This page has not been fully proofread.

शुकसारिकामुखेन कौतुकारम्भः ]
 
पूर्वभागः ।
 
४०३
 
Kn
 
डुरानुकारिणा चक्षुपुटेन मरकतद्युतिपक्षतिना मैन्थरगतेन शुकेनानुबध्यमाना, कुमुदकेसर-
पिञ्जरतया चरणयुगलस्य चम्पककलिकाकारतया च मुखस्य कुवलयदलनीलतया च पक्षधु-
तीनां कुसुममयीवागत्य सारिका सक्रोधमवादीत् – 'भर्तृदारिके कादम्बरि, कस्मान्न निवार-
यस्येनमलीकसुभगाभिमानिनं दुर्विनीतं मामनुबघ्नन्तं विहंगापदम् । यदि मामनेन परिभूय-
मानामुपेक्षसे, ततोऽहं नियतमात्मानमुत्सृजामि । सत्यं शपामि ते पादपङ्कजस्पर्शेन' इत्ये-
बमभिहिता च तया कादम्बरी स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता 'किमियं
वदति' इति मदलेखां पप्रच्छ । सा चौकथयत्— 'एषा भर्तृदुहितुः सखी कादम्बर्या: कालि
म्दीति नान्ना सारिका, ऎतस्य परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जाया-
पदं ग्राहिता । अद्य चायमनया प्रत्यूपसि कादम्बर्यास्ताम्बूलकरङ्क वाहिनी मिमां तैंमालिका-
मेकाकिनी किमपि पाठयन्दृष्टो यतः ततःप्रभृति संजातेय कोपपराखी नैनमुपसर्पति,
नालपति, न स्पृशति, न विलोकयति, सर्वाभिरस्माभिः प्रसाद्यमानापि न प्रसीदति' इति ।
एतदाकर्ण्य स्फुटस्फुरितकपोलोदरश्चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत्
-- 'अस्त्येषा कथा,
 

 
A
 
*
 
"
 
त्रोटिसंपुटेन कृत्वा विद्रुमाङ्कुरं प्रवालप्ररोहमनुकरोतीत्येवंशीलः स तेन । मरकतेति । मरकतस्य द्युतिरिव
द्युतिर्ययोरेवंविधे पक्षती पक्षमूले यस्य सः । तेन मन्थरं सालसं गतं यस्य स तेन । अथ सारिकां विशिनष्टि -
कुमुदेति । कुमुदानां केसरं तेन पिञ्जरः पीतरक्तस्तस्य भावस्तत्ता तया चरणयुगलस्याङ्घ्रियुग्मस्य । चम्प-
केति । चम्पकस्य हेमपुष्पकस्य कलिका कोरकस्तस्या आकार आकृतिर्यस्य तस्य भावस्तत्ता तया मुखस्यान-
नस्य, कुवलयदलान्युत्पैलखण्डास्तद्वन्नीलस्तस्य भावस्तत्ता तया, पक्षद्युतीनां छदकिरणानाम् । अत एवाह - कु
सुममयीव पुष्पमयीव । अन्वयस्तु प्रागेवोक्तः । किमुवाचेत्याह - भर्तृदेति । हे भर्तृदारिके कादम्बरि, कस्मा-
द्धेतोरेनं शुकं न निवारयसि न निराकरोषि । अलीकं मिथ्या सुभगस्य सौभाग्यस्याभिमानोऽहंकारो विद्यते
यस्य स तम् । दुर्विनीतं शूकलम् । किं कुर्वन्तम् । मामनुबघ्नन्तमनुरोधं कुर्वन्तम् । तथा विहंगेषु पक्षिष्वपसद-
मधमम् । यदीति । यदि मामनेन शुकेन परिभूयमानां पराजितामुपेक्षस उपेक्षां करोषि ततोऽहं नियत-
मात्मानमुत्सृजामि । भविष्यति वर्तमाना । त्यक्ष्यामीत्यर्थः । सत्यं स्यात्तथा शपामि शपथं करोमि । केन ।
ते तव पादपङ्कजस्पर्शेन । तवाङ्गिस्पर्शपूर्वकमित्यर्थः । तयेत्येवमभिहितोक्ता कादम्बरी स्मितमकरोत् । अवि-
दितेति । अविदितोऽज्ञातो वृत्तान्त उदन्तो यस्याः सैवंविधा तु महाश्वेता किमियं सारिका वदतीति मदलेखां
पप्रच्छ । सा चेति । सा मदलेखा इत्यकथयदित्यवोचत् किमुवाचेत्याह - एषेति । एषा भर्तृदुहितुः काद-
म्बर्याः कालिन्दीति नाम्ना सखी सारिका एतस्य परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं
ग्राहिता स्त्रीत्वं प्रापिता । अद्य चेति । अद्य दिने चानया सारिका ( कथा ) प्रत्यूषसि प्रभाते कादम्बर्यास्ताम्बूलकर-
ङ्कवाहिनीमेकाकिनीमिमां तमालिकां किमपि पाठयन्दृष्टः । ततःप्रभृति तद्दिनादारभ्य संजातेय यस्याः सा कोप-
पराङ्मुखी क्रोधावाङ्मुखी नैनं शुकमुपसर्पति समीपे न गच्छति, नालपति न ब्रवीति, न स्पृशति न स्पर्श करोति,
न विलोकयति नेक्षते, सर्वाभिरस्माभिः प्रसाद्यमानापि प्रसन्नीक्रियमाणापि न प्रसीदति न प्रसन्नीभवति । इत्येत-
दाकर्ण्य श्रुत्वा । स्फुटमिति । स्फुटं स्पष्टं स्फुरितं स्पन्दितं कपोलयोरुदरं यस्यैवंविधश्चन्द्रापीडो मन्दं मन्दं
विहस्य । स्थितं कृत्वेत्यर्थः । इत्यब्रवीदित्यवोचत् । अस्तीति । एषा कथास्ति । एतद्राजकुले श्रूयते एवमाकर्ण्यते
 
टिप्प० – 1 "नुकारिचञ्जुपुटेन' इत्येव पाठः सुन्दरः । 2 धिङ् मन्दम् । कुमुदकेसरवत् पीततया ।
3 उत्पलं श्वेतवर्ण प्रसिद्धम् अत एव नीलकमलेति वाच्यम् । 4 हास्योदयात् ।
 
"
 
पाठा-
D
 
4
 
- १ अनुकारिचञ्च. २ मन्थरगमनेन शुकेनानुगम्यमाना. ३ अतिदुर्विनीतम् ४ विहंगमापसदम् ५ तु.
६ इदमस्य च ७ तरलिकाम् .