This page has not been fully proofread.

३९४
 
कादम्बरी ।
 
[कथायाम्-
,
 
प्रदाम्, पुरः समीपे संमुखोपविष्टाम् कोऽसौ, कस्य वापत्यम्, किमभिधानो वा, कीदृशमस्य
रूपम्, कियद्वा वयः, किमभिधत्ते, भवता किमभिहितः, कियच्चिरं दृष्टस्त्वया, कथं चास्य
महाश्वेतया सह परिचय उपजातः, किमयमंत्रागमिष्यति' इति मुहुर्मुहुश्चन्द्रापीड संबद्ध मे -
वालापं तद्रूपवर्णनामुखरं केयूरकं पृच्छन्तीं कादम्बरीं ददर्श ।
 
तस्य तु दृष्टकादम्बरीवदनचन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्ललास हृदयम् । आसी-
चास्य मनसि– 'शेषेन्द्रियाण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन
कृतमवदातं कर्म चक्षुषा यदनिवारितमेनां पश्यति । अहो चित्रमेतदुत्पादितं वेधसा सर्वर-
मणीयानामेकं धाम । कुत एते रूपातिशयपरमाणवः समासादिताः । तन्नूनमेनामुत्पादयतो
विधेः करतलपरामर्शक्लेशेन ये विगलिता लोचनयुगलादभुजल बिन्दवस्तेभ्य एतानि जगति
कुमुदकमलकुवलय सौगन्धिकवनान्युत्पन्नानि' इत्येवं चिन्तयत एवास्य तस्या नँयनयुगले निप
पात चक्षुः । तदा तस्या अपि नूनमयं स केयूरकेणावेदित इति चिन्तयन्त्या रूपातिशयविलो-
श्लेषः । पुर इति । पुरोऽग्रे समीपे सविध उपविष्टमासीनं कोऽसौ चन्द्रापीडः, कस्य च राज्ञोऽपत्यं प्रजाः,
किमभिधानो वा किंनामा, कीदृशमस्य रूपं सौन्दर्यम्, कियद्वा कियत्प्रमाणं वयोऽवस्थाविशेषः, किमभिधत्ते
किं कथयति, भवता किमभिहितः किं कथितः, त्वया कियच्चिरं कियत्कालं दृष्टः । कथं चेति । केन प्रकारे-
णास्य पुरोवर्तिपुरुषस्य महाश्वेतया सह परिचयः संस्तव उपजातः । किमयमन्त्रागमिष्यतीति मुहुर्मुहुश्चन्द्रापीड-
संबद्धं चन्द्रापीड विषयक मेवालापं वार्ता तस्य चन्द्रापीडस्य या वर्णनाप्रशंसा तत्र मुखरं वाचालं केयूरकं पृच्छ-
न्तीं प्रश्नविषयीकुर्वन्तीं कादम्बरी ददर्शति प्रागुक्त एवान्वयः ।
 
तस्य त्विति । तस्य चन्द्रापीडस्य हृदयं चेत उल्ललासोच्छ्वसितं बभूव । कीदृशस्य । दृष्टा वीक्षिता काद-
म्बरीवदनचन्द्रलेखामा लक्ष्मीर्येन स तस्य । कस्येव । सागरस्येवामृतं पानीयं यथा चन्द्रलेखा दर्शनादुल्लसति । आसी-
दिति । अस्य चन्द्रापीडस्य मनसि चित्त एवमासीद्वभूव । वेधसा ब्रह्मणा मे मम शेषेन्द्रियाण्यपि चक्षुर्व्यतिरि-
क्तान्यपि करणानि किमिति हेतोर्लोचनमयान्येव न कृतानि न विहितानि । किं वेति । अनेन चक्षुषा लोच-
नेन किमिति प्रश्ने । अवदातं शुद्धं कर्म कृतं विहितम् । अत्रार्थे हेतुं प्रदर्शयन्नाह - यदिति । यद्यस्माद्धेतोर-
निवारितं यथा स्यात्तथैतां कादम्बरीं पश्यति विलोकयति अहो चित्रमाश्चर्यमेतत् । यद्वेधसा सर्वरमणीयानां
समग्रमनोहरा णामेकमद्वितीयं धाम गृहमुत्पादितं निर्मितम् । एते इति । एते रूपातिशयपरमाणवो वेधसा
कुतः समासादिताः कुतः प्राप्ताः । तन्नूनं निश्चितमेनां कादम्बरीमुत्पादयतो विधेर्ब्रह्मणः करतलस्य हस्त तल स्य
परामर्शः संबन्धस्तस्माद्यः क्लेशस्तेन ये विगलित (ः सस्ता लोचनयुगलान्नेत्रयुग्मादश्रुजलबिन्दवस्तेभ्यः [ कर्मक-
ठिनाभ्यां करतलाभ्यां परामर्श: सर्वावयवैः संपूर्णो देहः सिद्ध इत्याशयेन सर्वाङ्गेषु स्पर्शनं तन्निमित्तकः क्लेशः
श्रमः अतिसौकुमार्यात् तेन ये नयनजलबिन्दवस्तेभ्यो बिन्दुभ्यो] जगति लोके कुमुदानि कैरवाणि कम-
लानि नलिनानि कुवलयान्युत्पलानि सौगन्धिकानि कहाराण्येतेषां वनान्युत्पन्नानि समुद्भूतानि । 'कारणगुणा
हि कार्यगुणमारभन्ते' इत्यतिश्वेतसुकुमारावयवजनितानि कुमुदानीत्यर्थः । इत्येवं चिन्तयतो ध्यायत एवास्य
चन्द्रापीडस्य तु तस्याः कादम्बर्या नयनयुगले चक्षुर्निपपात दृढसंलग्मं बभूव । तदेति । तस्मिन्काले तस्या
अपि कादम्बर्या अपि नूनं निश्चितं पूर्व केयूरकेण मदनुचरेणावेदितो निवेदितः सोऽयमिति चिन्तयन्त्या ध्यायन्त्या
रूपातिशयविलोकने यो विस्मयश्चित्रं तेन स्मेरं विनिद्रं निश्चलं निबद्धं लक्षं येनैवंविधं चक्षुस्तस्मिंश्चन्द्रापीडे
 
टिप्प० - 1 प्रकोष्ठमध्यगतो भागः पुनरुक्तप्रायः । इतस्तात्पर्य मात्रं ब्राह्यम् । 2 लक्ष्यमित्युचितम् ।
पाठा० -१ पुरःशयनसमीपे २ भवतां च ३ अमिहितम् ४ संबद्धालापम्; संबद्धालापरूप. ५ कादम्बरी.
 

 
६ आनने.