कादम्बरी /431
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
1
त्वरितमभिप्रस्थितस्य हृदयस्य धूलिरिव सुधाधवला स्मितज्योत्सा विससार संमान्यतामयं
हृदयरुचिरो जनः प्रतिप्रणामेनेति शिरो वक्तुमिवैका भ्रूलता समुन्ननाम । अङ्गुलिविवर-
विनिःसृतमरकताङ्गुलीयकलेखो विभ्रमगृहीतताम्बूलवीटिक इष करो जृम्भारम्भमन्थरं मुख-
मुत्ससर्प । स्रवत्स्वेदजलधौतलावण्य निर्मलेषु चास्याः स्तम्भसंक्रान्तप्रतिबिम्बतया संचर-
न्मूर्तिर्मकरकेतुरिवावयवेष्वदृश्यत चन्द्र पीडः । तथा हि । सिजन्मणिनूपुरपुटेन भुवमालिख-
तानाहूत इव चरणनखेषु निपपात । दर्शनातिरभसप्रधावितेन गत्वा हृदयेनानीत इव
स्तनाभ्यन्तरे समदृश्यत । विकचकुवलयदामदीर्घया च दृष्ट्या निपीत इव कपोलतले सम-
लक्ष्यत । सर्वासामेव च तदा तासां कन्यकानां तिर्यक्पश्यन्तीनां तं कुतूहलापानचुम्बिन्या
दृङ्ख्या निर्गन्तुकामा इब कर्णपूरमधुकरैः समं बभ्रुमुस्तरलास्तारकाः ।
4
१९८
जलं तस्य बिन्दुनिकरो निपपातापतत् । त्वरितमिति । त्वरितं शीघ्रमभिप्रस्थितस्य चलितस्य हृदयस्य
धूलिरिव रेणुरिव सुधामृतं तद्वद्धवला शुभ्रा स्मितमीषद्धसितं तस्य ज्योत्स्ना चन्द्रिका विससार प्रसृता बभूव ।
अत्र शुभ्रत्वसाम्यात्स्मितस्य धूलिसाम्यमित्यर्थः । अयं हृदयरुचिरो जनः संमान्यतां सक्रियताम् । प्रतिन-
णामेनेति । अनुनमस्करणेन । इति शिर उत्तमानं वक्तुमिव कथयितुमिव एका भ्रूलता समुन्ननामोच्चीबभूव ।
अङ्गुलीति । अङ्गुल्यः करशाखास्तासां विवरेभ्यो विनिःसृता मरकताङ्गुलीयकलेखा यस्मात्सः । नै यसाभ्या-
दाह — विभ्रम इति । विभ्रमेण विलासेन गृहीता ताम्बूलवीटिका येनैवंविधः करो हस्तः । जृम्भेति ।
जृम्भणं तथा आरम्भस्तेन मन्थरमलसं मुखमुत्ससर्प विस्तीर्ण बभूव । अस्या इति । अस्याः कादम्बर्या
अषयनेष्वपघनेषु संचरन्ती व्रजन्ती मूर्तिः शरीरं यस्यैवभूतश्चन्द्रापीडः । क इव । मकरकेतुरिवादृश्यता-
बालोक्यत। जनैरिति शेषः । कीदृशेष्ववयवेषु । स्रवत्क्षरद्यत्स्वेदजलं तेन धौतं क्षालितं लावण्यं लवणिमा
तेन निर्मलेषु विमलेषु । कया । स्तम्भेति । स्तम्मेषु स्थूणासु संक्रान्तानि प्रतिबिम्बितानि यानि प्रतिबिम्बानि
तस्य भावस्तत्ता तया । एतदेव दर्शयन्नाह - तथा हीति । तिजन्शब्दं कुर्वन्यन्मणिनपुरपुटं तेन भुवं पृथ्वी-
मालिखतालेखं कुर्वताङ्गुष्ठेनाहूत इव निमन्त्रित इव चरणनखेषु निपपात । दर्शनेति । दर्शनार्थमतिरभरा-
प्रधावितेनातिबेगोच्चलितेन हृदयेन गत्वा स्तनाभ्यन्तरे कुचयोर्मध्य आनीत इव समदृश्यत समवालोक्यत ।
जनैरिति शेषः । विकचेति । विकचानि विकस्वराणि यानि कुवलयान्युत्पलानि तेषां दाम सक्तद्वदीर्घयायतया
च दृष्ट्या निपीत इव कपोलतले समलक्ष्यतादृश्यत । तत्तदवयवेषु तत्तत्प्रतिबिम्बमाश्रित्यैतदुक्तम् । तासा-
मिति । अपाङ्गचुम्बिन्या दृष्ट्या कुतूहलात्तं तिर्यक् पश्यन्तीनां सर्वासामेव तदा तासां कन्यकानां निर्गन्तुकामा
इव बहिर्गमनोत्सुका इव तरलाः कम्प्रास्तारकाः कनीनिकाः कर्णपूरमधुकरैः समं बभ्रमभ्रमणं चक्रुः ।
टिप्प० - 1 जडेनात्रापि ग्रन्थो अंशितः । 'विनिःसृतमरकताङ्गुलीयकमयूखले खो इत्येव पाठः ।
अङ्गुलिविवरेभ्यो विनिःसृता मरकताङ्गुलीयकस्य किरणराजिर्यस्य स इत्यर्थः । 2 हन्त कियपरिशोध्यसां
टीकाकारः ! कोर्थो वाक्यस्यास्य ? अस्तु । भुवम् आलिखता (कर्षता, किञ्चित्खनता) अत एव शिअत्
मणिनूपुर पुटं यत्र (भूलेखनसमये नूपुरचलनेन शब्दो जात इत्यर्थः) ईडशेन अङ्गुष्ठेन आहूत इव नखेषु
निपपात । चरणाङ्गुष्ठनखेषु प्रतिबिम्बपतने सेयमुत्प्रेक्षेत्याशयः । ॐ चन्द्रापीडस्य दर्शनार्थं प्रधावितेन काद-
म्वर्या हृदयेन आनीत इषेत्याशयः । 4 अत्रापि महाभागः सर्व ग्रन्थं धूलिसाञ्चकार । 'कुतूहलादपाङ्ग-
बुम्बिन्यो निर्गन्तुकामा इव...' इति पाठः । तम् ( चन्द्रापीडम्) तिर्यक्पश्यन्तीनां कन्यकानां कुतू-
हलवशात् अपाङ्गचुम्बिन्यः अर्थात् अपाङ्गपर्यन्तागताः तरलाः ( चञ्चलाः तारका (नेत्रकनीनिकाः )
नेत्रावहिर्निर्गन्तुकामा हव बभ्रमुः । यथा मधुकराश्चञ्चलास्तथा तारका अपि चावल्यमभजन्नित्यर्थः ।
पाठा० - १ मयूखलेखो; मयूखलेखा २ संक्रान्त, ३ माणिक्यनूपुर, ४ मणिभुवम् ५ चुम्बिन्यो; चुम्बिन्यां.
●