This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
शिरीषकुसुमाभरणैः, अथ सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्य-
मयेन कृतदीर्घरथ्या मुखाकारं मार्गमद्राक्षीत् । तेन चान्तर्निपतन्तमाभरणकिरणालोकं संपि-
ण्डितं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतीहा-
रिमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श ।
 
३८६
 
तत्र च मध्यभागे पर्यन्तरचितमेण्डलेनाध उपविष्टेन चानेकसहस्रसंख्येन परिस्फुरदाभर-
णसमूहेन कल्पलतानिवहेनेव कन्यकाजनेन परिवृताम्, नीलांशुकप्रच्छदपटप्रावृत्तस्य नाति-
महतः पर्यङ्कस्याश्रये धवलोपधानन्यस्तद्विगुणभुजलतावष्टम्भेनावस्थितां महावराहदंष्ट्रा-
वलम्बिनीमिव महीम्, विस्तारिणि देहप्रभाजालजले भुजलता विक्षेपपरिभ्रमैः प्रतरन्तीभिरिव
चामरग्राहिणीभिरुपवीज्यमानाम्, निपतितप्रतिबिम्बतयाधस्तान्मणिकुट्टिमेषु नागैरिवापहि-
20
 
A
 
अन्वयस्तु प्रागेवोक्तः । तेनेति । तेन मार्गेणान्तर्मध्ये निपतन्तं प्रविशन्तं संपिण्डितं नानाभूषणप्रभामिश्रित-
माभरण किरणालोकं विभूषणप्रभाप्रकाशम् । प्रसरणसाम्येनाह - नदीति । नयाः सरितो वेणिका रेयस्तत्र यो
जलप्रवाहस्तद्वदिव वहन्तं प्रसरन्तमपश्यत् । तन्मध्य इति । आभरणकिरणालोकमध्ये महाश्वेतया सह प्रति-
स्रोत इव प्रतिरय इव गत्वा प्रतीहारिमण्डलेनाधिष्ठित आश्रितः पुरोभागोऽप्रभागो यस्यैवंविधं श्रीमण्डपं ददर्श
दृष्टवान् । अत्रालोकस्याभ्यन्तरावधि निपतनात् एतस्य प्रत्यभिमुखगमनात्, गमनमात्र एव दृष्टान्तस्तस्मिन्नेव
दृष्टान्तस्योचितत्त्रात्, न तु दर्शन क्रियायामिति ।
 
>
 
तत्र श्रीमण्डपे मध्यभागे कादम्बरीं ददर्शेत्यन्वयः । इतो दूर कादम्बरी विशेषयन्नाह - पर्यन्तेति । म.
ण्डपपर्यन्तं रचितं निर्मितं मण्डलं येन स तेन । अंध इति । कुमारिकासनापेक्षयाध उपविष्टेन स्थितेनानेकेषां
सहस्राणां संख्या गणना यस्मिन्स तेन । परीति । परिस्फुरद्देदीप्यमान आभरणानां भूषणानां समूहो यस्मि
न्स तेन । मनोहरत्वसाम्येनाह - कल्पेति । कल्पलता मन्दारवल्लयस्तासां निवहेनेव समूहेनेव कन्यकाजनेन
परिवृताम् । नीलेति । नीलं यदंशुक्रं तस्य यः प्रच्छदपट उत्तरच्छदस्तेन प्रावृतस्याच्छादितस्य नातिमहतो
नातिमहीयसः । परिमाणोपेतस्येत्यर्थः । पर्यङ्करस्य पल्यङ्कस्याश्रयेऽधिकरणे धवलं शुभ्रं यदुपधानमुच्छीर्षकं तत्र
न्यस्ता स्थापिता या द्विगुणा भुजलता तदवष्टम्भेन तदाश्रयेणावस्थिताम् । अत्र भुजाया वक्रीकरैणत्वेन द्विगु.
णत्वं बोध्यम् । धवलालम्बनावस्थितत्वमात्रेणोपमानमाह - महावराहेति । महावराह आदिनोडस्तस्य दंष्ट्रा
दाढा तत्रावलम्बिनीमाश्रितां महीमिव वसुधामिव । विस्तारिणि प्रसरणशीले देहप्रभाजालमेव जलं पानीयं
तस्मिन्भुजलतानां बाहुवल्लीनां विक्षेपरूपा ये परिभ्रमास्तैः प्रतरन्तीभिरिव जलावगाहनं कुर्वन्तीभिरिव चामर-
प्राहिणीभिरुपवीज्यमानाम् । निपतितेति । मणि कुट्टिमेष्वधस्तान्निपतितं यत्प्रतिबिम्बं प्रतिच्छाया तस्या
 
टिप्प० – 1 अन्वयोऽर्थश्चापि भ्रामकः । वहन्तं, नथाः वेणिकावत केशपाशवेणीवत ( अर्थात् सरलः)
यो जलप्रवाहस्तमिव तेन (मार्गेण) निपतम्तम् ( अभ्यन्तरादागच्छन्तम्) भाभरणकिरणालोकमपश्यत् ।
2 कल्पलता अपि अर्थिजनमनोरथपूरणाय नानाविधाभरणयुक्ता इति द्वयोः साम्यम् । 3 फोष्टि
भुज ऊर्ध्वमुखीकृतः, अत एव कफोण्यूर्ध्व भागे द्विगुणत्वमित्यर्थः । 4 सर्व अमजनकमापादितम् । धव-
लोपधानन्यस्तभुजलता कादम्बरी महीव इत्युपमा, भुजलतोपष्टम्भस्य वराहदंष्ट्रासादृश्यादिति सेयमुपमा
पृथक् । परितः प्रसारिणि कादम्बर्या देहप्रभारूपे जले तरन्तीभिरिव चामरग्राहिणीभिर्वीज्यमानामिति
द्वितीया उत्प्रेक्षा ( चामरचालनार्थ इस्तौ न कम्प्येते, अपि तु जले हस्तक्षेपेण तास्तरन्ति इत्याशयः) ।
 
पाठा०-
-१ निपतित. २ मण्डलोपविष्टेन; मण्डलेनोवेंणोपविष्टेन च ३ अतिमहतः ४ उपाश्रये; अपाश्रये.