कादम्बरी /426
This page has not been fully proofread.
कादम्बरीवर्णनम् ]
पूर्वभागः ।
३९३
पक्षिरवापनीत नीलकण्ठमदाम्, गौरीमिव श्वेतांशुकरचितोत्तमाङ्गाभरणाम्, उदधिवेलावन-
लेखामिव मधुकरकुलनीलतमालकाननाम्, इन्दुमूर्तिमिवोद्दाम मन्मथ विलासगृहीतगुरुकल-
त्राम्, वनराजिमिव पाण्डुश्यामलवलीलतालंकृतमभ्याम्, दिनमुखमिव भास्वन्मुक्तांशुभि-
नपद्मरागप्रसाधनाम्, आकाशकमलिनीमिव स्वच्छाम्बरहश्यमान मृणाल कोमलोरुमूलाम्,
मयूरावलीमिव नितम्बचुम्बिशिखण्ड भारविस्फुरचन्द्रकान्ताम्, कल्पतरुलतामिव कामफल-
विद्यते येषां मानसजन्मपक्षिणां रव उपभोगानुकूल: शब्दो यया सा । कामिनामुपभोगविषयकलाप उद्दीप-
कत्वात्कादम्बर्येवोत्पादित इत्यर्थः । ततोऽपनीतो दूरीकृतो नीलकण्ठो मदनदाहको महादेवस्तस्य मदः ।
मदन सहस्रोत्पादकत्वस्य पूर्वमुक्तत्वात्पश्चात्कर्मधारयः । ताम् । पक्षे मानसजन्मानो ये पक्षिणस्तेषां रवेण
शब्देनापनीतो दूरीकृतो नीलकण्ठस्य मयूरस्य मदो यया सा ताम् । गौरीति । गौरी पार्वती तामिव
श्वेतमंशुकं वस्त्रं यस्याः सा । विरचितान्युत्तमाङ्गावष्याभरणानि भूषणानि यया सा । पश्चात्कर्मधारयः ।
ताम् । पक्षे श्वेता अंशवः किरणा यस्यैवंभूतः श्वेतांशुकश्चन्द्रः स एव रचित उत्तमाङ्ग आभरणं यया । हारस्येति
शेषः । उद्धीति । उदधिः समुद्रस्तस्य वेलावनं समीपवर्ति काननं तस्या लेखा राजिस्तामिव । मध्विति ।
मधुकराणां भ्रमराणां कुलं समुदायस्तद्वन्नीलतमा अतिशयेन हरिता अलकाः केशा आपने मुखे यस्याः सा
ताम् । पक्षे मधुकरकुलयुक्तं नीलतमालकाननं यस्याम् । इन्दुमूर्तीति । इन्दुश्चन्द्रस्तस्य मूर्तिस्तामिवोहामा
उत्कटा ये मन्मथविलासाः कंदर्प विभ्रमास्तैगृहीतं स्वीकृतं गुरु महत्कलत्रम् । 'कलत्रं श्रोणिभार्ययोः' इति
विश्वः । पक्षे उद्दाममन्मथविला सैर्गृहीतमात्तं गुरोर्बृहस्पतेः कलत्रं भार्या यया सा ताम् । कामव्याकुलचेतसा
चन्द्रेण बृहस्पतेस्तारापहृतेति पुराणप्रसिद्धम् । वनेति । वनस्य राजिर्लेखा तामिव । उभयोः शब्दसाम्यमा-
ह - पाण्डित । अङ्कुरितयौवनत्वाच्छ्यामलाः कृष्णा वल्लयस्त्रिवल्लयस्ता एव सरलत्वसाम्याल्लता वल्लयस्ताभि-
रलंकृतो मध्यः कटिप्रदेशो यस्याः सा ताम् । पक्षे लवली लताः ताभिरलंकृतो भूषितो मध्यो मध्यप्रदेशो यस्याः
सा ताम् । दिनमिति । दिनस्य वासरस्य मुखमाननं तद्वदिव । भास्वदिति । भास्वन्त्यो दीप्यन्त्यो या मुक्ता
मुक्ताफलानि तेषामंशुभिः किरणैर्भिन्नानि मिश्रितानि पद्मरागाणां प्रसाधनानि भूषणानि यस्याः सा ताम् ।
पक्षे भावता सूर्येण मुक्ता येंऽशवः किरणास्तैर्भिन्नानि विकसितानि यानि पद्माण कसलानि तेषां रागो रङ्गः
स एव प्रसाधनं यस्याः सा ताम् । आकाशेति । आकाशं व्योम तस्य कमलिनी स्वर्गीयनलिनी तामिव ।
स्वच्छेति । स्वच्छं निर्मलं यदम्बरं तस्मिन्दृश्यमानं विलोक्यमानं मृणालवत्कोमलमूरुमूलं सक्थिमूलं यस्याः
सा ताम् । पक्षे खच्छेऽम्बर आकाशे मृणालस्य तन्तुलस्य कोमलं सुकुमारमुरु विस्तीर्ण मूलं बुधं यस्याम् ।
मयूरेति । मयूराणां कलापिनामावली श्रेणी तामिव । नितम्बेति । नितम्बः कटकस्तञ्चुम्बिनि, अर्थाद्वैस्त्रे,
शिखण्ड भारवत्कलापिपिच्छसमूहवच्चन्द्रकाश्चन्द्राकृतयो बिन्दवोऽन्ते प्रान्ते यस्याः सा ताम् । पक्षे नितम्ब चुम्बि
शिखण्डभार स्तस्मिन्विस्फुरिता देदीप्यमानाश्चन्द्रका मेचका अन्ते यस्याः सा ताम् । कल्पेति । कल्पतरुर्मन्दारः
सरलत्वात्स एव लता तामिव । उभयोः सादृश्यमाह - कामेति । कामं वाञ्छितं यत्फलं तस्य प्रदामित्यभङ्ग-
टिप्प० - 1 सर्वथानधिकारी टीकाकारः । उत्पादितस्य स्व भावविलासेन जनितस्य मानसजन्मनः
( कामस्य ) पक्षिणां कङ्कपक्षयुक्तानां बाणानां रवेण अपनीतो नीलकण्ठस्य ( शिवस्य ) मदः ( ते
कामो दग्धः,
कादम्बर्या तु स्वसामर्थ्यनोस्पादितः ) यया तामित्यर्थः । अन्योर्थः स्फुटः । 2 उपमायां
लिङ्गभेदो दोषायेति 'दिनमुखलक्ष्मीमिव' इत्येव पाठः । प्रभातलक्ष्मीः ( शोभा ) इति तदर्थः । 3 धिक्टी-
काम् । नितम्बचुम्बी शिखण्डभारः ( केशपाशः ) यस्याः सा चासौ च विस्फुरन् ( शोभमानः ) चन्द्र इव
कान्ता (कमनीया) चेति स्फुटोर्थः । 4 धिक् । कादम्बरीपक्षे
कामफलं मदनविकाररूपं फलं प्रददातीत्यर्थः ।
पाठा० -१ विरचित. २ मुखलक्ष्मीम्.
५० का०