This page has not been fully proofread.

१०
 
कादम्बरी ।
 
[ कथामुखे+
 
सवित्रा च बसता सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति भगवतो नारायणस्य । यस्य
च मदकलकरिकुम्भपीठपाटनं विदधतो लग्रस्थूलमुक्ताफलेन हैढमुष्टिनिष्पीडैनान्निष्ठपूतधारा-
जलबिन्दुदन्तुरेणेव कृपाणेनाकृष्यमाणा, सुभटोरः कपाट विघटितकवच सहस्रान्धकारमध्य-
वर्तिनी करिकैरटगलितमदजलासारदुर्दिनास्वभिसारिकेव समरनिशासु समीपं सकृदंगा-
द्राजलक्ष्मीः । यस्य च हृदिस्थितानपि भर्तृन्दिधक्षुरिव प्रतापानलो वियोगिनीनामपि रिपु-
सुन्दरीणामन्तर्जनितदोघो दिवानिशं जज्वाल । यस्मिंश्च राजनि जितजगति पौलयति महीं
चित्रकर्मसु वर्णसंकराः, रतेषु केशप्रहाः, काव्येषु दृढबन्धाः, शास्त्रेषु चिन्ता, स्वप्नेषु विप्र-
चन्द्रेण । तदनुकारित्वा जनाह्लादकत्वाञ्च । बले सामर्थ्य मरुता वायुना । अतिबलत्वात् । तथा प्रज्ञायां प्रति-
भायां सुरगुरुणा बृहस्पतिना । निःप्रतिमप्रतिभावत्वात् । एवंरूपे सौन्दर्ये मनसिजेन कामेन । मानिनीमान-
हरणात् । तेजसि प्रतापलक्षणे सवित्रा सूर्येण । शत्रूणां दुर्निरीक्ष्यत्वात् । किंविशिष्टस्य नारायणस्य । सर्वेति ।
सर्वे च ते देवाश्च सर्वदेवास्तत्स्वरूपः सर्वदेवमयः । अत्र 'प्राचुर्यविकारप्राधान्यादिषु' इति सूत्र आदि-
शब्दात्स्वरूपार्थेऽपि मयड्ग्रहस्तस्य । प्रकटितेति । प्रकटिता प्रकाशिता विश्वरूपा त्रिजगत्स्वरूपाकृतिराकारो
येन स तथा तस्य । अनेन राज्ञस्तत्साम्यं सूचितं भवतीति भावः । यस्य वेति । यस्य राज्ञः समरनिशासु
सङ्क्रामरात्रिषु राजलक्ष्मीर्वैरिनृपश्रीरभिसारिकेव ध्वान्ते दत्तसंकेतेव समीपं संनिधिमगादागतवती । सकृदित्येक
वारम् । पुनर्न गतेति भावः । यस्य किं कुर्वतः । विदधत आचरतः । किम् । मदेति । देन दानवारिणा
कलं मनोज्ञं यत्करिकुम्भपीठं हस्तिशिरः पिण्डफलकं तस्य पाटनं विदारणम् । अर्थाद्वैरिणामित्यर्थः । पुना
राजलक्ष्मी विशेषयन्नाह - आकृष्येति । आकृष्यमाणा समन्ताद्गृह्यमाणा । केन । कृपाणेन खङ्गेन । इतः
खङ्गं विशिनष्टि - लग्नेति । लमानि संबद्धानि स्थूलानि स्थविष्ठानि गजसंबन्धीनि मुक्ताफलानि रसोद्भवानि
यस्य स तथा तेन । दृढेति । दृढमुष्ट्या यन्निपीडनम् । अत्र दार्ढ्यमात्रविवक्षया न पुंवद्भावनिषेधः ।
तस्मान्निध्यूतं निर्गतं धारैव जलमिति रूपकं तस्य ये बिन्दवः पृषताः तैरेव दन्तुरेणोदप्रदशनेनेत्युपमा ।
'उदप्रदो दन्तुरः स्यात्' इति कोशः । सुभटोर इति । परस्य ये सुभटा योद्धारस्तषामुरांस्येव कपाटानि,
तेभ्यो विघटितानि विभिन्नानि यानि कवचानि तनुत्राणि तेषां यत्सहस्रं तदेव नैल्यसादृश्यादन्धकारस्त-
मिस्रं तन्मध्यवर्तिनी तदन्तःपातिनी । अथ समरनिशां विशेषयन्नाह - करीति । करिणां गंजानां कर..
टानि कपोलानि तेभ्यो गलितं च्युतं यन्मदजलं दानवारि तस्यासारो वेगवान्वर्षस्तेन दुर्दिनं मेघजं तमो
यासु तास्तथा तासु । यस्य चेति । यस्य पूर्वोक्तस्य राज्ञः प्रतापः कोशदण्डजं तेजस्तदेवानलो वहिर्दिवा
निशमहोरात्रं जज्वाल प्रदीप्तो बभूव । किं कर्तुमिच्छुरिव । भर्तॄन् दिधक्षुरिव दग्धुमिच्छुरिव । किंविशि-
ष्टान्भर्तॄन् । हृदिस्थितानपि हृदयवर्तिनोऽपीत्यनेन दाहायोग्यत्वं सूचितम् । अथ पूर्वोक्तं
 
पानलं विशि
 
नष्टि - अन्तरिति । अन्तर्मध्ये जनित उत्पादितो दाघो दग्धिर्येन स तथा । तासाम् । रिपुसुन्दरीणां शत्रु-
वनितानाम् । कीदृशीनाम् । वियोगिनीनामपि वियुक्तानामपि पूर्वमेव भर्तृव्यापादनात् । एतेन हृदयान्तर्गतं
शत्रुगणं यत्प्रतापो न सहत इति तत्प्रतापाधिक्यवर्णनेन राज्ञ आधिक्यवर्णनम् । पुनस्तदाधिक्यं वर्णयन्नाह -
यस्मिंश्चेति । यस्मिन्राजनि जितजगति निर्जितविष्टपे महीं पृथ्वीं पालयति शासति सत्येतानि वस्तून्येतेषु
स्थलेष्वासन्बभूवुः । न प्रजानामित्यन्वयः । तान्येवाह - चित्रेत्यादि । चित्रकर्मस्खालेख्यक्रियासु वर्णा
रक्तपीतादयस्तेषां संकराः परस्परसंबन्धाः । चित्रकर्मणि सुवर्णसंकरा इति वा । सुवर्णमिश्रालेख्यानीत्यर्थः ।
द्वितीयपक्षे वर्णा ब्राह्मणादयस्तेषां संकराः । अन्यतोऽन्योत्पत्तिरित्यर्थः । रतेष्विति । रतेषु मैथुनेषु
केशग्रहाः । नान्यत्र कलहेषु । तदभावात् । काव्येष्विति । काव्येषु कविकर्मसु दृढबन्धाः । कठिनबन्धाः ।
 
पाठा० -१. आचरतो; आचरता. २. दृष्ट. ३. नि:पीडन. ४. जलदन्तुरेण ५ घटित ६. करटतट; करतट.
७. असकृत् ८, आजगाम ९. हृदय. १०. पतीन्. ११. धक्षु. १२. दाहो. १३. परिपालयति. १४. चिन्ताः●