कादम्बरी /424
This page has not been fully proofread.
कादम्बरीवर्णनम् ]
पूर्वभागः ।
३९१
ष्टमन्मथदर्शित सौभाग्यविशेषाम् उरःसमारोपितलक्ष्मीमुदितनारायणावलेपहरणाय प्रति-
बिम्बकैर्निजरूपतो लक्ष्मीशतानीव सृजन्तीम्, उत्तमाङ्गनि हितैक
चन्द्र विस्मितहराभिमाननाशाय
विलास स्मितैश्चन्द्र सहस्राणीव दिक्षु क्षिपन्तीम्, निर्दयदग्धैकमन्मथप्रमथनाथरोषेणेव प्रतिहृदयं
मन्मथायुतान्युत्पादयन्तीम्, रजनीजागर खिन्नस्य परिचित चक्रवा कमिथुनस्य स्वप्तुं क्रीडानदि-
कासु कमलधूलिवालुकाभिर्वाल पुलिनानि कारयन्तीम्, 'परिजननूपुरवप्रैस्थितं दुर्लभं च हंस-
मिथुनं मृणालनिगडकेन नद्धानय इति हंसपालीमादिशन्तीम्, आभरणमरकतमयूखांल्लिहते
हेरिणशावकाय सखीश्रवणादपनीय यवाङ्करप्रसवं प्रयच्छन्तीम्, आत्मवैर्धितलताकुसुमनिर्गम-
निवेदनागता मुद्यानपालीम शेषाभरणदानेन संमानयन्तीम् उपनीतविविधवनकुसुमफलपूर्ण-
.9
शादस्याः सौभाग्यातिशयो व्यज्यते । उर इति । उरःस्थले समारोपिताऽवस्थापिता या लक्ष्मीस्तया मुदितो
हर्ष प्राप्तो यो नारायणस्तस्य योऽवलेपोऽहंकारो मत्सदृशः कोऽपि नास्ति, अन्येषां लक्ष्मीर्वर्तते सा बहिःसंयोग-
वियोगमात्रेण परं न शरीरान्तर्गतेत्येवंरूपस्तस्य हरणाय निवृत्तेर्निजरूपत आत्मीयदेहस्य । सार्वविभक्तिक-
स्तस् । तस्य प्रतिबिम्बकैः प्रतिच्छायैर्लक्ष्मीशतानीव सृजन्तीं कुर्वन्तीम् । उत्तमाङ्गे शिरसि निहितः स्थापितो
य एकोऽद्वितीयश्चन्द्रः शशी तेन विस्मितो हर ईश्वरस्तस्याभिमानोऽहंकारः एका चन्द्रस्य कला, सापि खोत्तमाने
एव, नान्यस्य कस्यचित्, स्वतन्ववयवे बहिर्वा, इत्येवंरूपस्तद्वै परीत्येन तदभि (मान) नाशाय विशदाहादकत्वसाम्येन
विलासम्मितैर्दिक्षु चन्द्रसहस्राणीव क्षिपन्तीम् । तादृशस्मितान्येव चन्द्रसहस्ररूपतां प्राप्तानीत्यर्थः । निर्दयद्-
ग्धेति । निर्दयं निष्करुणं दग्धो ज्वालित एकोऽद्वितीयो मन्मथः कंदर्पो येनैवंभूतो यः प्रमथनाथ ईश्वरस्त
स्मिन्यो रोषः क्रोधस्तेनेव प्रतिहृदयं मन्मथस्यायुतानि संख्या विशेषाण्युत्पादयन्तीं निर्माणं कुर्वन्तीम् ।
रजनीति । रजन्यां यो जागरो जागरणं तेन खिन्नस्यैवंविधस्य परिचितं स्ववशमानीतं यच्चक्रवाक-
मिथुनं द्वन्द्वचरयुग्मं तस्य स्वप्तुं शयनं कर्तुं क्रीडानदिकासु क्रीडातटिनीषु कमलानां नलिनानां धूलयः परागा
ता एव वालुकाः सिकतास्ता भिर्बाल पुलिनानि स्वसैकतानि कारयन्तीम् । अत्र पूर्वोक्तेषु वक्ष्यमाणेषु वा यंत्र
यत्र द्रव्यगुणक्रियाभिः प्रस्तुतप्रशंसा तत्र सर्वत्र यथोचितं तत्तदतिशया एव व्यङ्ग्याः स्वयं बोद्धव्याः । यथा
निजरूपतः प्रतिबिम्बैरित्यत्र रूपातिशयः । यथा वा रजनीत्यत्र कमलातिशयः पुंलिनक्रियातिशयश्च । परि-
अनेति । परिजनः परिच्छदलोकस्तस्य नूपुराणि पादकटकानि तेषां रवः शब्दस्तेन प्रस्थितं चलितं दुर्लभं
दुष्प्रापं च हंसमिथुनं चक्राङ्गयुग्मं मृणालं तन्तुलं तदेव निगडकमन्दुकस्तेन बद्धा नियम्यानय मत्समीपं प्रापय ।
इति हंसपाली हंसरक्षानियुक्तामादिशन्तीं कथयन्तीम् । पुनः किं कुर्वन्तीम् । आभरणानां भूषणानां मरकतान्य-
इमगर्भाणि तेषां मयूखान्किरणल्लिहत आस्वादयते हरिणशावकाय मृगशिरावे सखीश्रवणाद्वयस्या कर्णायवाकर -
प्रसवं हयप्रियोगमपुष्पमपनीय दूरीकृत्य प्रयच्छन्तीं ददतीम् । आत्मेति । आत्मवर्धिता स्वयं वृद्धिं प्रापिता या
लता वली तस्यां कुसुम निर्गमः पुष्पप्रादुर्भावस्तस्य निवेदनाय कथनायागतां प्राप्तामुयानपालीं वनरक्षा नियुक्ताम-
शेषाभरणदानेन समग्रभूषणप्रदानेन संमानयन्तीं संमानं कुर्वन्तीम् । उपेति । उपनीतान्यानीतानि विविधा -
न्यनेकप्रकाराणि वनकुसुमफलानि तैः पूर्ण भृतं पत्रपुटं यया सा ताम् । अविज्ञायमानो यं आलापः संलाप-
स्तस्य भावस्तत्ता तया हास हेतुं परिहासनिमित्तं पुनः पुनर्भूयोभूयः क्रीडापर्वतस्य पत्रशबरीं पुलिन्दपत्नीम् ।
टिप्प० - 1 लघुसैकतानि । 2 'पुलिन्दः पत्रशबरः' इति रखकोशकल्पनं धौर्त्यमेव टीकाकृतः ।
'क्रीडापर्वत कपातृशबरीम्' इत्येव पाठः । क्रीडापर्वतस्य पात्री रक्षिका या शबरीति तदर्थः । हंसपाली-
उद्यानपालीति प्रकरणेन पर्वतपालिकायाश्च स्पष्टं प्रतिभासनात् । प्राकृतपर्वते निवसन्ती शबरी मनुष्यभाषां
न जानाति । किन्तु कृत्रिमक्रीडा पर्वतरक्षिकाऽपि स्वस्वामिनो भाषां न बुध्यत इति अतिशय कल्पनमेव
त्राणस्य ।
Chungbplet
पाठा- •१ एकलक्ष्मी २ स्विन्नस्य ३ प्रस्थितं वल्लभं च हंसमिथुनम् ; प्रस्थितं च वल्लभहंस मिथुनम् ४ लिहसे
हरित तृणसुचीलोमेन, ५ भवनहरिण, ६ संवर्धितलताप्रथमकुसुम,