कादम्बरी /43
This page has been fully proofread twice.
सवित्रा च वसता सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति भगवतो नारायणस्य । यस्य च मदकलकरिकुम्भपीठपाटनं [^१]विदधतो लग्नस्थूलमुक्ताफलेन [^२]दृढमुष्टि [^३]निष्पीडनान्निष्ठ्यूतधारा [^४]जलबिन्दुदन्तुरेणेव कृपाणेना- कृष्यमाणा, सुभटोरःकपाट [^५]विघटितकवचसहस्रान्धकारमध्य-
वर्तिनी करि [^६]करटगलितमदजलासारदुर्दिनास्वभिसारिकेव समरनिशासु समीपं [^७]सकृ [^८]दगाद्राजलक्ष्मीः । यस्य च [^९]हृदिस्थितानपि [^१०]भर्तॄ [^११]न्दिधक्षुरिव प्रतापानलो वियोगिनीनामपि रिपुसुन्दरीणामन्तर्जनित[^१२]दाघो दिवानिशं जज्वाल । यस्मिंश्च राजनि जितजगति [^१३]पालयति महीं
चित्रकर्मसु वर्णसंकराः, रतेषु केशप्रहाः, काव्येषु दृढबन्धाः, शास्त्रेषु [^१४]चिन्ता, स्वप्नेषु विप्र-
चन्द्रेण । तदनुकारित्वाज्जनाह्लादकत्वाच्च । बले सामर्थ्ये मरुता वायुना । अतिबलत्वात् । तथा प्रज्ञायां प्रतिभायां सुरगुरुणा बृहस्पतिना । निःप्रतिमप्रतिभावत्वात् । एवंरूपे सौन्दर्ये मनसिजेन कामेन । मानिनीमानहरणात् । तेजसि प्रतापलक्षणे सवित्रा सूर्येण । शत्रूणां दुर्निरीक्ष्यत्वात् । किंविशिष्टस्य नारायणस्य । सर्वेति ।
सर्वे च ते देवाश्च सर्वदेवास्तत्स्वरूपः सर्वदेवमयः । अत्र 'प्राचुर्यविकारप्राधान्यादिषु' इति सूत्र आदिशब्दात्स्वरूपार्थेऽपि मयड्ग्रहस्तस्य । प्रकटितेति । प्रकटिता प्रकाशिता विश्वरूपा त्रिजगत्स्वरूपाकृतिराकारो येन स तथा तस्य । अनेन राज्ञस्तत्साम्यं सूचितं भवतीति भावः । यस्य चेति । यस्य राज्ञः समरनिशासु सङ्ग्रामरात्रिषु राजलक्ष्मीर्वैरिनृपश्रीरभिसारिकेव ध्वान्ते दत्तसंकेतेव समीपं संनिधिमगादागतवती । सकृदित्येक-
वारम् । पुनर्न गतेति भावः । यस्य किं कुर्वतः । विदधत आचरतः । किम् । मदेति । मदेन दानवारिणा कलं मनोज्ञं यत्करिकुम्भपीठं हस्तिशिरःपिण्डफलकं तस्य पाटनं विदारणम् ।अर्थाद्वैरिणा- मित्यर्थः । पुना राजलक्ष्मी विशेषयन्नाह - आकृष्येति । आकृष्यमाणा समन्ताद्गृह्यमाणा । केन । कृपाणेन खङ्गेन । इतः
खङ्गं विशिनष्टि - लग्नेति । लग्नानि संबद्धानि स्थूलानि स्थविष्ठानि गजसंबन्धीनि मुक्ताफलानि रसोद्भवानि यस्य स तथा तेन । दृढेति । दृढमुष्ट्या यन्निपीडनम् । अत्र दार्ढ्यमात्रविवक्षया न पुंवद्भावनिषेधः। तस्मान्निष्ठ्यूतं निर्गतं धारैव जलमिति रूपकं तस्य ये बिन्दवः पृषताः तैरेव दन्तुरेणोदग्रदशनेनेत्युपमा ।
'उदग्रदो दन्तुरः स्यात्' इति कोशः । सुभटोर इति । परस्य ये सुभटा योद्धारस्तेषामुरांस्येव कपाटानि, तेभ्यो विघटितानि विभिन्नानि यानि कवचानि तनुत्राणि तेषां यत्सहस्रं तदेव नैल्यसादृश्यादन्धकारस्तमिस्रं तन्मध्यवर्तिनी तदन्तःपातिनी । अथ समरनिशां विशेषयन्नाह - करीति । करिणां गजानां करटानि कपोलानि तेभ्यो गलितं च्युतं यन्मदजलं दानवारि तस्यासारो वेगवान्वर्षस्तेन दुर्दिनं मेघजं तमो यासु तास्तथा तासु । यस्य चेति । यस्य पूर्वोक्तस्य राज्ञः प्रतापः कोशदण्डजं तेजस्तदेवानलो वह्नि- र्दिवानिशमहोरात्रं जज्वाल प्रदीप्तो बभूव । किं कर्तुमिच्छुरिव । भर्तॄन् दिधक्षुरिव दग्धुमिच्छुरिव । किंविशिष्टान्भर्तॄन् । हृदिस्थितानपि हृदयवर्तिनोऽपीत्यनेन दाहायोग्यत्वं सूचितम् । अथ पूर्वोक्तं प्रतापानलं विशिनष्टि - अन्तरिति । अन्तर्मध्ये जनित उत्पादितो दाघो दग्धिर्येन स तथा । तासाम् । रिपुसुन्दरीणां शत्रु-
वनितानाम् । कीदृशीनाम् । वियोगिनीनामपि वियुक्तानामपि पूर्वमेव भर्तृव्यापादनात् । एतेन हृदयान्तर्गतं शत्रुगणं यत्प्रतापो न सहत इति तत्प्रतापाधिक्यवर्णनेन राज्ञ आधिक्यवर्णनम् ।पुनस्तदाधिक्यं वर्णयन्नाह -यस्मिंश्चेति । यस्मिन्राजनि जितजगति निर्जितविष्टपे महीं पृथ्वीं पालयति शासति सत्येतानि वस्तून्येतेषु
स्थलेष्वासन्बभूवुः । न प्रजानामित्यन्वयः । तान्येवाह - चित्रेत्यादि । चित्रकर्मस्वालेख्यक्रियासु वर्णारक्तपीतादयस्तेषां संकराः परस्परसंबन्धाः । चित्रकर्मणि सुवर्णसंकरा इति वा ।सुवर्णमिश्रालेख्यानीत्यर्थः । द्वितीयपक्षे वर्णा ब्राह्मणादयस्तेषां संकराः । अन्यतोऽन्योत्पत्तिरित्यर्थः । रतेष्विति । रतेषु मैथुनेषु
केशग्रहाः । नान्यत्र कलहेषु । तदभावात् । काव्येष्विति । काव्येषु कविकर्मसु दृढबन्धाः । कठिनबन्धाः ।
[^१]G.आचरतो; आचरता.
[^२]G. दृष्ट.
[^३G. नि:पीडन.
[^४]G. जलदन्तुरेण
[^५G. घटित
[^६]G. करटतट; करतट.
[^७]G. असकृत्
[^८]G. आजगाम
[^९]G. हृदय.
[^१]G. पतीन्.
[^११]G.धक्षु.
[१२]G. दाहो.
[^१३]G. परिपालयति.
[^१४]G. चिन्ताः