This page has not been fully proofread.

पूर्वभागः ।
 
ब ]
नाभि॑मण्डलमावर्तिनीमुहहन्तीम्,
 
त्रिभुवन विजयप्रशस्ति वर्णावलीमिव लिखितां मन्मथेन
रोमेराजिमञ्जरी विभ्राणाम् अन्तःप्रविष्टकर्णपल्लवप्रतिबिम्वेनातिभर खिद्यमान हृदयकरतल.
प्रेर्यमाणेनेव निष्पतता मकरकेतुपादपीठेन स्तनभरेण भूषिताम्, अधोमुख कर्णाभरणमयूखा-
स्यामिव प्रसृताभ्याममललावण्यचलमृणालाभ्यां बाहुभ्यां नखकिरणविसरवर्पिणा च
माणिक्यवलयगौरव श्रमव शात्स्वेदजलधाराजालकसिव मुञ्चता करयुगलेन समुद्भासिताम्,
स्तनभारावनभ्यमानमाननमिवोन्नमयता हारेणोचैः करैर्गृहीतचिबुकदेशाम्, अभिनवयौवन-
,
 
पिका मुद्दहन्तीं धारयन्तीम् । त्रिभुवनेति । मन्मथेन कंदर्पण लिखितां लिपीकृतां त्रिभुवनस्य यो
विजयो जयस्तस्य प्रशस्तिवर्णाः श्लाघाक्षराणि तेषामावलीमिव रोमराजिगञ्जरीं तनूरुहसमूहवल्लरीं बिभ्राणां
दधानाम् । अन्तरिति । अन्तः प्रविष्ट एवंभूतः कर्णपलवस्य यः प्रतिबिम्बस्तेन तन्मेिषेणातिभरेण अर्थात् का
मभारेण खियमानं पीड्यमानं यद्धृदयं तस्य मृदुत्वरक्तत्वसाम्यात् । अत्र च प्रतिबिम्बरूपेण करतलेनेव
प्रेर्यमाणं नोदनाविषयी क्रियमाणमेवंभूतम् । अत एव निष्पतता बहिर्निःसरता दृढत्वान्मकरकेतोर्मंदनस्य पाद-
पीठेनेव पदासनेनेव स्तनमरेण भूषितां मण्डिताम् । अधोमुखेति । बाहुभ्यां भुजाभ्यां करयुगलेनेव समु
द्भासितां विभ्राजिताम् । बाहुमुत्प्रेक्षय नाह - अधो इति । अधोमुखेऽवाङ्मुखे ये कर्णाभरणे श्रवणभूषणे
तयोर्मयूखाभ्यो किरणाभ्यां प्रसृताभ्यामत्यन्तप्रवृद्धाभ्यामिव । अतिकोमलसाधर्म्यात् उपमान्तरं प्रदर्श-
यन्नाह -- अमलेति । अमलं निर्मलं यल्लावण्यजलं पानीयं तस्य मृणालंकाभ्यामिव तन्तुलाध्यामिव । करयुगलं
विशेषयन्नाह - नखेति । नखाः पुनर्भवास्तेषां किरणास्तेषां विसरः समूहस्तद्वर्षिणा तदृष्टिकारिणा । किरणविस-
रस्य श्वेतत्वसाम्यादाह
- माणिक्येति । माणिक्यवलयानां रत्नकटकानामप्युद्वहनगौरवेण श्रम इति सौकु-
मार्य ध्वन्यते । तद्वशात्स्वेदः प्रस्वेदस्तस्य जलधाराजालकमिव मुञ्चता त्यजता । पुनः कीदृशीम् । स्तनेति
हारेण मुक्ताकलापेनोच्चैः करैः स्वकिरणैस्तैरेव वा करैर्गृहीतश्चिवुकदेशो नासिकाधः प्रदेशो यस्याः सा ताम् । किं
कुर्वता हारेण । स्तनभारेणावनम्यमानं नम्रतां नीयमानमाननं मुखमुन्नमयतेवोन्चैः कुर्वतेव । अभीति ।
अभिनवं नूतनं ययौवनं तारुण्यं तदेव न्यञ्चलवात्पवनस्तेन क्षोभितस्य क्षोभं प्रापितस्य रागरागरस्य रागसमु
 
टिप्प०-1 साहित्यसारभृताया: कादम्बरीकथाया लोकोत्तरलावण्यवती नायिका तुन्दकूपीपदेन
(उपस्थापयति हि तुन्दपदं प्रचण्डनाभी गर्तान्धकारितं वाताध्यातमुदरम्) अभ्यर्यत इति धन्या टीका ।
•2 सौन्दर्येणानया त्रिभुवनं विजितमिति कामदेवसदृशेन (निर्णायकेन) लिखितामित्याशयः । 'मन्मथेन
भात्मनस्त्रिभुवनविजयस्य प्रशस्तिः स्वयं लिखितेत्यर्थस्तु' मन्ये न तथा मनोरम: स्यात्, स्वयं स्वप्रशस्ति-
लेखस्यानुचितत्वात् । 3 स्वच्छतया भन्तःप्रविष्टं कर्णपल्लवप्रतिबिम्बं यस्य तादृशेन अतिसरखिद्यमानेन
हृदयेन ( कर्जा) करवलेन ( हृदयपतितमेतद्विम्बमेव हृदयस्य करतलं तेन, 'करणेन' ) प्रेर्यमाणेनेत्यर्थः ।
श्रयं भावः - कोमलं हृदयं कामपीठायितस्तनभारेणात्यन्तं खिन्नम् । अत एवं कर्णपल्लवप्रतिबिम्ब रूपेण
स्वस्य ( हृदयस्य ) करतलेन तत् ( स्तनरूपं कामपादपीठम्) खेदभरासहनतया बहिर्निस्सार्यमाणमस्ति,
अत एव तु क्रमशो निर्गच्छतीत्याशयः । टीकाकारः सर्वमस्पष्टीचकार । 4 मयूखाभ्यामिव इति ग्रन्थक-
तोऽक्षराणि स्पष्टं पश्यनू, द्वितीयस्य इवशब्दस्य च संबन्ध 'जालकमिवे' ति उत्प्रेक्षान्तरे वीक्षमाणोपि यत्कि-
ञ्चिद्वदन् धन्यष्टीकाकारः । बाहुभ्यां तथा करयुगलेन च समुद्भासितामिति वाक्यार्थः । तत्र बाहुभ्यामि
यत्र कर्णाभरणसंबन्धिस्थूलकिरणत्वं मृणालत्वं चोस्प्रेक्ष्यते । करयुगलसंबन्धिनखकिरणप्रसरणे च स्वेद-
जलधारावर्षणमुत्प्रेक्ष्यते, इति विवेकिभिराशयो बोध्यः । 5 हस्तैः । यथा हस्तैस्तथा किरणैश्चिबुकप्रदेश:
स्पृष्टः । उन्नामयता इवेत्युत्प्रेक्षा, करशब्द श्लेषमूलकेन चिबुककर्मकस्पर्श-ग्रहणयोरभेदाध्यवसायेनाति
शयोक्तिश्चेत्यनयोः संकरः ।
 
3
 
पाठा
 
०१ मण्डलीम्; स्थलीम्. २ रोमराजी, ३ मृणालकाण्डाभ्याम् ४ वहनश्रमात् ५ ऊर्ध्वे : ,