This page has not been fully proofread.

४००
 
[कथयाम्-
चक्षुर्मण्डलितचापेन भगवता
 
तत्परापि मुहुर्मुहुरपाङ्गविक्षेपप्रचलिततरलतरतारसारोदरं
कुसुमधन्वना बलान्नीयमानं चन्द्रापीडपीडनयेव न शशाक निवारयितुम् । तेनैव क्षणेन
तेनासन्नसखी कपोलसंक्रान्तेनेर्यया रोमाञ्चभिद्यमान कुँचतटनश्यत्प्रतिबिम्बेन विरहव्यथा-
स्वेदार्द्रवक्षःस्थलघटितशालभञ्जिकाप्रतिमेन सपत्नीरोपोन्निमिषता दौर्भाग्यशोकमानन्दजल-
तिरोहितेनान्धता दुःखमभजत सा ।
 
कादम्बरी
 
Qua
 
मुहूर्तापगमे च ताम्बूलदानोद्यतां मैहाश्वेता तामभाषत – 'सखि कादम्बरि, संप्रति
पन्नमेव सर्वाभिरस्माभिरयमभिनवागतश्चन्द्रापीड आराधनीयः । तदस्मै तावद्दीयताम्'
 
2
 
परापि सोद्यमापि मुहुर्मुहुः । अपाङ्गेति । अपाङ्गस्य नेत्रप्रान्तस्य यो विक्षेपस्तेन प्रचलिता या तरलतरतारा
तयार कश्मलमुदरं मध्यं यस्यैवंविधं चक्षुर्मण्डलितचापेनारोपितकोदण्डेन भगवता कुसुमधन्वना कंदर्पण
चन्द्रापीडस्य पीडनयेवै बलान्नीयमानं निवारयितुं न शशाक न समर्था बभूव । तेनैवेति । यस्मिन्क्षणे
चक्षुर्निवारयितुं न समर्था तेनैव क्षणेन सा कादम्बरी तेन चन्द्रापीडेन कृत्वा यः सपत्नीरोषस्तस्मात्तथा निमि-
षता पक्ष्मपातस्तदेव दौर्भाग्यं तेन यः शोकः अथ चानन्दजलं हर्षाश्रुजलं तेन तिरोहितेनाच्छादितेनान्धता-
दुःखमभजदप्रापत् । कीदृशेन तेन । आसन्नेति । आसन्ना समीपवर्तिनी या सखी तस्याः कपोलो गल्ला-
परप्रदेशस्तत्र संक्रान्तेन प्रतिबिम्बितेन । इदं च सपत्नीरोषनिमित्तम् । यद्यस्यां संक्रान्तस्तहीयमेव सपत्नी
भविष्यतीति शङ्क.. पनीरोषः सपत्नीविषयको रोषस्तस्मात् । पुनः कीदृशेन । मय्यासक्तः क्वान्यत्र संक्रान्त
इर्ष्यया ये रोमार्भिद्यमानं यत्कुचटं तस्मिन्रोमाञ्च प्रतिबन्धवशादेव नश्यत्प्रतिबिम्बो यस्य स तेन इदं
शोकोत्पत्तिकारणम् । विरहेति । विरहस्य वियोगस्य या व्यथा तया यः स्वेदः श्रमजलं तेनार्द्र यद्वक्षःस्थलं
भुजान्तरं तत्र घटिता शालभजिकायाः प्रतिमा प्रतिबिम्बं यस्मिन्स तेन । इदं चानन्दाश्रुनिपाते कारणम् ।
 
सेति । सा महाश्वेता मुहूतांपगमे घटिकाद्वयानन्तरं ताम्बूलदानोद्यतां नागवल्लीदलवितरणे विहितोद्यमां
कादम्बरीमभाषतावोचत । किमुवाचेत्याह– सखीति । हे सखि कादम्बर, सर्वाभिरेवास्माभिः संप्रति .
प प्राप्तमेव । अहं तु तव सखी नापूर्वा, मह्यमदत्तमपि ताम्बूलं दत्तमेव, अयं त्वपूर्व इत्याशयेनाह-
अयमिति । अयमभिनवो नूतन आगतः प्राप्तश्चन्द्रापीड आराधनीयः पूजनीयः । तस्माद्धेतोस्तावदादावस्मै
चन्द्रापीडाय दीयतां वितीर्यताम् । इत्युक्ता भाषिता सती तदनन्तरं सा कादम्बरी तां महाश्वेतां शनैर्मन्दम-
टिप्प० – 1 'पीडनायेव' इत्येव पाठः । कामेन चन्द्रा पीडपीडनायेव कादम्बरीचक्षुः ( चन्द्रापीडा-
भिमुखम् ) नीतम् ( नायकस्य अभिलाषप्राबल्ये नायिकाकटाक्षैः पीडोद्गमात् ), कादम्बरी तु न तन्नि-
वारयितुमशकदित्यर्थः । 2 मन्दमतिः पुनः सर्वं स्वारस्यं कवली चकार । विस्तरभयाद् व्याख्याद्वारैव समु-
ग्रिन्थपाठः सूच्यते यः पाठान्तरेषु नीचैः परितः । 'ईर्ष्याम्, व्यथाम्,...' इत्यादिद्वितीयान्तपाठ
एव ग्रन्थस्थः । सखीकंपोलसंक्रान्तेन तेन ( चन्द्रापीडेन) ईर्ष्यामभजत, अन्यनायिकागामित्वात् ।
रोमाञ्चोद्गमेनोज़म्भमाणे कुचतटे नश्यन् ( रोमभिरुच्चावचतया) प्रतिबिम्बो यस्य ईदृशेन तेन
( चन्द्रा० ) विरहव्यथामभजत, प्रतिबिम्बविरहात् स्वेदा वक्षःस्थले ( अर्थात् चन्द्रापीडस्य ) प्रति-
बिम्बिता शालभजिकायाः प्रतिच्छाया यस्य ईदृशेन तेन सपत्नीरोषमभजत् । निमिषता ( स्वदर्शने नेत्र-
योरुन्मीलन निमीलने कुर्वता ) तेन दौर्भाग्यशोकमभजत, दर्शने औत्सुक्ये तु निमेषो नाभविष्यदित्यर्थः ।
नेत्रयोरानन्दाश्रुभिस्तिरोहितेन तेन अन्धतादुःखमभजत् ।
 
पाठा० -१ चन्द्रापीडपीडनादेव, चन्द्रापीडं प्रति. २ ईर्ष्याम् ; ईर्ष्या ३ कुचनश्यत् ४ व्यथाभू. ५ रोषम्.
६ तां महाश्वेतां समभाषत ७ सर्वाभिरेषास्माभिरभिनष, ८ वीयतां ताम्बूलमित्युक्ता.