कादम्बरी /430
This page has not been fully proofread.
चन्द्रापीडदर्शने कादम्बर्या भावावेश: ] पूर्वभागः ।
३९७
9
सङ्ग निष्ठुरामपि मे सविशेषस्वभावसरलैगुणैरोकृष्य चित्तवृत्तिं वर्तते । दुर्लभो हि दाक्षिण्य
परवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदग्धजनः । यतो दृष्ट्वा चेममहमिव त्वमपि निर्माण -
कौशल प्रजापतेः, नि:सपत्नतां च रूपस्य, स्थानाभिनिवेशित्वं च लक्ष्म्याः, सद्भर्तृतासुखं
च पृथिव्याः; सुरलोकातिरिक्ततां च मर्त्यलोकस्य, सफलतां च मानुषीलोचनानाम्, एक-
स्थानसमागमं च सर्वकलानाम्, ऐश्वर्यं च सौभाग्यस्य, अग्राम्यतां च मनुष्याणां ज्ञास्यसीति
बलादानीतोऽयम् । कथिता चास्य सया बहुवार प्रियसखी । तदपूर्वदर्शनोऽयमिति विमुच्य
लज्जाम्, अनुपजातपरिचय इत्युत्सृज्याविश्रम्भताम् अविज्ञातशील इत्यपहाय शङ्कां यथा
मयि तथात्रापि प्रेवर्तितव्यम् । एष ते मित्रं च बान्धवश्च परिजनश्च' इत्यावेदिते तया
चन्द्रापीड: प्रणाममकरोत् ।
"
कृतप्रणामं च तं तदा कादम्बर्यास्तिर्यग्विलोकयन्त्याः सस्नेहमतिदीर्घलोचनयोरपाङ्गभागं
गच्छतस्तारतारकस्य लोचनस्य श्रमसलिललवविसर इबानन्द बाष्पजलबिन्दुनिकरो निपपात ।
-
स्वभावसरलैः स्वारसिकऋजुभिर्गुणैर्मे मम चित्तवृत्तिमाकृष्यायं वर्तते । ततः किमित्यत आह - दुर्लभ इति ।
सतोऽयं जनो विदग्धजनः । हीति निश्चये । सर्वथा दुर्लभो दुःप्रापः एनं विशेषयन्नाह - दाक्षिण्येति । दाक्षि -
ण्यमनुकूलता तेन परवशः पराधीनो निर्निमित्तं निष्कारणं मित्रं सुहृदकृत्रिमं स्वाभाविकं हृदयं चेतो यस्य सः ।
मायानिर्मुक्त इत्यर्थः । मायया च चेतोवैपरीत्यं जायत इति भावः । इमं जनं दृष्ट्वा चाहमिव त्वमप्येतत्सर्व
ज्ञास्यसीत्यन्वयः । एतदेव प्रदर्शयन्नाह - निर्माणति । प्रजापतेर्ब्रह्मणो निर्माणकौशलं रचनाचातुर्यम् । रूपस्य
चेति । रूपस्य सौन्दर्यस्य निःसपत्नतां निर्विपक्षताम् । लक्ष्म्या; श्रियः स्थाने योग्यस्थलेऽभिनिवेशित्वं स्थायि
त्वम् । पृथिव्या वसुधायाः सञ्छोभनो भर्ता पतिस्तस्य भावस्तत्ता तस्याः सुखं सातम् । मर्त्यलोकस्य मनुष्यलोकस्य,
सुरलोकादतिरिक्ततामाधिक्यताम् । मानुषीलोचनानां स्त्रीनेत्राणां सफलतां साफल्यं च । सर्वकलानां समप्रवि-
ज्ञानानामेकस्मिन् स्थाने समागमं संबन्धं च । सौभाग्यस्य सुभगताया ऐश्वर्य प्रभुत्वम् । तथा मनुष्याणां मानु-
षाणामग्राम्यतां नागरिकतां ज्ञास्यसि इति हेतोर्मया बलादानीतः अयम् । कथितेति । अस्य चन्द्रापीडस्
मया बहुवारमनेकवारं प्रियसखी कथिता निवेदिता । तदिति हेत्वर्थे । अपूर्वमभिनवं दर्शन यस्यैवंविधोऽयमिति-
कृत्वा लज्जां त्रपां विमुच्य विहाय । अन्विति । अनुपजातः परिचयो यस्यैवंविध इतिकृत्वाऽविश्रम्भतामविश्वा-
सतामुत्सृज्य व्यक्त्वा । अविज्ञातमविदितं शीलं स्वभावो यस्येतिकृत्वा शङ्कामपहाय दूरीकृत्य यथा मयि तथा
त्राप्यस्मिन्नपि प्रवर्तितव्यम् । एष चन्द्रापीडस्ते तव मित्रं च बान्धवः परिजनश्च । तया महाश्वेतयेत्या वेदितेः
निवेदिते सति चन्द्रापीडः प्रणामं नमस्कारमकरोत् ।
तदा कृतप्रणामं विहितनमस्कारं च तं विलोकयन्त्याः पश्यन्त्याः कादम्बर्याः सस्नेहं यथा स्यात्तथा-
तिदीर्घयोर्लोचनयोरपाङ्गभागं निर्याणदेशं गच्छतो व्रजतस्तारा मनोहरा तारका कनीनिका यस्मिन्नेतादृशस्य
लोचनैस्य श्रमसलिलस्य स्वेदप्रभवपानीयस्य लवास्तेषां विसर इव समूह इव । आनन्दः प्रमोदस्तस्माद्यद्वाष्प-
टिप्प० - 1 सौन्दर्ये अस्य कोपि प्रतिद्वन्द्वी नास्तीत्यर्थः । 2 अस्य लाभाद् भाग्यवत्ताया महासमृद्धिं
मंस्यस इत्याशयः । 3 'लोचनयोरपाङ्गभाग गच्छतो लोचनस्य'; लोचनयोर्लो चनस्येति किमिदमसंबद्धं
प्रलपितम् ? सर्वथा विचार शून्यष्टीकाकारः। 'सस्नेहमतिदीर्घलोचनापाङ्गभांगं गच्छतस्तारकस्य श्रमसलिल'
इत्येव पाठः । अतिदीर्घस्य लोचनस्य अपाङ्गभागं पर्यन्तभागं गच्छतस्तारकस्य । तिर्थग्विलोकनसमये नेत्र-
कनीनिका दीर्घस्य लोचनस्य प्रान्तभागे गता। प्राप्तभागश्च दूरवर्ती, यतो हि सुदीर्घ लोचनम् । अत एव
दीर्घलोचनमध्ये दूरगमनात् तारकस्य श्रमो जातः । अत एव श्रमस्त्रेदविन्दुवत् अश्रु पपातेत्याशयः ।
विशालनेत्रतया मायकस्य सौन्दर्यातिशयो व्यङ्ग्यः । 'कनीमिकायां नक्षत्रे तारकं तारकेति च ' इति विश्वः ।
पाठा० -१ सबिशेषै:. २ आक्रम्य ३ विदग्धो जनः ४ बहुप्रकारम् ५ वर्तितव्यम् ६ लोचनापाङ्ग; लोच-
नाया अपाङ्गः . ७ तारकंस्य अम.
..
.