2023-09-11 08:12:12 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
शूद्रकवर्णनम् ]
पूर्वभागः ।
यिता गोष्ठीबन्धानाम्, आश्रयो रसिकानाम्, प्रत्यादेशो धनुष्मताम्, धौरैयः साहसिका -
नाम्, अग्रणी र्विदग्धानाम्, वैनतेय इव विनतानन्दजननः, [^१]वैन्य इव चापकोटिसमुत्सारिता-
रितारां [^२]रातिकुलाचलो राजा शूद्रको नाम ।
मात्रै
नाम्नैव यो निर्भिन्नारातिहृदयो विरचित [^३]नारसिंहरूपाडम्बरम्, एक- विक्रमाक्रान्तसकल-
भुवनतलो विक्रमन्त्रयायासितभुवनत्रयं च [^४]जहाँहासेव वासुदेवम् । अतिचिरकाललप्रग्नमतिक्रान्त-
कुनृपतिसहस्रसंपर्क कलङ्कमिव क्षालयन्ती यस्य विमले कृपाणधाराजले चिरभुमुवास राज-
लक्ष्मीः । यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, हदृशि
श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि
4
शत्रुलोकस्योत्पातकेतुर्धूमकेतुः । प्रवर्तयितैतेति । गोष्ठीबन्धानां मधुरकशाथानां प्रवर्तयिता प्रवर्तकः । आश्रय
इति । रसिकानां रसवेत्तृतॄणामाश्रयः आश्रयस्थानम् । प्रत्यादेश इति । धनुष्मतां धनुर्धारिणां प्रत्यादेशो
निराकर्ता । 'प्रत्यादेशो निराकृतिः' इति कोशः । सर्वधनुर्धरोत्कृष्ट इत्यर्थः । धौरेय इति । साहसिकानां
सत्त्ववतां मध्ये धौरेयो धुर्यः । अन्नग्रणीरिति । विदग्धानां पण्डितानां मध्येऽग्रणीर्मुख्यः । वैनतेय इति ।
विनतेभ्यः कृतनतिभ्य आनन्दस्य प्रमोदस्य जननः कर्ता । क इव । वैनतेय इव सुपर्ण इव । सोऽपि
विनतायाः स्वमातुः प्रमोदकृत्स्यादित्युभयोः साम्यम् । वैन्य इवेति । चापो धनुस्तस्य कोटिरग्रभागस्तेन
समुत्सारिता निराकृता अरातय एव शत्रव एव कुलाचलाः कुलपर्वता: क्षेत्रसीमावर्तिपर्वताः येन स तथा ।
क इव । वैन्य इव पृथुराज इव । एतत्पक्षेऽरातयः कुलाचलाश्चेति द्वन्द्वः । शेषं पूर्ववतत् । पृथुना पूर्ववं पर्वताकीर्णा
णां
धरित्रीं विलोक्य धनुःकोट्या पर्वतानुत्सार्य भूः समीकृतेति पुराणम् ।
।
नाम्नेति । यः शद्रको वासुदेवं श्रीकृष्णं जहासेव हास्यं चकारेव । कथंभूतः । नान्म्नैवाभिधानश्रवणमात्रेणैव
निर्भिन्नानि द्वैधीकृतान्यरातीनां शत्रूणां हृदयानि वक्षांसि येन स तथा । कीदृशं वासुदेवम् । विरचितेति ।
विरचितो विहितो नारसिंहरूपलक्षण एवाडम्बर आटोपो येन स तथा तम् । एकेति । एकेनाद्वितीयेन
विक्रमेण पराक्रमेणाक्रान्तं व्याप्तं सकलं समग्रं भुवनतलं विष्टपतलं येन स तथा । कथंभूतं वासुदेवम् ।
विक्रमेति । विक्रमः पादविक्षेपस्तस्य त्रयं त्रितयं तेनायासितं संप्राप्तखेदम् । 'आसितम्' इति पाठ आसितं
स्थितम् । अत्रायं भावः - अस्य राज्ञो नामश्रवणादेव वक्षोविदारणं भवति । वासुदेवेन तु शत्रुवक्षोविदारणे
नृसिंहावताराडम्बरं कृतम् । राज्ञा चैकेनैव विक्रमेण पराक्रमेण सर्व जगदाक्रान्तम् । वासुदेवेन तु भुवना-
क्रमणाय विक्रमत्रयं कृतमिति हास्ये हेतुः । अतीति । यस्य कृपाणधाराजले खड्गधारारूपे जले चिरं
बहुकालं यावलक्ष्मीः पद्मोवास वसतिं चक्रे । खड्गबलाल्लक्ष्मीः स्ववशीकृतेति भावः । किं कुर्वतीव । क्षाल-
यन्तीव प्रमार्जयन्तीव । कम् । अतीति । अतिचिरकालो भूयानतीतः समयस्तेन लग्नं जातम् । पुनः कीदृ-
शम् । अतीति । अतिक्रान्ता व्यतीता ये कुनृपतयः कदर्यनरपतयस्तेषां सहस्रं तेन संपर्कः संबन्धस्तेन यः
कलङ्कोऽभिज्ञानम् । अन्योऽपि पङ्कादिकं जलादिना क्षालयतीति ध्वनिः । यश्चेति । यः शुद्रको भगवतो
नारायणस्यानुकरोति । 'कृञः प्रतियत्ने' इत्यनेन कृञः कर्मणि षष्ठी । भगवन्तं नारायणं सर्वदेवमयत्वेन
विश्वात्मकतया चानुकरोति । तत्तुल्यतां भजतीत्यर्थः । तदेव दर्शयति - मनसि धर्मेणेत्यादि । अत्र
वसतेति वसतापदस्य सर्वत्रान्वयो यथालिङ्गम् । मनसि खास्वान्ते धर्मेण वृषेण वसता वासं कुर्वता । सदैव
धर्मचिन्तनात् । कोपे क्रोधे यमेन कृतान्तेन । तत्कालमेव सापराधिनां प्राणहरणात् । तथा प्रसादे प्रसन्नतायां
धनदेन श्रीदेन । सेवाकृत्समीहिताधिकप्रदानात् । प्रतापे पूर्वोत्क्तलक्षणे वहिनामिह्निनाग्निना । समग्रशत्रुदाहकत्वात् ।
भुजे बाहौ भुवा पृथिव्या । राज्यभारक्षमत्वात् । दृशि चक्षुषि श्रिया लक्ष्म्या । सप्रीतिनिरीक्षणमात्रेणैव
तत्संभवात् । वाचि वचने सरस्वत्या भारत्या । अनवरतगद्यपद्याद्यनेकप्रबन्धविधानात् । मुखे वदने शशिना
पाठा -
[^१]G. पृथुः
[^२]G. सकलाराति.
[^३]G. नरसिंह
[^४]G. हसति स्मेव.
२ का०