This page has not been fully proofread.

*
 
चन्द्रापीडदर्शने कादम्बर्या भावावेश: ] पूर्वभागः ।
 
३९९
 
कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निषसाद । ससंभ्रमं परिजनोप-
नीतायां च शयनशिरोभागनिवेशितायां धवलांशुक प्रच्छदपटायां हेमपादातियां पीठिकार्या
चन्द्रापीडः समुपाविशत् । महाश्वेतानुरोधेन च विदितकादम्बरीचित्ताभिप्रायाः संवृतमुख-
न्यस्तहस्त दत्तशब्दनिवारणसंज्ञाः प्रतीहार्यो वेणुरवान्वीणाघोषान्गीतध्वनीन्मागधी जयशब्दांश्च
सर्वतो निवारयांचक्रुः । त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय महा-
श्वेतायाश्चरणौ प्रक्षाल्योत्तरीयांशुकेनापमृज्य पुनः पर्यङ्कमारुरोह, चन्द्रापीडस्यापि कादम्बर्या:
सखी रूपानुरूपा जीवितनिर्विशेषा सर्वविश्रम्भभूमिर्मदलेखेति नाम्ना बलादनिच्छतोऽपि
प्रक्षालितवती चरणौ । महाश्वेता तु कर्णाभरणप्रभावर्षिण्यपाङ्गदेशे सप्रेम पाणिना स्पृशन्ती,
मधुकरभरपर्यस्तं च कर्णावतंसं समुत्क्षेपयन्ती, चामरपवन विघूँतिपर्यस्तालकवल्लरी मनुष्वञ्ज
माना कादम्बरीमनामयं पप्रच्छ । सा तु सखीप्रेम्णा गृहनिवासेन कृतापरा घेवानामयेनैव
लज्जमाना कृच्छ्रादिव कुशलमाचचक्षे । तैदा समुपजातशोकापि च महाश्वेतामुख निरीक्षण
 

 
कादम्बरीति । कादम्बरी तु सविभ्रमं सविलासं कृतः प्रणामो यया सैवंविधा महाश्वेतया सह पर्यंङ्के पल्यंके
निषसादोपविवेश । ससंभ्रममिति । ससंभ्रमं यथा स्यात्तथा परिजनेन परिच्छदेनोपनीतायां प्रापितायां
शयनस्य पल्यङ्कस्य शिरोभागे निवेशितायां स्थापितायां धवलांशुकस्य प्रच्छदपट उत्तरपटो यस्यामेवंविधाय
हेमपादाङ्कितायां सुवर्णपादचिह्नितायां पीठिकायां चन्द्रापीड: समुपाविशदासेदिवान् । महेति । महाश्वेतायां
अनुरोधेन प्रतिबन्धेन । विदितेति । विदितो ज्ञातः कादम्बर्याश्चित्ताभिप्रायो याभिस्ताः । संवृतेति !
संवृतं पिहितं यन्मुखं तत्र न्यस्तो यो हस्तस्तेन दत्ता ज्ञापिताः शब्दनिवारणसंज्ञा याभिरेवंविधाः प्रतीहार्यो
द्वाररक्षाविधायिन्यो वेणुरवान्वंशशब्दान्वीणाघोषान्वल्लकी शब्दान्गीतध्वनीन्गेयनादान्मागधीनां मागधपत्नीनां
जयशब्दांश्च जयजयेति रवांश्च सर्वतो निवारयांचनुर्निवारितवत्यः । त्वरितेति । त्वरितं शीघ्रं परिजनोपनीतेन
सलिलेन पानीयेन कादम्बरी स्वयमात्मनोत्थायोत्थानं कृत्वा महाश्वेतायाश्चरणौ पादौ प्रक्षाल्योत्तरीयांशुकेनोपरिव-
स्त्रेणापमृज्य मार्जनं कृत्वा पुनः पर्यकं पल्यङ्कमारुरोहोपविष्टवती । चन्द्रापीडेति । कादम्बर्यांः सखी मदलेखेति
नाम्नानिच्छतोऽप्यवाञ्छतोऽपि बलाञ्चन्द्रापीडस्यापि चरणौ प्रक्षालितवती । सखीं विशेषयन्नाह – रूपेति ।
रूपेण सौन्दर्येण चानुरूपा सदृशी जीवितान्निर्गतो विशेषो यस्याः सा जीवितनिर्विशेषा। सर्वेषां विश्रम्भाणां
विश्वासानां भूमिः स्थानम् । महेति । महाश्वेता तु कादम्बरीमनामयं कुशलं पप्रच्छ प्रश्न कृतवती । किं
कुर्बन्ती । कर्णेति । कर्णाभरणस्य श्रवणभूषणस्य प्रभा कान्तिस्तस्या वर्षिणि । एवंभूतेऽपानदेशे नेत्रप्रान्तदेशें
सप्रेम प्रेमसहितं यथा स्यात्तथा पाणिना हस्तेन स्पृशन्ती स्पर्श कुर्वन्ती । मधुकरेति । मधुकरंभरेण
भ्रमरभरेण पर्यस्तं पतितं च कर्णावतंसं समुत्क्षेपयन्त्युच्चभागे (न) नयन्ती । चामरेति । चामरं वालव्यजनं तस्य॑
पवनेन वातेन या विधूतिः कम्पनं तेन पर्यस्ता पतिता यालकवल्लरी केशवल्लरी तामनुष्वैञ्जमाना स्थाने त
स्थापयन्ती । सा त्विति । सा तु कादम्बरी सखीप्रेम्णा महता स्नेहेन गृहनिवासेन कृतापराधेवानामयेनैव
कुशल प्रश्नेनैव लजमाना त्रपां कुर्वाणा कृच्छ्रादिव कुशलमाचचक्ष आचख्यौ । तदेति । तस्मिन्कालें
महाश्वेता दुःखेन समुपजातः शोको यस्या एवंविधापि कादम्बरी महाश्वेताया मुखं तस्य निरीक्षणं तस्मिंस्तां
 

 
टिप्प० - 1 धिङ्क् मन्दभाग्यम् । सखीसमागमे न सख्या अपाङ्गदेशः स्पृश्यते, न च शक्यतेऽपि ।
कर्णकुण्डलप्रभाभिर्भूषिते 'अंसदेशे ( स्कन्धभागे ) स्टशन्ती इति पाठः । 2 समुत्क्षिपन्तीत्येव पाठः ।
3 व्याकरणविमुखता सेयम् । 'अनुष्यजमाना' इत्येव पाठः ।
 
पाठा० -१ ससंभ्रमपरि, २ अंसदेशे. ३ उत्क्षिपन्ती ४ विधुतिपर्यस्खां च ५ समुपजातशोकापि च तसिन्काले