This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
श्रूयत
एवैतद्राजकुले, कर्णपरम्परया परिजनोऽध्येवमामन्त्रयते, बहिरपि जनाः कथयन्त्येवम्,
दिगन्तरेष्वप्ययमालापो वर्तत ऐव, अस्माभिरण्येतदाकर्णितमेव, यथा किल देव्याः कादम्बर्या-
स्ताम्बूलदायिनीं तैमालिकां कामयमानः परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि
न वेत्तीति । तदयमास्तां तावद्वामाचारः परित्यक्तनिजकलत्रो निक्षेपोऽनया सह, देव्यास्तु
कादम्बर्याः कथमेतद्युक्तं यन्न निवारयतीमां चपलां दुष्टदासीम्, अथवा देव्यापि कथ
निःस्नेहता प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहंगाय प्रयच्छन्त्या ।
किमिदानीमियं करोतु, यदेतत्सापत्न्यकरणं नारीणां प्रधानं कोपकारणम्, अग्रणीर्विरागहेतुः,
परं परिभवस्थानम् । इयमेव केवलमतिधीरा, यदनयानेन दौर्भाग्यगरिम्णा जातवैराग्यया
विषं ता नास्वादितम्, अनलो वा नासादितः, अनशनं वा नाङ्गीकृतम् । नोर्कमपरमस्ति
योषितां लघिम्नः कारणम्, यदि चेयमीहशेऽप्यपराधेऽनुनीयमानानेन प्रत्यासत्तिमेष्यति, तदा
धिगिमाम्, अलमनया, दूरतो वर्जनीयेयमभिभवनिरैस्या, क एनां पुनरालापयिष्यति, को
वावलोकयिष्यति, को वास्या नाम ग्रहीष्यति' इत्येवमभिहितवति तस्मिन्सर्वास्ताः सह काद-
म्बर्या क्रीडालापभाषिता जहसुरङ्गनाः । परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद – 'धूर्त
 
,
 
१४०४
 
कर्णपरम्परया परिजनोऽपि सेवकजनोऽप्येवमामन्त्रयते । एवं कथयतीत्यर्थः । बहिरपि जना एवं कथयन्ति ।
दिगन्तरेष्वपि परदेशेष्वप्ययमालापो वर्तत एव । अस्माभिरप्येतत्पूर्वोक्तमाकर्णितमेव श्रुतमेव । तदेव दर्शयन्नाह -
यथेति । किलेति सत्ये । देव्याः कादम्बर्यास्ताम्बूलदायिनीं तमालिकां कामयमानः प्रार्थयमा परिहासनामा
शुको मदनपरवशो गतान्यतीतान्यपि दिनान्यहानि न वेत्ति न जानाति । तद्यमिति । तदिति हेत्वर्थे ।
अयं वामाचारो विरुद्धाचरणः परित्यक्तनिजकलत्रो नित्रपो निर्लज्जस्तया सह तावदास्तां तिष्ठतु, देव्यास्तु काद-
म्बर्याः कथमेतद्युक्तं न्याय्यम् । इमां चपलां चञ्चलां दुष्टदासीं यन्न निवारयति न निषेधति । अथवेति पक्षान्तरे
देव्यापि प्रथममेव निःस्नेहता निष्प्रेमता कथितैवोक्तैव । किं कुर्वन्त्या देव्या । इमां वराकीं कालिन्दीमीदृशाय
दुर्विनीताय विहंगाय प्रयच्छन्त्या प्रददत्या । किमिदानीमियं करोतु । न किमपि कर्तुं समर्था । यद्यस्मा-
द्धेतोरेतत्सापत्नयकरणं नारीणां स्त्रीणां प्रधानं मुख्यं कोपकारणम् । अग्रणीर्मुख्यो विरागस्य विरक्तताया हेतुः ।
परं परिभवस्थानं मुख्यं पराभवगृहम् । इयमेव कालिन्द्येव केवलमतिधीरा । अस्मिन्नर्थे हेतुमाह - यदिति ।
यद्यस्मात्कारणादनया कालिन्या अनेन दौर्भाग्यगरिम्णा शुकेन कृत्वा जातमुत्पन्नं वैराग्यं यस्याः सैवंविधया
विषं नास्वादितं न भक्षितम् । अनलो वह्निर्वा नासादितो न गृहीतः । अनशनं प्रायो वा नाङ्गीकृतम् । योषितां
लघिम्नः कारणं नह्येकैमपरमस्ति । यदि चेति इयं कालिन्दीदृशेऽप्यनुनीयमाना प्रसन्नीक्रियमाणा ।
अनेन शुकेन प्रत्यासतिं संबन्धमेष्यति गमिष्यति तदेमां धिक् । अनयालं कृतम् । दूरतो वर्जनीया त्याज्ये-
यम् । अभिभवेन निरस्या दूरीकरणीया । क एनां पुनरालापयिष्यति । को वावलोकयिष्यति । को वास्याः
कालिया नामाभिधानं ग्रहीष्यतीत्येवं पूर्वोक्तप्रकारेणाभिहितवति कथितवति तस्मिन्राज्ञि सर्वास्ता अङ्गनाः
कादम्बर्या सह जहसुर्हसितवत्यः । कीदृश्यः । क्रीडालापेन नर्मालापेन भाषितौ वासिताः । परीति । परि-
हासः शुकस्तु तस्य चन्द्रापीडस्य नर्मभाषितमाकर्ण्य श्रुत्वा जगादोवाच । हे धूर्त राजपुत्र, निपुणाभिज्ञेयम् ।
 
2
 
टिप्प0
– 1 अनेन दौर्भाग्यस्य गरिम्णा ( गुरुतया ), शुकविशेषणं तु प्रमादः । 2 ' एवंविधम्'
इत्येव पाठः । एवंविधमपरं नास्तीति तदर्थः । 3 'भाविताः' इत्येव । नर्मालापेन भाविताः संजाततदनु-
गुणभावोदया इत्यर्थः ।
 
पाठा०-
- १ अप्येवं मन्त्रयति एवम्॰; अपि मन्त्रयते बहि;. २ एवम् ३ वाहिनीं. ४ तरलिकाम् ५ नित्रपया.
६ अतिनि: स्नेहता. ७ इयं तपस्विनी ८ एवंविधम् ; एवम् ९ तेन सह. १० निरस्याम् ११ भाविता.
 
.
 
D
 
.