This page has not been fully proofread.

कादम्बरीवर्णनम् ]
 
पूर्वभागः ।
 
,
 
.9
 
19
 
यमाणाम् उपान्ते च रत्नभित्तिषु दिक्पालैरिव नीयमानाम् उपरि मणिमण्डपेष्वमरैरियो-
त्क्षिप्यमाणाम्, हृदयमिव प्रवेशितां महामणिस्तम्भैः, आपीतामिव भवनदर्पणैः, अधोमुखेन
श्रीमण्डपमध्योत्कीर्णेन विद्याधरलोकेन गगनतलमिवारोप्यमाणाम्, चित्रकर्मच्छलेनावलो.
कनकुतूहलसंपुञ्जितेन त्रिभुवनेनेव परिवृताम् भूषणरवप्रनृत्तशिखिशर्तविततचित्रचन्द्रकेण
भवनेनापि कौतुकोत्पादितलोचन सहस्रेणेव दृश्यमानाम्, आत्मपरिजनेनापि दर्शनलोभादुपा-
र्जितदिव्यचक्षुषेवानिमिषनयनेन निर्वर्ण्यमानाम्, लक्षणैरपि रागाविष्टैरिवाधिष्ठित सर्वाङ्गाम्,
अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, अदत्तामपि मन्मथावेशपरवशेनेव गृह्यमाणां यौवनेन,
अविचलित चरणरागदीधितिभिरिव निर्गताभिरलक्तकरसपाटलितलावण्य जलवेणिकाभिरिव
गालिताभिर्निवसितांशुफदेशा शिखाभिरिवावलम्बिताभिः पादाभरणरत्नांशुलेखा संदेहदायिनी-
३८७
 
B
 
भावस्तत्ता तया । नागैः सर्वैरपहियमाणामिवान्यत्र नीयमानामिव । तथोपान्ते समीपे च रत्नभित्तिषु तत एव
दिक्पालैः सोमादिभिनयमानामिव प्राप्यमाणामिव । तथोपरि मणिमण्डपेषु रत्नजनाश्रयेषु तत एवामरैर्देवे-
रुत्क्षिप्यमाणामिवोत्पाट्यमानामिव । तत एव महामणिस्तम्भैर्हृदयमिव प्रवेशितां चित्तान्तर्निहिताम् । तत एव
भवनदर्पणैगृहादशैरापीतामिव पानविषयीकृतामिव । श्रीमण्डपमध्योत्कीर्णेनाधोमुखेन विद्याधरलोकेन गगनतलं
व्योमतलमारोप्यमाणामिव तत्र स्थाप्यमानामिव । एतेनोल्लिखित विद्याधररूपाणामतिस्वच्छता दर्शिता । चि
त्रेति । चित्रकर्मालेख्य कर्म तस्य छलेन मिषेणावलोकनलक्षणं यत्कुतूहलं कौतुकं तेन संपुजितेन पिण्डीभूतेन
त्रिभुवनेन परिवृतामिव सहितामिव । भूषणरवेण प्रवृत्तं ताण्डवितं यच्छिखिशतं मयूरशतं तस्य वितता विस्ती-
र्णाश्चित्रा विविधवर्णाश्चन्द्रका मेचका यस्मिन् । कौतुकेन कुतूहलेनोत्पादितं विहितं लोचनसहस्रं येनैवं विधेन भव-
नेनापि दृश्यमानामिव प्रेक्ष्यमाणामिव । अन्यथा भवनस्य लोचनाभावात्कादम्बरीप्रेक्षणं न स्यादिति भावः ।
आत्मेति । दर्शनलोभादवलोकन तृष्णातोऽनिमिषनयनेन निर्वर्ण्यमानामालोक्यमानाम् । के (ने)व । उपार्जितम
जिंतं दिव्यं चक्षुर्येनैवंविधेनेव । यौवनातिशयमाह - लक्षणैरिति । लक्षणैरपि कपोलद्युतिकुचकाठिन्यादि-
भिरधिष्ठितमाश्रितं सर्वाङ्गं यस्याः सा ताम् । कैरिव । रागाविष्टैरिव दृष्टिरागिभिरिव । किं कुर्वन्तीम् । बाल-
भावं मुञ्चन्तीं त्यजन्तीम् । कमिव, अकृतपुण्यमिव निर्भाग्यमिव । अदत्तामिति । अदत्तामैप्यनर्पितामपि
मन्मथस्य कंदर्पस्यावेश आवेगस्तस्य परवशेन पराधीनेन यौवनेन गृह्यमाणामिव स्वीक्रियमाणामिव । पुनः
कीदृशीम् । चरणाभ्यां पादाभ्यां विद्रुमरसनदी मिव हेमकन्दलरसतटिनीमिव प्रवर्तयन्ती विस्तारयन्तीम् । कीदृ-
शाभ्यां चरणाभ्याम् । अङ्गुलीभिः करशाखाभिरुपेताभ्यां सहिताभ्याम् । कीदृशीभिरङ्गुलीभिः । अविचलि
तेति । अविचलितो निश्चलो यश्चरणयो रागस्तस्य दीधितिभिरिव प्रभाभिरिव निर्गताभिः प्रत्युद्गताभिः ।
अलक्तेति । अलक्तकरसो यावकरसस्तेन पाटलितं श्वेतरक्तीकृतं यल्लावण्यजलं तस्य गलिताभिः क्षरिताभि-
वैणिकाभिरिव धाराभिरिव । वस्त्रप्रान्तात्रलम्बनसाम्येनाह - निवसितेति । निवसितं परिधानीकृतं यदंशुकं
रत्नांशुकं तरय दशाशिखाभिरिव वस्त्रप्रान्तायैरिवावलम्बिताभिर्दृढताभिः । पादेति । अतिकोमलतयातिन-
दुतया पादाभरणानां या रत्नांशुलेखा मणिकान्तिरेखास्तासां संदेहदायिनीभिः संशय वितरणकर्त्रीभिः । नख-
टिप्प० - 1 निपतितप्रतिबिम्बतया इत्यनुषङ्गः । एवम् उपरिमण्डपेष्वित्यत्रापि । महामणिस्तम्भ-
दर्पणादिष्वपि निपतितप्रतिबिम्बतया इत्यस्यानुषङ्गो बोध्यः । 2 धिक् टीकाकृतो जाड्यम् । ध्वज-वज्रादि-
चिह्नानि यानि तस्यास्तत्तदङ्गेषु वर्तन्ते, तान्यपि कादम्बर्यामासक्तिवशादाश्रितानि इत्युत्प्रेक्ष्यते । 3 पित्रा-
दिभिरसमर्पिताऽपि सरावेशपरवशतया हव यौवनेन स्वयं गृह्यमाणां स्वीक्रियमाणाम् । कामावेशपरवंशो
हि पित्रादिसमर्पणस्य प्रतीक्षां न कुरुते । परमार्थतस्तु यौवनं कामावेशपरवशं भवत्येव स्वाभाव्यात, अहो
कवयितुश्चातुर्यम् । टीकाकारस्तु वराको दूरादपि न स्पृशति स्वारस्यम्, अत एव अस्थाने 'इव' शब्द-
योगः कृतः ।
 
पाठा० -१ शतचित्र, २ सर्वाङ्गीम्; सर्वावयवाम् ३ विनतचरण, ४ रक्तांशुक.
 
-