कादम्बरी /423
This page has not been fully proofread.
कादम्बरी।
[ कथायाम-
३९०
पवनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्रुमलतालोहिताभ्यामधराभ्यां रक्ता-
वदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसंपुटच्छविना कपोलयुगलेन रतिपरि-
वादिनीरत्नकोणचारुणा नासावंशेन च विराजमानाम्, गतिप्रसरनिरोधि श्रवणकोपादिव किं.
चिदारक्तापाङ्गेन निजमुखलक्ष्मीनिवास दुग्धोदधिना लोचनयुगलेन लोचनमयमिव जीवलोकं
कर्तुमुद्यताम्, उन्मदयौवनकुञ्जरमदराजिभ्यां भूलताभ्यां मनःशिलापङ्कलिखितेन च रौंगा-
विष्टेन मन्मथहृदयेनेव वदनलग्नेन तिलकबिन्दुना विद्योतितललाटपट्टाम्, उत्कृष्टद्देमतालीप-
ट्टाभरणमयमामुक्तकर्णोत्पलच्युतमधुधारा संदेहकारिणं कर्णपाशं दोलायमानपत्रमरकतमाणि-
क्यकुण्डलं दधतीम्, पाटलीकृतललाटेम सीमन्तचुम्बिनचूडामणेः क्षरतांशुजालेन मदिरार-
सेनेव प्रक्षाल्यमानदीर्घ केशकलापाम्, देहार्धप्रविष्टहरगर्वित गौरीविजिगीषयेव सर्वाङ्गानुप्रवि-
द्रस्योद्द्वताभ्यां प्रादुर्भूताभ्यां तरङ्गाभ्यामिव । विद्रुमेति । विद्रुमलतावलोहिताभ्यां रक्ताभ्यामधराभ्यां दन्त-
च्छदाभ्यां तथा रक्तावदातेन खच्छा निर्मला कान्तिर्यस्यैवं विधेन । मदिरेति । मदिरारसः कापिशायनद्रवस्तेन
पूर्ण भृतं माणिक्यशुक्तिसंपुटं तद्वच्छविः कान्तिर्यस्यैवंविधेन कंपोलयुगलेन । तथा रतेः परिवादिनी सप्तत
स्त्रीभिर्युक्ता वीणा तस्या रत्नमयो यः कोणो 'वीणादिवादनं तद्वच्चारुणा मनोहरेण नासावंशेन च नासि-
कावेणुना च विराजमानां शोभमानाम् । गतीति । गतिर्गमनं तस्य प्रसरो विस्तारस्तस्य निरोधि
प्रतिद्वन्द्विं यच्छ्रवणं तस्य यः कोपस्तस्मादिव किंचिदारक्तेऽपाने निर्याणे यस्य स तेन । निजेति । निज-
मात्मीयं यन्मुखं तस्य या लक्ष्मीः श्रीस्तस्या निवासार्थ दुग्धोदधिना क्षीरसमुद्रेणैवंविधेन लोचनयुगलेन नेत्रयु-
ग्मेन लोचनमयमिव जीवलोकं कर्तुमुद्यताम् । कपोलावधिश्याम लेखाद्वयसाम्येनाह -- उन्मदेति । उद्गतो मदो
यस्मादेवंभूतं ययौवनं स एवानिवार्यत्वात्कुञ्जरस्तस्य मदो दानं तस्य राजीव राजी ताभ्यां भ्रूलताभ्याम् । तथा
रागोऽनुरागस्तेनाविष्टेन व्याप्तेन । अथ च राग आरुण्यम् । तिलकारुण्यमिति यावत् । एवं विधेन मन्मथहृदये-
नेव कंदर्पखान्तेनेव वदनलग्नेन मनःशिलापङ्कलिखितेन तिलकबिन्दुना विथोतितं प्रकाशितं ललाटपट्टं यस्याः
सा ताम्। केचित्तु — मन्मथो हृदये यस्मात् तिलकारुण्यं दृष्ट्वा यूनां हृदये मन्मथावेश एवं विधेनेवेति
व्याख्यानयन्ति । पुनः किं कुर्वन्तीम् । दधतीं धारयन्तीम् । कर्णपाशं कर्णाभरैण विशेषम् । दोलायमानं पत्रं स्वर्ण-
पत्रं यस्मिन्नेतादृशं मरकतमाणिक्यनिर्मितं कुण्डलं च आद्यं विशेषयन्नाह - उत्कृष्टेति । उत्कृष्टा अत्यद्भुता
या हेमताली स्वर्णताली तस्याः पट्टाभरणेन निर्मितम् । तस्य च पिङ्गवर्णत्वात्कमलमकरन्दस्याप्येवंभूतत्वा-
तत्साम्येनाह - आमुक्तेति । आमुक्तं परिधानीकृतं यत्कर्णोत्पलं श्रवणकुवलयं तस्माच्युता स्रस्ता या मधु-
धारा तस्याः संदेहकारिणमारेकाजनकम् । पाटलीति । पाटलीकृतं श्वेतरक्तीकृतं ललाटमलिकं येनैवंविधेन
सीमन्तचुम्बिनः केशवर्त्मचुम्बिनश्चडामणेः शिरोमणेरंशुजालेन किरणसमूहेन । क्षरता स्रवता अनेकवर्णत्वसा-
म्यादाह — मदिरार सेनेव प्रक्षाल्य मोनो दीर्घ आयतः केशकलापोऽलकसमूहो यस्याः सा ताम् । देहेति । देहा
शरीरार्धे प्रविष्टो यो हर ईश्वरस्तेन गर्निता गर्व प्राप्ता या गौरी तद्विजिगीषयेव विजेतुमिच्छयेव । सर्वाङ्गेष्वनुप्र-
विष्टो हरविरोधी मन्मथस्तेन दर्शितः सौभाग्यविशेषो यस्याः सा ताम् । एतेन सर्वाज्ञानङ्गप्रवेशेन गौर्याः सका-
-
>
टिप्प० - 1 'मिजराफ' इति प्रसिद्धः । 2 कर्णपाशनामको नाद्यावधि श्रुतो भूषणविशेषः । पाशाकारं
( शकुल्याकारं ) कर्णमित्यर्थः । उत्कृष्टहेम निर्मिततालीपत्राकार (भूषणविशेष ) व्याप्तम्, दोलायमानं
स्वर्णपत्रं यस्मितादृशं मरकतमाणिक्याभ्यां निर्मितं कुण्डलं यस्मिन् (बहुव्रीहिगर्भो बहुव्रीहिः) एवंविधं
कर्णपाशम् ( प्रशस्तं कर्णम्) दधतीमिति तदर्थः । कर्णे कुण्डलं कुण्डले च तदवयवभूतं स्वर्णपत्रम्
( 'पीपलपत्ता' इत्यादि भाषाख्यातम् ) इति बहुव्रीहिद्वयार्थः ।
पाठा०—१ नयनमयम्, २ रागाविष्ट, ३ एकमाटिहेमताटी पुराभरणमपरम् ४ चुम्बितचूडामणे, ५ रागेण,