कादम्बरी /435
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
प्रसारितवान्पाणिम् । तत्र च सा तत्कालसुलभविलासदर्शनकुतूह लिभिरिव कुतोऽप्यागत्य
सर्वर सैरधिष्ठिता, तेनानिबद्धलक्ष्यतया शून्यप्रसारितेन चन्द्रापीडहस्तान्वेषणायेव पुरःप्रव-
र्तितनखांशुनिवहेन वेपथुचलितवलयावलीवाचालेन संभाषणमिव कुर्वता हस्तेन स्वेदसलिल -
पातपूर्वकम् 'गृह्यतामयं मन्मथेन दत्तो दासजनः' इत्यात्मानमिव प्रतिग्राहयन्ती, 'अद्यप्रभृति
भवतो हस्ते वर्तते' इति जीवितमिव स्थापयन्ती ताम्बूलमदांत् । आकर्षन्ती च करकिसलयं
भुजलतानुसारेण स्पर्शतृष्णागतमनङ्गशरभिन्नमध्यं हृदयमिव पतितमपि रत्नवलयं नाज्ञा-
सीत् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् ।
अथ सहसैव त्वरितगतिः त्रिवर्णरागमिन्द्रायुधमिव कुण्डलीकृतं कण्ठेन वहता विद्रुमा-
४०२
धारयन्तम् । शृङ्गारं पोषयद्गान्धर्वविषाहन्या येन पाणिग्रहणमप्याह – तत्र चेति । तस्मिन्काले सा कादम्बरी
तस्मै चन्द्रापीडाय हस्तेन ताम्बूलमदात् । कीदृशी । सर्वरैसैः शृङ्गारादिभिः कुतोऽप्यनिर्दिष्टस्थानादप्यागत्याधि
ष्ठिताश्रिता। क़ीदृशै रसैः । तत्कालेति । तस्मिन्काले सुलभाः सुप्रापा विलासास्तेषां दर्शनं तत्र कुतूहलिभि-
रिव कौतुकभिरिव । हस्तं विशेषयन्नाह - तेनेति । हस्तेनानिबद्धं न दृग्विषयीकृतं यलक्ष्यं वेध्यं तेन शून्यं
प्रसारितेन विस्तारितेन चन्द्रापीडस्य यो हस्तस्तस्यान्वेषणं गवेषणं तदर्थमिव पुरोऽग्रे प्रवर्तितः प्रचलितो
मखानां पुनर्भवानामंशुनिवहो यस्य तेन । वेपथुरिति । वेपथुः कम्पस्तेन चलिता कम्पिता या वलयानां
पारिहार्याणामावली श्रेणी तया वाचालेन मुखरेण । शब्दसाम्यमाह - संभाषणमिव जल्पनमिव कुर्वत । विद-
ध॑ता। स्वेदेति। स्वेदसलिलं घर्मजलं तस्य पातः पतनं तत्पूर्वकं यथा स्यात्तथेति क्रियाविशेषणम् । किं
कुर्वन्ती । इत्यात्मानमिव प्रतिग्राहयन्ती ग्रहणं कारयन्ती । इतिशब्दद्योत्यमाह - - गृह्यतामिति । अयं
मल्लक्षणो दासजनो मन्मथेन कंदर्पेण दत्तोऽर्पितो गृह्यतां स्वीक्रियताम् । पुनः किं कुर्वन्ती । इति जीवितमिव
प्राणितमिव स्थापयन्ती । इतिशब्दद्योत्यमाह - अद्येति । अद्यप्रभृत्यद्य दिनादारभ्य भवतस्तव हस्ते वर्तते ।
त्वदैधीनेत्यर्थः । अन्वयस्तु प्रागेवोक्तः । पुनः किं कुर्वन्ती । ताम्बूलप्रदानानन्तरं करकिसलयं हस्तपल्लवमाकर्षन्त्या-
कर्षणं कुर्वन्ती च पतितमपि स्रस्तमपि रत्नवलयं मणिकटकं नाज्ञासीन्न ज्ञातवती । एतेन तन्मयत्वं सूचितम् ।
घलयस्य लोहितमणिनिर्मितत्वसाम्यादाह - भुजेति । भुजलता बाहुलता तदनुसारेण तन्मार्गेण स्पर्शतृष्णा
तयागतं प्राप्तमनङ्गशरेण कंदर्पबाणेन भिन्नं मध्यं यस्यैवंविधं हृदयमिव । गृहीत्वेति । अपरं तद्व्यतिरिक्तं
ताम्बूलं नागवल्लीदलं महाश्वेतायै प्रायच्छददात् ।
-
अथेति । ताम्बूलप्रदानानन्तरं सहसैवागत्य सारिका पीतपादा सक्रोधं यथा स्यात्तथावादीदवोचत् । की-
दृशी । त्वरिता शीघ्रा गतिर्यस्याः सा । पुनः कीदृशी । शुकेन कीरेणानुबध्यमाना निरुध्यमाना । अथ शुकं
विशेषयन्नाह – वहतेति । कण्ठेन निगरणेन वहता धारयता । कम् । त्रिवर्णरागम् । किमिव । इन्द्रायुध-
मिवाखण्डलधनुरिव कुण्डलीकृतं वर्तुलीकृतम्। जातिवर्णनमेतत् । एतदेव विवृणोति - विद्रुमेति । चखुपुटेन
टिप्प० – 1 कादम्बरीदर्शन कौतुकिभिः सर्वर सैः सर्वविघैरानन्दैराश्रित्यर्थः ( ताम्बूलदानसमये न
केवलं स्पर्शविषयक एवानन्दः, मनःप्रमदप्रसूता अन्येऽप्यानन्दा आसन्नित्याशयः ) । शृङ्गारादिभिरिति
ध्याख्यानं तु जाड्यमेव, तस्मिन्क्षणे नायिकायां रौद्रबीभत्सा दिसंबन्धस्यासंभवात्, अनौचित्यात्, रसस्य
स्वशब्देनोक्तिदोषस्य बाणसदृशे दुरापास्तत्वाच्च । 2 लजावशात् चन्द्रापीडहस्तस्य लक्ष्यमबध्वा तच्छ्रन्ये
स्थाने प्रसारितेन ( हस्तेन ) । 3 स्वदधीनम् ( जीवितम् ) इत्यर्थः । 4 प्रसारितां भुजलतामनुसृत्य,
तया सहेत्यर्थः ।
पाठा० -१ तत्कालविलास, २ अधिष्ठितेनान्यनिबद्धलक्षशून्य ३ आकर्षयन्ती.