृदयता' इति धिकृतेव धैर्येण, 'स्वच्छ-
न्दचारिणि, अप्रमाणीकृताहं त्वया' इति निन्दितेव कुलस्थित्यातिगुर्वी लज्जामुवाह ।
 
द्वाररक्षानियुक्ता तथा प्रेषिताभिः प्रतीताभिर्वीणावादिनी भिर्वेणुवाद्यं वंशवाद्यं तत्र निपुणाभिर्दक्षाभिगतं गानं त
लक्षणा या कला विज्ञानं तत्र कुशलाभिर्दक्षाभिः । दुरोदरेति । दुरोदरक्रीडा द्यूतक्रीडा तस्यां राग अनुरागो
विद्यते यासां ताभिः । अष्टापदः शारिफलं तत्र यः परिचयस्तस्मिंश्चतुराभिः । चित्रेति । चित्रकर्मालेख्यकर्म तन्न
कृतो विहितः श्रमो याभिः । सुभाषितानि सूक्तानि तेषां पाठिकाभिः । एवंविधाभिः कन्यकाभिरनुगम्यमानः ।
अत्र कलानां भिन्नभिन्नाश्रयत्वसूचनार्थं चकारः । कीदृशो नृपश्चन्द्रापीडः । पूर्वदृष्टेन केयूरकेणोपदिश्यमानः
प्रदर्श्यमानो मार्गः पन्था यस्य सः क्रीडापर्वतमणिमन्दिरमगाद्गतवान् ।
 
भावशबलानि व्यञ्जयन्नाह - गते चेति । तस्मिंश्चन्द्रापीडे गते सति गन्धर्वराजपुत्री कादम्बरी सकलस-
खीजनं समप्रवयस्याजनं परिजनं परिच्छदलोकं च विसर्ज्य गृहे गम्यतामित्यादिश्य परिमितपरिचारिकाभिः
स्तोकपरिच्छदस्त्रीभिरनुगम्यमाना प्रासादो देवभूपानां गृहं तमारुरोहारूढवती । तत्र मणिमन्दिरे शयनीये
शय्यायां निपल्य पतनं कृत्वा विरहव्याकुलचित्तत्वेन शयनाभावाद्दूरस्थिताभिर्दविष्ठदेशावस्थायिनीभिर्विनयनिभू-
ताभिर्मर्यादावतीभिः एवंविधाभिः परिचारिकाभिर्विनोद्यमाना विनोदविषयीक्रियमाणा कुतोऽपि प्रत्यागता पश्चा-
दागता चेतना यस्याः सा । चन्द्रापीडदर्शनान्मन्मथेन चैतन्यमपहृतं तत्प्रयागतमिति भावः । सैवंविधैका किनी
तस्मिन्काले स्वात्मानं संबुद्ध्याह – चपलेति । हे चपले चञ्चले, किमिदमारब्धं प्रस्तुतमिति लज्जया त्रपया
निगृहीतेव निरुत्तरीकृतेव । हे गन्धर्वराजपुत्रि, कथमेतत्पूर्वोक्तं युक्तं न्याय्यमित्युपालब्धेव विनयेन । उपालम्भ-
स्तिरस्कारविशेषः । अयमसौ अव्युत्पन्नो बालभावः शिशुभावः क गत इत्युपहसितेव हास्यगोचरीकृतेव मुग्ध-
तया। हे खैरिणि स्वेच्छाचारिणि, एकाकिनी यथेष्टमविनयं मा कुर्वित्यामन्त्रितेव निमंत्रितेव कुमारभावेन बाल-
भावेन । हे मीरु, कुलकन्यकानामयं न क्रम इति गर्हितेव निन्दितेव महत्त्वेन गरिम्णा । दुर्विनीते, अविनयं रक्षेति
तर्जितेवाचारेण । हे मूढे, मदनेन कंदर्पेण लघुतां तुच्छतां नीतासि प्रापितासीत्यनुशासितेवानुशिक्षितेवाभिजा-
त्यने॑ भूमिकानुसारितया । कुतस्तवेयं तरलहृदयतेति धिक्कृतेव धैर्येण । हे स्वच्छन्दचारिणि, अहं त्वयाऽप्रमाणी-
टिप्प० -1 अबोधः, यौवनकालिकशृङ्गारविषयकभावानभिज्ञः । 2 धिङ् मन्दम् ! आमन्त्रणपूर्वक-
मुपदिष्टेव, इत्यर्थः । 3 कौलीन्येन ।
 
पाठा०—१ विनोदार्थम् २ गृहम् ३ सकलं. ४ ततः ५ अदूरस्थिताभिः ६ विधृताभिः ७ परिचयचतुरा-
भिरुपास्यमानापि ८ लघुतां नीतासि मदनेनेति शापितेव. ९ तरलता.