कादम्बरी /425
This page has not been fully proofread.
क़ादम्बरी ।
[ कथायाम्-
पत्रपुटामविज्ञायमानालापतया हासहेतुं पुनः पुनः क्रीडापर्वतपत्रशबरीमालपन्तीम्, करतल-
विनिहितैर्मुहुर्मुहुरुत्पतद्भिश्च
मुखपरिमलान्धैर्नीलकञ्चुकैरिव मधुकरैः क्रीडन्तीम्, पञ्जरहॉरी-
तक रुतश्रवणकृतदुष्टस्मितां चामरग्राहिणीं विहस्य लीलाकमलेन शिरसि विघट्टयन्तीम्, मुक्ता-
फल खचितचन्द्रलेखिकासंक्रान्तप्रतिमां स्वेदजलबिन्दुजालॅचितनखपदाभिप्रायेण ताम्बूल-
करङ्कवाहिनीं पयोधरे पटवासमुष्टिना ताडयन्तीम्, रत्नकुण्डलप्रेतिबिम्बसान्द्रदत्तन वनख-
पदमण्डलाशङ्ख्या चामरमाहिणीं विहस्य कपोले प्रसाद व्याजेन दत्तेनात्मकर्णपूरपल्लवेनाच्छा-
दयन्तीम् पृथिवीमिव समुत्सारितमहाकुलभूभृव्यतिकरां शेषभोगनिषण्णाम्, मधुमासल-
क्ष्मीमिव षट्पदपटलापहियमाणकुसुमरजोधूसरपादपरागाम्, शरदमिवोत्पादितमानसजन्म-
३९२
१
'पुलिन्दः पत्रशबरः' इति रत्नकोशः । आलपन्तीं जल्पन्तीम् । करोति । करतले हस्ततले विनिहितैः स्था-
पितैर्मुहुर्मुहुर्वारंवारमुत्तद्भिपतनं कुर्वद्भिर्मुखस्य यः परिमलस्तेनान्धैः । नीलत्वसाम्यादाह - नीलेति ।
नीलककैरिव मधुकरैर्भमरैः क्रीडन्तीं क्रीडां कुर्वन्तीम् । पञ्जरेति । पञ्जरे वंशदल निर्मिते पात्रे यो हारी-
तको मृदङ्कुरस्तस्य रुतश्रवणेन कृतं दुष्टं गूढं स्मितं यया सा ताम् । एवंविधां चामरग्राहिणीं विहस्य शिरसि
मस्तके लीलाकमलेन विघट्टयन्तीं ताडयन्तीम् । मुक्तेति । मुक्ताफलानि रसोद्भवानि तैः खचिता या चन्द्र-
लेखिका चन्द्रलेखाकृतिराभरण विशेषस्तस्याः संक्रान्ता प्रतिविम्विता प्रतिमा यस्यां सैवंविधां ताम्बूल करकवा-
हिनीं खेदजलबिन्दुजालेन चितं व्याप्तं यन्त्रखपदं तस्याभिप्रायेण पयोधरे कुचे पटवासः पिष्टातस्तस्य मुष्टिना ता.
डयन्तीम् । अत्रायमभिप्रायः -- मुक्ताफलानां जलविन्द्वनुकारित्वाच्चन्द्रलेखिकायाश्च वऋत्वेन नखक्षतानुकारि-
त्वात्ताम्वूलकरङ्कवाहिनीवक्षसि गौर रूपातिशयवति मुक्ताचन्द्रिकायाः प्रतिबिम्बसंक्रान्त्या चौर्यरतपिशुनं स्वेदधि-
न्दुजालचिते नखपदं वस्येदमित्यभिप्रायेण यत्र तद्दर्शनं तत्रैव चूर्णक्षेपः । एतेन रतगोपनं व्यज्यते । रत्नेति ।
रत्नकुण्डलस्य यः प्रतिबिम्ब: प्रतिच्छायस्तेन सान्द्रं दत्तं यन्नवनखपदमण्डलं तस्याशङ्कयारेकया वा चामरग्राहि-
णीं वालव्यजनधारिणीं विहस्य कपोले प्रसादः प्रसन्नता तच्याजेन तन्मिषेण दत्तेनार्पितेनात्मनः स्वकीयस्य यः
कर्णपूरपलवस्तेनाच्छादयन्तीमाच्छादनं कुर्वन्तीम् । एतेन रत्नकुण्डलस्य वकलोहितातिशय वन्नखक्षतिसाम्यं
प्रदर्शयन्नाह - समुत्सारितेति । समुत्सारितो दूरीकृतो महाकुलानां भूभृतां राज्ञां व्यतिकरो वृत्तान्तो यया
सा ताम् । कादम्बर्याः पितुरंपेक्षयान्येषां राज्ञां न्यूनत्वादिति भावः । पक्षे महाकुलभूभृतां कुलाचलानां
व्यतिकरः सामर्थ्य यया सा ताम् । शेषा उर्वरिता अन्यजनैरस्पृष्टा ये भोगास्तत्र निषण्णामुपविष्टाम् ।
पक्षे शेषस्य नागाधिपस्य यो भोगोऽहिकायस्तत्र निषण्णां स्थिताम् । मधुमासेति । मधुमास श्चैत्रमासस्तस्य
लक्ष्मीः श्रीस्तामिव । उभयोः साम्यं प्रदर्शयन्नाह - षट्पदेति । षट्पदानां भ्रमराणां पटलैरपहियमाणं
यत्कुसुमरजस्तेन धूसर ईषत्पाण्डुः पादयोश्चरणयोः पराग उपरागो यस्याः । 'पराग: ख्यात्युपरागयोः' इति
विश्वः । पक्षे पादपानां वृक्षाणां राग आरुण्यं यस्याम् । शरदिति । शरद्धनात्ययस्तामिव । उभयोः साम्य-
माह - उत्पादितेति । उत्पादितो जनितो मानसं मनस्तस्माजन्म यस्य स मानसजन्मा कंदर्पस्तस्य पक्षो
टिप्प० - 1 सर्वथा मूढ एव टीकाकार.: । 'भूभृद्व्यतिकरशेषभोगनिषण्णाम्' इत्येव पाठः । 'महाश्वे-
तायां सशोकायां नाहं पाणि ग्राहयिष्यामि' इति प्रतिज्ञानुसारं दूरीकृतः महाकुलानां भूभृतां (राज्ञाम्)
व्यतिकरः संसर्गसुखं तस्मात् शेषेषु ( अवशिष्टेषु ) सुखेषु चन्दन
थापा-
'न्तरे तु ज्ञात एवार्थ:, अर्थात् समुत्सारितः स्वसमीपं प्रापितः कुलशैलानां व्यतिकरः सम्बन्धो यया
तादृशी च शेषस्य शरीरे निषण्णा चेति ।
पाठा० -१ पर्वतकशबरीम् ; पर्वतकपातृशवरीम्. २ आलापयन्तीग्. ३ विनिहतैः; अभिह्तैर्मुहुरपसर्पद्भिरुप.
सर्पद्भिश्च. ४ कन्दुकैः ५ हारीतकलरुत ६ लेखिकाप्रतिम. ७ जालाचित ८ स्तनतटे ९ प्रतिबिम्बमार्द्रदन्तव्रण-
अण्डल, १० व्याज, ११ भूभृद्वरव्यतिकर. १२ शेषभोगेषु निषण्णां च १३ सखीम्,