कादम्बरी /434
This page has not been fully proofread.
चन्द्रापीडदर्शने कादम्बर्या भावावेशः ] पूर्वभागः ।
इत्युक्ता च किंचिद्विवर्तितावनमितमुखी शनैरव्यक्तमिव 'प्रियसखि लज्जेऽहम् । अनुपजात-
परिचयाप्रागल्भ्येनानेन, गृहाण । त्वमेवासमै प्रयच्छ' इत्युवाच सा ताम् । पुनःपुनरभि-
धीयमाना च तथा कथमपि प्राम्येव चिंरादानाभिमुखं अनश्चक्रे । महाश्वेतामुखौदनाकर्षित-
दृष्टिरेव वेपमानाङ्गयष्टि: आकुललोचना, स्थूलस्थूलं निःश्वसन्ती, निजशरप्रहारमूच्छिता
मन्मथेन स्नपितेव स्खेदजलविसरैः स्वेदजलविसरनिमज्जनभयेन च हस्तावलम्बनमिव
' याचमाना, साध्वसपरवशा, पतामीति लगितुमिव कृतप्रयत्ना प्रसारयामास ताम्बूलगर्भ
हस्तपल्लवम् । चन्द्रापीड़स्तु जयकुञ्जरकुम्भस्थलास्फालन संक्रान्तसिन्दूरमिव स्वभावपाटलम्,
धनुर्गुणाकर्षणकृतकिणश्यामलं, कचग्रहाकृष्टिरुदिता रिलक्ष्मीलोचनपरामर्शनलग्नाञ्जनबिन्दु-
मिव विसर्पन्नखकिणतयातिरभसेन प्रधाविताभिरिव विवर्धिताभिरिव प्रहसिताभिरिवाङ्गली-
भिरुपेतम्, स्पर्शलोभाच तत्कालकृतसंनिवेशाः सरागाः पश्चापीन्द्रियवृत्तीरंपराजुली रुद्वहन्तं
अथ
व्यक्तमिवास्फुटमिवेत्युवाचावोचत् । इतिथोत्यमाह
- किंचिदिति । किंचिदीषद्विवर्तितं परिवर्तितम्,
चावनमितं मुखं यया सैवंविधाहं हे प्रियसखि, लज्जे त्रपे । तत्र हेतुमाह - अनुपजातेति । अनेन
सममनुपजातोऽनुत्पन्नः परिचयो यस्याः सा । प्रगल्भानां तत्क्षणादेव परिचय इत्यत आह -- अप्रागेति ।
अप्रागल्भ्येनाधाष्टर्येन । गृहाण । त्वमेवास्मै प्रयच्छ देहि । पुनः पुनर्वारंवारमभिधीयमाना कथ्यमाना तथा महा-
श्वेतया । त्रासवितर्कमूर्च्छादिव्यभिचारिभावावस्थान्तरमाह - कथमपीति । कथमपि महता कष्टेन ग्राम्येव
ग्रामीणेव चिराच्चिरकालेन दानाभिमुखं मनश्चित्तं चक्रे विदधे । महाश्वेतामुख दनाकर्षिता दृष्टिर्यया सैर्वविधैव वेप-
माना कम्पमानाङ्गयष्टिर्यस्याः । आकुले व्याकुले लोचने नेत्रे यस्याः सा । किं कुर्वन्ती । स्थूलस्थूलं यथा
स्यात् तथा निःश्वसन्ती एतनं गृह्णन्ती । मन्मथेन कंदर्पेण निजशरप्रहारेणात्मीयबाणाभिघातेन मूच्छिता मूर्च्छा
प्रापिता । स्वेदजलविसरैर्घर्मपानीयसमूहैः स्त्रपितेव स्नानं कारितेव । स्वेदजलविसरैर्निमज्जनभयं तेन च हस्ताव-
लम्बनमिव याचमाना । साध्वसं भयं तेन परवशा पराधीना । पतामीति कृत्वा लगितुंमिव कृतः प्रयत्नो यया ।
सा ताम्बूलगर्भं हस्तपल्लवं प्रसारयामास विस्तारितवती । अथ नायकानुरक्तिविशेषं प्रदर्शयन्नाह - चन्द्रेति । चन्द्रा-
पीड: । तु पुनरर्थे । पाणिं करं प्रसारितवान्विस्तारितवान् । अथ पाणिनिष्ठमारुण्यातिशयं विशेषयन्नाह - जयेति ।
जयार्थं यः कुञ्जरो गजस्तस्य कुम्भस्थलं तस्यास्फालनेन तादृक्संयोगविशेषेण संक्रान्तं लग्नं सिन्दूरं नागजं यस्मि-
नेतादृशामिव स्वभावेन स्वारसिकेन पाटलं श्वेतरक्तम् । धनुरिति । धनुषश्चापस्य यो गुणः प्रत्यञ्चा तस्याकर्ष-
णमाकृष्टिस्तेन कृतो विहितः किणो रूढवणपदं तेन श्यामलं कृष्णम् । कन्चेति । कचग्रहेण कृष्टिस्तया
रुदिता या अरिलक्ष्मीः शत्रुरमा तस्या लोचनपरामर्शनेन लग्ना अजनबिन्दवो अस्मिन्नेतादृशमिव किणस्य
कृष्णत्वात्तदुपमानमित्यर्थः । विसर्पन्तः प्रसरन्तो ये नखकिरणास्तेषां भावस्तत्ता तयातिरभसेनातिवेगेन प्रधा-
विताभिरिवोच्चलिताभिरिव, विवर्धिताभिरिव वृद्धिं प्राप्ताभिरिव, प्रहसिताभिरिव हास्यं कुर्वाणाभिरिवाङ्गुलिभिः
करशाखाभिरुपेतं सहितम् । स्पर्शलोभाच्चेति । स्पर्शस्य लोभो गर्धस्तस्मात्तत्कालं तस्मिन्क्षणे कृतः संनिवेशः
प्रवेशो याभिस्ताः । सरागा रागेण सहवर्तमानाः । पञ्चापीन्द्रियवृत्तीरपराङ्गुली: पूर्वोक्तभिन्नाः करशाखा उद्वहन्तं
टिप्प० - 1 मन्दभाग्यः पुनः प्रलपति । 'अनुपजातपरिचया प्रागल्भ्येनानेन' इति पाठः । पूर्वतः
परिचयाभावेऽपि अनेन प्रागल्भ्येन ताम्बूलदानरूपधायैन लज्जे इति तदर्थः । 2 मूच्छितो हि जनः
स्वीयैजनैरम्बुना नाप्यते । 3 चन्द्रापीडदेहे संसक्तुम् । 4 अत्रापि चस्खाल मन्दमतिः । 'अपरा इवाङ्गुली-
रुद्वहन्तम्' इत्येव पाठः । कादम्बरीस्पर्शलोभात् तत्कालं कृतः संनिवेशः ( उपस्थितिः ) याभिः ईदृशीः
पञ्चापि इन्द्रियवृत्ती: ( तद्दर्शनतद्वार्ताश्रवणादिव्यापारान् ) अपरा: अङ्गुलीः इव उद्दहन्तमित्यर्थः ।
पाठा०-१ कादम्बरी २ चिरेण. ३ अनाकृष्ट ४ आकुलित; आमुकुलित ५ निश्वसन्ती. ६ विगलितुम्;
लापितुम् ७ प्रभावितामिः; प्रसारिताभिः ८ अपरा हवाङ्गुली: इवाङ्गुलीः.
५१ का०