कादम्बरी /438
This page has not been fully proofread.
कादम्बर्याः स्वविकारजा चिन्ता ]
पूर्वभागः ।
a
राजपुत्र, निपुणेयम्, न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि बुध्यत एवैता-
वतीर्वक्रोक्तीः । इयमपि जानात्येव परिहासजल्पितानि । अस्या अपि राजकुलसंपर्कचतुरा
मतिः । विरम्यताम् । अभूमिरेषा भुजङ्गभङ्गिभाषितानाम्, इयमेव हि वेत्ति मञ्जुभाषिणी
कालं च कारणं च प्रमाणं च विषयं च प्रस्तावं च कोपप्रसादयोः' इति ।
अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत्— 'आयुष्मति, देवश्चित्ररथो देवी च मदिरा
त्वां द्रष्टुमाह्वयते' इति । एवमभिहिता च गन्तुकामा 'सखि, चन्द्रापीड: वास्ताम्' इति
कादम्बरीमपृच्छत् । असौ तु ननु पर्याप्त मेवानेक स्त्री हृदय सहस्रावस्थानमनेनेति मनसा
विहस्य, प्रकाशमयदत् - 'सखि महाश्वेते, किं त्वमेवमभिद्धासि । दर्शनादारभ्य शरीरस्या-
प्यहं न विभुः, किमुत भवनस्य परिजनस्य वा । यत्रासौ रोचते प्रियसखीहृदयाय वा तत्राय-
मास्ताम्' इति । तच्छ्रुत्वा मेहाश्वेतावदत् - 'अत्रैर्वं त्वत्प्रासादसमीपवर्तिनि प्रमदवने क्रीडा-
पर्वतकमणिवेशमन्यास्ताम्, ' इत्यभिधाय गन्धर्वराजं द्रष्टुं ययौ । चन्द्रापीडोऽपि तँयैव सह
त्वयान्येन वा त्वब्यतिरिक्तपुंसा लोलापि चपलापि प्रतारयितुं न शक्यते न पार्यते । एषेति । एतावतीर्वक्रोक्ती-
रेषापि बुध्यते जानाति । इयमपि परिहासजल्पितानि जानात्येव । अस्या अपि राजकुलेन संपर्कः संबन्धस्तेन
चतुरा चार्थयुक्ता मतिर्बुद्धिः । अतो विरम्यतां मौनं क्रियताम् । नर्मालापभाषणादिति शेषः । भुजंगाः कामिन-
स्तेषां भङ्गिभाषितानां बक्रोक्तीनामेषाऽभूमिरस्थानम् । इयमेव हि मञ्जुभाषिणी मनोज्ञालापिनी कोपप्रसादयोः कालं
समयं कारणं निमित्तं प्रमाणं तद्व्यवस्थापकं पञ्चावयवं वाक्यं विषयं गोचरं प्रस्तावमवसरं च वेत्ति जानातीति ।
अत्रान्तरे चेति । अस्मिन्समये कञ्चुक्यागय महाश्वेतामित्यवोचदित्यब्रवीत् । इतिशब्दवाच्यमाह -
आयुष्मतीति । हे आयुष्मति, देवः पूज्यश्चित्ररथाभिधो नृपो देवी च राज्ञी मदिराभिधा त्वां भवतीं द्रष्टुं
विलोकयितुमाह्वयत आह्वानं करोति । एवंप्रकारेणाभिहितोक्ता सती गन्तुकामा इति कादम्बरीमपृच्छत् । इतीति
किम् । हे सखि कादम्बरि, चन्द्रापीडः क्कास्तां क्व तिष्ठतु । असौ त्विति । असौ कादम्बरी मनसा विहस्येति
प्रकाश प्रकटमवदत् । इतिद्योत्यमाह
-- पर्याप्तेति । अनेनं कृत्वा पर्याप्तमेव परिपूर्णमेव । स्वेर्ष्या प्रकटय-
न्त्याह — अनेकेति । अनेका याः स्त्रियस्तासां हृदयानि चेतांसि तेषां सहस्रं तल्लक्षणमवस्थानमावासः । अवस्था-
नावस्थितिभावस्य समानत्वादेतन्मनोऽन्यासु लग्नमिति भावः । नवकपोलप्रतिबिम्बसंक्रान्तिवशात्प्रागेव दर्शि-
तमित्यनुनयमाह - किं त्विति । त्वं किमभिदधासि किं कथयसि । दर्शनादारभ्यावलोकनात्प्रभृति शरीर-
स्यापि देहस्याप्यहं न विभुः । देहं धारयितुं न समर्थ इत्यर्थः । स भवनस्य परिजनस्य वा किमुत भण्यते ।
यत्रेति । यस्मिन्स्थळेऽसौ चन्द्रापीड: । पुनरार्यामाह - प्रियेति । प्रियसखीहृदयाय रोचते रुचिविषयीभ-
वति तत्रायमास्तां तिष्ठतु । एतत्पूर्वोक्तं श्रुत्वाकर्ण्य महाश्वेतावददवोचत् । अत्रैव त्वत्प्रासादसमीपवर्तिनि प्रम
दवनेऽन्तः पुरोपबने क्रीडापर्वतकस्य मणिवेश्मनि रत्ननिर्मितगृह आस्तां तिष्ठत्वित्यभिधायेत्युक्त्वा गन्धर्वराजं
द्रष्टुं ययौ गतवती । चन्द्रापीडोऽपि तयैव महाश्वेतयैव सह निर्गत्य बहिरागत्य कादम्बर्या समादिष्टा या प्रतीहारी
टिप्प० 1 स्त्रीत्वेन अगभीरबुद्धिरपि। 2 वस्तुतस्तु - 'न पर्याप्तमनेक स्त्रीहृदयसहस्रावस्थानेन ?" इत्येव
पाठः । स्त्रीहृदयसहस्ररूपेण अवस्थितिस्थानेन किम् न पर्याप्तम् ? अर्थात् हृदयसहस्ररूपं स्थानमस्य किं न
मभेष्टं जातमिति काकुः । भावे प्रत्ययः । 3 समर्भेत्याबागः ।
B
पाढा० -१ न पर्याप्तमनेक स्त्री हृदयसहस्त्रावस्थानेन. २ अध्ययमेव प्रभु: ३ भवनस्य.
तदत्रैव. ६ च ७ तया सहैव.
४ अस्मै ५ महाश्वेता